Tuesday, April 27, 2021

Sanskrit joke

एकदा कश्चिद् राजा कस्यचन पण्डितस्य वैदुष्ये प्रसन्नो भूत्वा तमेकं महिषीं दातुम् आज्ञापितवान्। राजभृत्याः तमेकं जरठां महिषीं अयच्छन्। पण्डितः तां महिषीं नीत्वा राजसमक्षं गत्वा स्वमुखं महिष्याः कर्णयोः समीपं स्थापितवान्। तद् विलोक्य राज्ञा पृष्टं "हे पण्डित, इयं महिषी भवन्तं किं उक्तवती? इति॥ महिष्याः उत्तररूपेण पण्डितः महीपतिं श्लोकमेनं श्रावितवान् –
भर्ता मे महिषासुरः कृतयुगे देव्या भवान्या हत-
स्तस्मात्तद्दिनतो भवामि विधवा वैधव्यधर्मा ह्यहम्।
दन्ता मे गलिताः कुचा विगलिता भग्नं विषाणद्वयम्
वृद्धायां मयि गर्भसंभवविधिं पृच्छन्न किं लज्जसे॥
पण्डितस्य प्रत्युत्पन्नमतित्वात् प्रसन्नो भूत्वा राजा तस्मै एकां यौवनयुक्तां महिषीं अदापयत्॥

No comments:

Post a Comment