यदा राक्षसाः हनुमतः पुच्छं वस्त्रैः बध्नन्ति स्म तदा हनुमान् तूष्णीम् एव आसीत्। रावणस्य सैनिकाः तत्र तैलमपि सिञ्चन्ति स्म।
यदा ते सैनिकाः तस्य पुच्छे अग्निसंयोगं कुर्वन्तः आसन् तदापि हनुमान् तूष्णीम् एव आसीत्।
अधीराः जनाः तदानीं कथयन्तः आसन् यद् असौ अत्यन्तं दुर्बलः अस्ति, रावणस्य पुरतः सः दग्धः भविष्यति इति।
परन्तु हनुमान् अन्ये रामभक्ताः च समीचीनतया जानन्ति स्म यद् हनुमतः पुच्छे राक्षसैः स्थापितः अग्निः तेषां लङ्कां ज्वालयिष्यति इति।
*जय श्रीराम*
*-प्रदीपः।*
No comments:
Post a Comment