पुस्तकम् - *समासः* ।
१) राष्ट्रपतिप्रशस्तिपुरस्कृतैः *महामहोपाध्याय श्रीमहाबलेश्वरभट्टवर्यैः* विन्यस्तं पुस्तकम् एव *समासः*
२) व्याकरणस्य पञ्चसु वृत्तिषु *समासवृत्तिः* अत्यन्तं प्राधान्यम् आवहति। प्रायः प्रौढशालातः विश्वविद्यालयशिक्षणपर्यन्तम् अपि पाठ्यत्वेन समासः कश्चन विषयः स्यादेव। अतः *अत्यन्तं सरलया शैल्या समासं ज्ञातुं बोधयितुं च इदं पुस्तकं सहकरोति* ।
३) अत्र पुस्तके सरलया भाषया बोधनं कृतमिति कारणतः कुत्रापि अवगमने क्लेशः न भवति। *विपुलानि उदाहरणानि अस्य पुस्तकस्य वैशिष्ट्यम्*।
४) छात्राणां प्रौढानां च कृते विषयाः विभक्ताः। *विशेषतः कथं समासः बोधनीयः* इति शिक्षकैः मार्गः प्राप्यते।
५) समासे बहवः प्रश्नाः उद्भवन्ति यथा उत्तरपदस्य नियमाः के? पूर्वपदस्य के नियमाः? विग्रहस्य नियमाः के? कः समासः इति कथम् अवगन्तव्यम्? इत्येवं प्रश्नाः उद्भवन्ति। वस्तुतः एतस्य पुस्तकस्य पठनावसरे प्रश्नाः एव न उद्भवन्ति यतः बोधनशैली, विषयानुसारं कोष्टकानि, सरला भाषा, अधिकानि उदाहरणानि, सर्वत्रापि विग्रहवाक्यदर्शनम्, इत्येवं बहवः ग्रन्थस्य गुणाः विशिष्टा: सन्ति।
६) इदं पुस्तकं पठन्तः एव च्छात्राः बहूनि उदाहरणानि स्रष्टुं शक्नुवन्ति।
७) एतावता अस्य पुस्तकस्य १५ वारं पुनः पुनः पुनर्मुद्रणम् एव वदति ग्रन्थस्य जनप्रियताम्। ८०००० पुस्तकानि विक्रीतानि इति विशेषः। *प्रायः संस्कृतजगति एतावत्परिमाणेन किमपि अन्यत् पुस्तकं नैव विक्रीतं स्यात्।*
८) *समासस्य बहून् सुलभान् उपायान् सरलतया ज्ञातुम् इच्छन्ति चेत् कृपया पुस्तकं प्राप्य पठन्तु*। ₹ ३०/- तावदेव।
तर्हि कुतो विलम्बः?
संस्कृतभारत्याः जालस्थानम् आगच्छन्तु। www.samskritabharati.in मध्ये पुस्तकानि आदिशन्तु। गृहद्वारे पुस्तकं प्राप्य *मासाभ्यन्तरे समासशास्त्रे व्युत्पन्नाः भवन्तु*।
अक्षराणाम् अकारोस्मि *द्वन्दः सामासिकस्य च* इति श्रीकृष्ण: गीतायाम्
No comments:
Post a Comment