श्रीशिवध्यानपञ्चामृतम्
रचयिता
श्रीव्रजकिशोरत्रिपाठी
*******************
(१)
पांशुप्रेमी पटविरहितः पर्वती पावकाक्षः
पत्नीसक्तः प्रमथगणपः पार्वतीपुत्रपालः।
पापध्वंसी पतितजनताप्राणपाता पिनाकी
पृथ्वीपूज्यः प्रभुपशुपतिः पञ्चवक्त्रः प्रपातु।।
(२)
भीतिं भेत्ता भरितभुवनो भक्तभाग्यस्य भर्त्ता
भूदेवेशो भवभयहरो भद्रभारस्य दाता।
भष्माभूषो भपतिभरणो भग्नमाराभिमानो
भीमोऽभीमो भवतु भगवान् भूतये भावयामि।।
(३)
शान्ताकारः शिखरिशयनः शीतरश्मेः शरण्यः
शूलीशानः शमनशमनः शंकरः शत्रुमर्दः।
श्यामग्रीवः शिवमयशिवः शेमुषीशीलवर्षी
शीघ्रं शम्भुः शमयतु शरीरार्त्तिराशीन्नमामि।।
(४)
श्रीश्रीकण्ठः शशधरधरः श्वेतरूपः शिखाढ्यः
शैलाधीशः शवशयनपः शुद्धशश्वत्स्वरूपः।
शक्रासेव्यः शमितदुरितः शासिता शब्दशास्त्रं
शीघ्रं शम्भुः शमयतु शरीरार्त्तिराशीन्नमामि।।
(५)
शुक्लज्योतिः शशिशकलभृद् शण्ढशोभोतिशान्तः
श्यामाशीर्षः शुभशकुनकृद् शुद्धशार्दूलचर्मी।
शक्त्यासक्तः शुचिपरमदृक् शिष्टताशान्तिदाता
शीघ्रं शम्भुः शमयतु शरीरार्त्तिराशीन्नमामि।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
No comments:
Post a Comment