Friday, December 24, 2021

Bhashaa paaka pariksha - Sanskrit

नमस्ते !

सम्भाषणसन्देशेन (सन्देशप्रतिष्ठानेन सञ्चाल्यमानेन)

कर्णाटकसंस्कृतविश्वविद्यालयस्य सहयोगेन आयोजयिष्यते

भाषापाकपरीक्षा – २

भाषापाकप्रथमभागस्य परीक्षां ये पठितवन्तः तेषाम् अनुभवः यत् भाषापाकस्य पठनम् अस्ति महते लाभाय, शब्दरूपेषु धातुरूपेषु च विद्यमानाः बहवः भ्रमाः अपगताः इति । रूपाणां साध्वसाधुत्वविषये अस्माकं स्पष्टता इतोऽपि अपेक्षिता भवति बहुधा । भ्रमनिवारणार्थं इदमित्थम् इति साधुत्वं वक्तुं च भाषापाकपुस्तकानि उपकुर्वन्ति । सर्वोऽपि संस्कृतज्ञः एतम् अंशम् आत्मसात् कुर्यात् स्वाध्यायेन इति धिया आयोज्यते एषा द्वितीया परीक्षा अपि ।

परीक्षासम्बद्धाः सूचनाः सन्ति एवम्...

१. भाषापाकस्य द्वितीयभागम् आधृत्य भविष्यति एषा परीक्षा ।

२. सर्वोऽपि परीक्षां स्वीकर्तुम् अर्हति । पञ्जीकरणार्थं वयोमितिः नास्ति ।

३.ये प्रथमपरीक्षां स्वीकृतवन्तः ते, तदन्ये अपि शक्नुवन्ति । प्रथमपरीक्षायाः अनिवार्यता नास्ति ।

४. पञ्जीकरणार्थम् अन्तिमः दिनाङ्कः १५ जनवरी २०२२

५. पञ्जीकरणशुल्कं रू. १००/- । अधः दत्ताय वित्तकोषाय प्रेषयित्वा तस्य विवरणम् (UTR No, दिनाङ्कः इत्यादि) आवेदनपत्रे उल्लेखनीयम्

           Name of account - Sambhashana Sandesha

           Bank details: Union Bank of India, Girinagar, Bangalore

           Account Type - CLSB

           Account No. – 520141000016922

           MICR No – 560017055

           IFSC No – UBIN0907464

६. पुस्तकं तु पृथक्तया स्वीकरणीयम् । तदर्थं जालपुटविवरणम् एवम् -(https://www.samskritabharati.in/bookstore) । ततः मुद्रितपुस्तकम् ई-पुस्तकं वा क्रेतुं शक्येत ।

७. परीक्षा शताङ्कात्मिका । मार्च्-मासस्य २७ तमे दिनाङ्के आन्लाईन्-माध्यमेन भविष्यति ।

८. उत्तरपत्रं तु स्पीड्-पोस्ट्/रजिस्टर्ड्पोस्ट्/कोरियर्-माध्यमेन प्रेषयितुं शक्यम् ।

९. विजेतृषु एकस्मै सरस्वतीप्रशस्तिः (रू. ५०००/-), पञ्चभ्यः वाक्प्रशस्तिः (रू. ३०००/-), दशभ्यः वाणीप्रशस्तिः (रू१०००/-) च दास्यते ।

१०. उत्तीर्णवद्भ्यः सर्वेभ्यः आन्लाईन्-प्रमाणपत्रं दास्यते ।

११. आवेदनपत्रम् अत्र अस्ति - https://forms.gle/1ADZfUXnPEmReu8WA                             

सम्पर्कः – सम्भाषणसन्देशः, अक्षरम्, गिरिनगरम्, बेङ्गलूरु – ५६००८५,

दूरवाणी - ०८०-२६७२२५७६ / २६७२१०५२, ईमेल् - ssvruttam@gmail.com

 

सूचना - ये डिसेम्बरमासान्तं यावत् पञ्जीकरणं कुर्युः तेभ्यः पाठनव्यवस्था भविष्यति । तत्सम्बद्धं विवरणम् अनन्तरं दास्यते ।

 


--
-इति भवदीयः
कार्यालयप्रतिनिधिः

--
-इति भवदीयः
कार्यालयप्रतिनिधिः

No comments:

Post a Comment