Thursday, December 31, 2020

mann ki baat in sanskrit 27.12.2020

नमोनमः!
         कृपया स्वीकुर्वन्तु सादरम्,'मनोगतम्-०२.१९'- इत्यस्य पञ्जिका-चतुष्टयम् ... बलदेवानन्द-सागरः-- +91-9810562277

मनोगतम् [०२.९] 'मनकीबात', प्रसारण-तिथि:-२७–डिसेम्बरः, २०२०

[भाषान्तरं डॉ.श्रुतिकान्तपाण्डेय-गवीशद्विवेदिभ्यांसम्भूय बलदेवानन्द-सागर-द्वारा]

मम प्रियाः देशवासिनः, नमस्कारः | अद्य डिसेम्बर-मासस्य सप्तविंशः दिवसः | दिवस-चतुष्टयानन्तरम् एव एकविंशोत्तर-द्विसहस्रतमं वर्षम् आरब्धा | अद्यतनं 'मनोगतम्', एकप्रकारेण विंशति-विंशति-वर्षस्य अन्तिमं प्रसारणम् | आगामि 'मनोगतम्', एकविंशोत्तर-द्विसहस्रतमे वर्षे आरब्धा| सखायः, मम पुरतः भवद्भिः लिखितानि बहूनि पत्राणि सन्ति | Mygov-इत्यत्र भवन्तः यान् परामर्शान् प्रेषयन्ति, तान्यपि मम समक्षं वर्तन्ते | बहवो जनाः दूरभाषेण स्वीयं वृत्तं ज्ञापितवन्तः | एतेषु अधिसंख्य-सन्देशेषु, विगत-वर्षस्य अनुभवाः, एकविंशोत्तर-द्विसहस्रतम-वर्ष-सम्बद्धाः सङ्कल्पाः च सन्ति | कोल्हापुरतः ञ्जलि-महोदया अलिखत् यत् नूतन-वर्षारम्भे वयम् अन्यान् वर्धापयामः, तेभ्यः ताभ्यश्च शुभकामनाः प्रयच्छामः, तर्हि क्रमेsस्मिन् वयं नवीनमेकं कार्यं करवाम | कथं न वयं, निज-देशं वर्धापयाम, देशाय अपि शुभकामनाः वदाम?ञ्जलि-महोदये, वस्तुतस्तु, उत्तमोsयं विचारः | अस्मदीयोsयं देशः, एकविंशोत्तर-द्विसहस्रतमे वर्षे, सफलतानां नूतन-शिखराणि संस्पृशेत्, जगति भारतस्य अभिज्ञानम् इतः परमपि दृढतरं स्याद्, इति कामनातः बृहत्तरं किं भवितुं शक्नोति?

सखायः!NamoApp-इत्यत्र मुम्बय्याः अभिषेक-महोदयः सन्देशमेकं प्रेषितवान् | सः अलिखत् यत् विंशति-विंशति-वर्षेण यत् यत् दर्शितं, यत् यच्च शिक्षितं, तन्न कदाचिद् विचारितमपि आसीत् | कोरोना-सम्बद्धानि सर्वाण्यपि वृत्तानि तेन लिखितानि सन्ति | एतेषु पत्रेषु, सन्देशेषु च, अन्यतमं वृत्तं यद्धि मां सर्व-सामान्यं,विशिष्टञ्च प्रतीयते, तदहम् अद्य भवद्भिः सम्विभाजयितुं वाञ्छामि| अधिकतमेषु पत्रेषु जनाः देशस्य सामर्थ्यम्, देशवासिनां च सामूहिक-क्तिं सुबहु प्रशंसितवन्तः | यदा जनता-सञ्चाररोध-सदृशः अभिनव-प्रयोगः, अशेष-विश्वस्य कृते प्रेरणास्पदं सञ्जातः, यदा, करताडनं स्थालीवादनं च कृत्वा देशः कोरोना-योद्धॄन् सम्मानितवान्, एकताञ्च प्रादर्शयत्, तदपि अनेके जनाः स्मृतवन्तः |

 सखायः! देशस्य सामान्यतमः मानवः अपि परिवर्तनमिदं अन्वभवत् | अहं, देशे आशायाः अद्भुतमेकं प्रवाहमपि अपश्यम् | समाह्वानानि तु अनेकानि आगतानि | सङ्कटानि चानेकानि उपास्थितानि | कोरोना-कारणात् जगति आपूर्ति-शृङ्खलापि  अनेकविधा बाधिता, परञ्च वयं प्रत्येकमपि सङ्कटात् नवं शिक्षणम् आदत्तवन्तः | देशे नवीनं सामर्थ्यमपि समुद्भूतम् | यदि ब्दैः थनीयमस्ति चेद्, अस्य सामर्थ्यस्य नामास्ति - 'आत्मनिर्भरता' |

 सखायः, दिल्लीवासिना अभिनव-बैनर्जीमहोदयेन स्वीयः यः अनुभवः लिखित्वा मह्यं प्रेषितः सः अपि अतितरां रोचकः अस्ति | अभिनव-महोदयेन स्वीय-ज्ञातिजनानां बालकेभ्यः उपहार-प्रदानार्थं कानिचन क्रीडनकानि क्रयणीयानि आसन्, अतः सः दिल्ल्याः ण्डेवालान्-विपणीम् अगच्छत् | भवत्सु अनेके अवगताः स्युः, दिल्ल्याम् एषा विपणी द्विचक्रिकाणां क्रीडनकानां च कृते विख्यातास्ति | पूर्वं तत्र महार्घ-क्रीडनकानां तात्पर्यमपि आसीत् – आयातितानि क्रीडनकानि, तथा च, अल्पार्घाणि क्रीडनकानि अपि बहिस्तः आगच्छन्ति स्म | परञ्च, अभिनव-महाशयः पत्रेsस्मिन् अलिखत् यत्, साम्प्रतम् अत्रत्याः अनेके आपणिकाः, उपभोक्तॄन् वारं वारम् एवम् उक्त्वा क्रीडनकानि विक्रीणन्ति यत् बाढम् इदं क्रीडनकं, यतो हि एतत् भारते विनिर्मितम् - 'Made in India' अस्ति | उपभोक्तारः अपि, भारते विनिर्मितानि क्रीडनकानि एव अभियाचन्ते | इदमेवास्ति, एतद्धि विचारधारायां कियत्-प्रकारकं महत् परिवर्तनं विद्यतेइदमस्ति साक्षात् जीवत्-साक्ष्यम् | देशवासिनां विचारेषु कियत् बृहत् परिवर्तनमायाति, तच्चापि एकस्य वर्षस्य आभ्यन्तरे एव | अस्य परिवर्तनस्य अङ्कनं सरलं नास्ति | अर्थशास्त्रिणोsपि, इदं निज-मानकाधारेण तोलयितुं नैव शक्नुवन्ति |

सखायः,  विशाखापत्तनतः वेंकटमुरलीप्रसाद-महोदयः मह्यं पत्रं प्रेषितवान् । तस्मिन् यत् लिखितं तद् अपि नूतनम् एव । वेङ्कटमहोदयः अलिखत् - अहं भवते विंशत्यै, एकविंशत्यै अर्थात् एकविंशत्यधिकद्विसहस्त्रतमाय ईशवीयवर्षाय स्वकीयं ABC इति प्रेषयामि । अहं न किमपि अवगतवान् यत् ABC इत्यनेन कः अभिप्रायः?तदा संलग्नकम् अपश्यम् । तेन ज्ञातं यत् ABC इत्यनेन अभिप्रायः अस्ति -आत्मनिर्भर-भारत-चार्ट इति । रोचकमिदम् अवर्तत । वेंङ्कटमहोदयेन प्रतिदिनं प्रयोगवस्तूनां सूचिः विनिर्मिता। एतस्याम् वैद्युदाणविक-शिक्षणसामग्री–सेल्फ-केयर् - इत्यादीनि अन्यानि च वस्तूनि सम्मिलितानि सन्ति । वेङ्कटवर्यः अकथयत् यत् ज्ञाताज्ञातावस्थायां वयं तेषां विदेशनिर्मितानाम् उत्पादानां प्रयोगं कुर्मः येषां विकल्पाः सहजतया भारते उपलब्धाः सन्ति । इदानीम् असौ शपथं स्वीकृतवान्  - 'केवलं तेषाम् उत्पादानां प्रयोगं करिष्यामि येषां निर्माणे भारतवासिनां श्रमः स्यात्।'

  सखायः, सहैव अनेन, एतादृशं लिखितं यन् मह्यम् अरोचत । असौ अलेखीत्- वयम् आत्मनिर्भरभारतं समर्थयामः परम् एतेन सह भारतीयेभ्यः उत्पादकेभ्यः अपि स्पष्टः सन्देशः भवेत् यत् तेषाम् उत्पादानां गुणवत्ताविषये अवधानं सर्वथा स्यात् । विषयः तु  उत्तमः। Zero effect, Zero defect-इति विचारेण कार्यं कर्तुम् उचितः कालः एषः । अहं देशस्य समवायान् उत्पादकनेतृवृन्दानि च प्रार्थये -  देशवासिभिः सुदृढः पदक्षेपः सुचिन्तितः, प्रतिगृहं  Vocal for Local इत्यस्य ध्वनिः गुञ्जितः अस्ति । एषः समयः सुनिश्चितीकरणस्य समयः यदस्माकं उत्पादाः विश्वस्तरीयाः भवन्तु । यत् विश्वप्रसिद्धं तद् भारते निर्मातुं यतामहे । एतदर्थम् उद्योगपतिभिः अग्रे आगन्तव्यम् । Start-ups इति नवप्रकल्पाः अग्रे आगच्छेयुः । पुनरेकवारम् अहं वेङ्कटमहोदयस्य उत्तमान् प्रयासान् वर्धापयामि ।

अयि भोः वयस्याः, एषा भावना अस्माभिः चिरं स्थापनीया रक्षणीया वर्धनीया च । पूर्वम् अपि मया कथितं, पुनरपि देशवासिनां समक्षम् आग्रहं करोमि  । भवन्तः अपि एकां सूचिं निर्मान्तु । प्रतिदिनं प्रयुक्त-वस्तूनां विवेचनं कुर्वन्तु?किं वस्तु, अनवधानेन विदेशनिर्मितं प्रयुज्यते? अस्माकं जीवने  विदेशनिर्मितवस्तूनां समावेशः कीयत् अस्ति? एकप्रकारेण तैः वस्तुभिः वयं दासीकृताः । एतेषां विकल्पाः अस्माभिः चिन्तनीयाः । एतत् अपि सुनिश्चितीकर्तव्यं यत् भारतनिर्मितं वस्तु एव प्रयुञ्ज्महे । भवन्तः प्रतिवर्षं प्रतिज्ञां स्वीकुर्वन्ति, ऐषमः एका प्रतिज्ञा राष्ट्राय अपि अवश्यं भवतु ।

मम प्रियाः देशवासिनः, अस्माकं  देशेन आततायिभ्यः अत्याचारिभ्यश्च देशस्य पुरातनसंस्कृतेः संरक्षणाय नैकानि बलिदानानि प्रदत्तानि सन्ति, तानि स्मर्तुम् अपि अद्यतनं दिनम् । अद्यतन एव दिवसे गुरुगोविन्दसिहंवर्यस्य पुत्रौ जोरावरसिहः फतेहसिंहः च जीविता- वस्थायां  भित्तौ पिहितीकृतौ आस्ताम् । अत्याचारिणः वाञ्छन्ति स्मः यत् साहिबज़ादे इति युवराजाः स्वकीयाम् आस्थां त्यजेयुः, महद्-गुरुपरम्परां च परित्यजेयुः । परम् अस्माकं वीरयुवराजैः सत्यपि लघु- वयसि अद्भुतः साहसः प्रदर्शितः, इच्छाशक्तिः प्रदर्शिता । आततायिनः तौ यदा भित्तौ पूरयन्तः आसन् – यथा यथा मृत्युः निकटम् आसीत् तथापि एतौ न भयभीतौ । अद्यतने एव दिवसे गुरुगोविन्दसिहंवर्यस्य  मात्रा 'माता-गुजरी'- इत्यनयापि प्राणाहुतिः प्रदत्ता आसीत् । प्रायशः एकसप्ताहपूर्वं गुरुगोविन्द-सिहंवर्यस्य अपि पुण्यतिथिः आसीत् । अहम् अत्र देहल्यां गुरुद्वारा-रकाबगञ्ज-इत्यत्र गत्वा गुरुतेगबहादुरवर्यं प्रति श्रद्धाकुसुमाञ्जलिप्रदानस्य अवसरं प्राप्तवान् । अस्मिन् एव मासे श्रीगुरुगोविन्दसिंह-प्रेरिताः अनेके जनाः भूमौ शयनं कुर्वन्ति । जनाः गुरुगोविन्दसिंहस्य परिवारेण प्रदत्तं बलिदानं भावपूर्णावस्थायां स्मरन्ति । एषा आहुतिः सम्पूर्णमानवतायै देशाय च शिक्षाम् अदात् । अनया हि अस्माकं सभ्यता सुरक्षिता । वयं सर्वेऽपि हुत्याः अस्याः ऋणिनः स्मः । पुनरेकवारम् अहं श्रीतेगबहादुरं, मातरं गुजरीं,  श्रीगुरुगोविन्दसिंहं, अथ च चतुर्भ्यः युवराजेभ्यः नमस्करोमि, तद्-बलिदानं सादरं प्रणमामि । एतादृशैः बलिदानैः एव भारतस्य स्वरूपं संरक्षितम् अस्ति ।

मम प्रियाः देशवासिनः, इदानीम् एतादृशीम् एकां वार्तां श्रावयामि  यां श्रुत्वा आनन्दः अपि आयास्यति, भवन्तः गर्वान्विताः च भविष्यन्ति ।  भारतेleopards इत्युक्ते चित्रकाणां संख्यायां चतुर्दशाधिकद्वि-सहस्रतम- वर्षतः अष्टादशाधिक-द्विसहस्रतमवर्षं यावत् प्रतिशतं षष्टिमिता  वृद्धिः सञ्जातास्ति। चतुर्दशाधिकद्वि-सहस्रतमे वर्षे चित्रकाणां संख्या प्रायशः शतोनाष्ट-सहस्रात्मिका आसीत् तत्रैव नवदशाधिक-द्विसहस्रतमे वर्षे एषा द्विपञ्चाशदधिकाष्ट-तोत्तर-द्वादशसहस्रात्मिका सम्वृत्ता। एते त एव चित्रकाः सन्ति येषां विषये Jim Corbett-वृन्दपक्षतः उक्तमासीत् यैः चित्रकस्यप्रकृतौ स्वच्छन्दविचरणं न दृष्टं, ते चित्रकसौन्दर्यस्य कल्पनाम् एव न कर्तुं शक्नुवन्ति । तस्य वर्णानां सौन्दर्यं, चलनसौन्दर्यं नैव ज्ञातुं समर्थाःभवन्ति । देशस्य अधिकेषु राज्येषु विशेषरूपेण मध्यभारते चित्रकसंख्या एधितास्ति । चित्रकसंख्यादृशा राज्येषु क्रमशः मध्यप्रदेशः कर्णाटकं महाराष्ट्रं च मूर्ध्नि सन्ति । एषा उत्कृष्टा उपलब्धिः। सम्पूर्णे विश्वे चित्रकाः सङ्कटान् सम्मुखीकुर्वन्ति । विश्वे तेषाम् उत्पत्तिस्थानानि क्षतिग्रस्तानि जातानि । एतादृशे समये चित्रकाणां संख्यावृद्धिं कृत्वा भारतेन समग्राय विश्वाय मार्गः प्रदर्शितः अस्ति । भवन्तः जानन्तः स्युः यत् विगतेषु कतिपयेषु वर्षेषु भारते सिंहसंख्या वर्धितास्ति, व्याघ्रसंख्या अपि वृद्धास्ति, सहैव वनक्षेत्रमपि वृद्धम् जातम् । एतस्य कारणं, इदं न केवलं शासनम् अपि तु बहवः जनाः, सामाजिकसमूहाः, नैकाः संस्थाः चापि वृक्ष-वन-वन्यजीव-संरक्षणार्थं प्रयत्नरताः वर्तन्ते । ते सर्वेऽपि धन्यवादार्हाः सन्ति ।

 सखायः,  अहं तमिलनाडोः कोयम्बटूरे एकस्य हृदयस्पर्शिनः प्रयासस्य विषये अपठम्  । भवन्तः अपि सञ्चारमाध्यमेषु इदं दृष्टवन्तः स्युः । लोकाय स्वचालितासन्दिका अस्माभिः दृष्टा एव, परं कोयम्बटूरस्य गायत्रीति एकया पुत्र्या स्वपित्रा सह पीडिताय श्वानाय चलासन्दिका विनिर्मिता ।एषां संवेदशनशीलता प्रेरणादायिनी  वर्तते । अथ इदं तदैव भवितुम् अर्हति यदा व्यक्तिः प्रतिजीवं दयाकारुण्यभाव- भरिता स्यात् । दिल्ल्यांराष्ट्रिय-राजधानीवर्तिक्षेत्रेषु देशस्य अन्यनगरेषु च  शैत्याधिक्यकाले मार्गस्थानां पशूनाम् अवधानार्थं बहवः प्रयत्नरताः सन्ति । ते पशूनां भोजनादारभ्य ऊष्णवस्त्र-शय्यादिवस्तूनां व्यवस्थां कल्पयन्ति । केचन तादृशाः अपि सन्ति ये प्रतिदिनं सहस्रेभ्यः पशुभ्यः भोजनव्यव- स्थांकुर्वन्ति । एतादृशाः प्रयासाः निश्चयेन श्लाघनीयाः । एवंप्रकारकाः उत्तमाः प्रयासाः उत्तरप्रदेशस्य कौशाम्बिजनपदे अपि जायन्ते । तत्र कारावासे बन्दिनः पुरातनेभ्यः कम्बलेभ्यः आवरकाणि निर्मान्ति । एतानि कम्बलानि कौशाम्बि-जनपदसहितम् अन्य-जनपदकारावासेभ्यः गृह्यन्ते ततः च सीवनं कृत्वा गोशालाभ्यः प्रेष्यन्ते । कौशाम्बिजनपदस्य कारावास-वासिनः बन्दिनः प्रतिसप्ताहं नैकानि आवरकाणि सज्जीकुर्वन्ति । आयान्तु, अपरजनसेवार्थं कृतयत्नान् प्रोत्साहयामः । एतत् वास्तविकं सत्कार्यं यत् समाजसंवेदनाः शक्ताः करोति ।

मम प्रियाः देशवासिनः, इदानीं यत् पत्रं मम पुरतः अस्ति तस्मिन् बृहच्-चित्रद्वयम् अस्ति । एते चित्रे एकस्यमन्दिरस्य स्तः । प्राक्तनं पश्चात्कालिकं च चित्रे एते वर्तेते । एतयोः चित्रयोः सह यत्पत्रम् अस्ति तस्मिन् एकस्य युवदलस्य विषये कथितम् अस्ति - ये आत्मानं 'युवा-brigade" इति युववृन्दं घोषयन्ति । वस्तुतः अनेन युववृन्देन कर्णाटके श्रीरङ्गपट्टणम्-पार्श्वे स्थितस्य श्रीवीरभद्रस्वामिनः प्राचीनशिव- मन्दिरस्य कायाकल्पः कृतः । मन्दिरे सर्वत्र तृणसमूहाः आसन् तत्र कोsपि गन्ता एवं वक्तुम् अपि न शक्नोति यत् अत्र एकं मन्दिरम् अस्ति । एकस्मिन्दिवसे कैश्चित् पर्यटकैः अनवधानेन एतस्य उपेक्षित-मन्दिरस्य चलचित्रं सामाजिक-माध्यमेषु प्रसारितम् । युववृन्देन यदा एतत् चलचित्रं दृष्टं तदा ते आत्मानम् अवरोद्धुं न शक्तवन्तः फलतः मन्दिरस्य जीर्णोद्धाराय निर्णयं कृतवन्तः । मन्दिरपरिसरे उत्पन्नानि अतितृणानि कण्टकलताः पादपान् च उत्पाटितवन्तः । यत्र पुनर्निर्मितेः आवश्यकता आसीत् तत्र पुनर्निमाणं कृतम् । तेषां सत्कर्म दृष्टवा स्थानीयैः अपि सहयोगः कृतः । केनचित् सीमेन्ट-इति वज्रचूर्णं प्रदत्तम्, तु केनचित् पेण्ट्-इति लेपनवर्णः। एतादृशीभिः विभिन्नाभिः सामग्रीभिः सह, जनैः विविधसहयोगः आचरितः । एते युवानः सर्वे विभिन्नकार्यक्षेत्रैः सम्पृक्ताःसन्ति । एवं सत्यां व्यस्ततायां सप्ताहान्तिमेषु दिवसेषु समयं निष्काश्य मन्दिरस्य कृते तैः कार्यं कृतम् । मन्दिरस्य द्वारेण सह विद्युद्-योजनमपि युवभिः कारितम् । एवं प्रकारेण एतैः मन्दिरस्य प्राक्तनः वैभवः सुस्थापितः।उन्माद: दृढेच्छाशक्तिश्च सर्वविधलक्ष्य- प्राप्तये महत्वपूर्णे स्तः । यदा अहं भारतस्य यून: पश्यामि तदा आनन्दित: आश्वस्त: च अनुभवामि। आनन्दित: आश्वस्त: च एतदर्थं यतोहि मम देशस्य युवजनेषु can-do इति करणस्य विश्वास:, अथ will- do इति करणस्य इच्छा विद्येते। तेभ्य: समाह्वानं नास्ति बृहत्। युवभ्य: किमपि अतिदूरं नास्ति। अहं तमिलनाडो: एकस्य शिक्षकस्य विषये अपठम्। तस्या: नाम हेमलता-एन्.के.-इति। सा विडुपुरम्-इत्यस्य एकस्मिन् विद्यालये विश्वस्य सर्वप्राचीनां तमिळभाषां पाठयति। कोविड्-नवदश-महामारी अपि तस्या: मार्गम् अवरोद्धुं न शक्तवती‌। आम्! तस्या: पुरत: समाह्वानम् आसीत् परं तया नवमार्ग: एक: प्रकल्पित:। तया पाठ्यक्रमस्य सर्वेऽपि त्रिपञ्चाशत्पाठा: ध्वन्यङ्किता: तदाधारेण animated इति अनुप्राणितानि चलच्चित्राणि अपि निर्मितानि। अनन्तरं च pendriveइति स्मृतिशलाकया सर्वविद्यार्थिभ्य: चलच्चित्राणि तानि आवण्टितानि। अनेन तस्या: छात्रा: सुगमतया पाठान् अवगतवन्त:। अनेन सहैव विद्यार्थिभि: सह दूरवाण्या अपि मध्ये मध्ये सम्वादं कृतवती, एतेन किल छात्राणाम् अध्ययनं सरलं सुगमं च जातम्। देशे कोरोना- सङ्क्रमणकाले अध्यापनस्य ये नवप्रकल्पा: निर्मिता: सृष्टा: वा ते अध्ययनार्थम् अस्मिन्काले अमूल्या: सन्ति। अहम् आग्रहं करोमि सर्वशिक्षकान् प्रति यद् अध्ययनसामग्रीम् इमां शिक्षामन्त्रालयस्य दीक्षापटले स्थापयन्तु इति। अनेन देशस्य सुदूरवर्ति-क्षेत्रवासिन: छात्रा: लाभान्विता: भविष्यन्ति।

 सखायः! इदानीं वार्तां कुर्म: झारखण्डस्य कोरवाजनजाते: हीरान-महोदयस्य। हीरामनमहोदय: गढवाजनपदस्य सिंजो-ग्रामे निवसति। एतत् ज्ञात्वा भवन्त: आश्चर्यम् अनुभविष्यन्ति यत् कोरवाजनजाते: संख्या मात्रं षट्सहस्रात्मिका वर्तते। एते नगरेभ्य: दूरं पर्वतेषु वनेषु च निवसन्ति। स्वसमुदायस्य संज्ञार्थं प्रतिष्ठापनायै च हीरामनवर्येण सङ्कल्पितम् अस्ति‌। तेन द्वादशवर्षाणां प्रयासेन परिश्रमेण प्राय: विलुप्ताया: कोरवाभाषाया: शब्दकोष:निर्मित:। तेन अस्मिन् कोषे गृहसम्बद्धवस्तूनि आरभ्य दैनिकप्रयोगवस्तूनां कोरवाभाषायाम् अर्था: लिखिता:। कोरवासमुदायार्थं हीरामन-महोदयेन यत् कृतं तद्देशाय उदाहरणीभूतम्।

मम प्रियाः देशवासिनः, एवं कथ्यते यदकबरस्य सभायां एकः प्रमुखसदस्यः अबुलफज़लः आसीत्। असावेकदा काश्मीरयात्राऽनन्तरं अवादीद्यत् काश्मीरे एतादृक्दृश्यं वर्तते यद् अवलोक्य आशुकोपिनः क्रुद्धाश्चापि जनाः उल्लसिताः भवितुमर्हन्ति। असौ वस्तुतः काश्मीरस्य केशरक्षेत्राणां उल्लेखं करोति स्म। केशरस्तु शताब्दैः काश्मीरेण साकं एकीभूतः सञ्जातः। काश्मीरीयः केशरः मुख्यतया पुलवामा-बड़गाम-किश्तवाड़-सदृशेषु क्षेत्रेषु उत्पाद्यते। अस्मिन्नेव वर्षे मे-मासे काश्मीरीय-केशराय 'जी.आई.टैग्.'-इति भौगोलिकाभिज्ञान-सूचकं प्रदत्तमस्ति। एतन्माध्यमेन वयं काश्मीरीय-केशरं विश्वविख्यातं कर्तुमिच्छामः। काश्मीरीयःकेशरः वैश्विकस्तरे एतादृक्-म्भारत्वेन ख्यातः यस्यानेके औषधीयगुणाः व्याख्यायन्ते। एषः अतीव सुगन्धितः, सुवर्णकः, दीर्घ-स्थूलतन्तुयुतश्च भवति येनास्य चिकित्सकीयोपयोगाः सम्वर्धिताः भवन्ति। अयञ्च जम्मूकाश्मीरस्य समृद्धस्य सांस्कृतिकदायस्य प्रतिनिधित्वं करोति। गुणवत्तामानकेष्वपि काश्मीरीयः केशरः अद्वितीयः अन्यदेशीया- भ्यः केशरप्रजातिभ्यश्च विलक्षणः भवति। जी.आई.टैग्-इत्यनेन काश्मीरीयकेशरः विशिष्टाभिज्ञानेन समीभूतः। जी.आई.टैग्-इतिप्रमाणीकरणानन्तरं काश्मीरीयकेशरः दुबईस्थिते एकस्मिन्महदापणे सूचिबद्धः येनास्य निर्यातः समेधिष्यते । अनेन आत्मनिर्भर-भारतस्या- स्माकं प्रयासाः सुतरां दृढतराः भवितुमर्हन्ति। केशरकृषकाः अप्येतन्नि- र्णयेन विशेषतः लाभान्विताः भविष्यन्ति। अत्र पुलवामाक्षेत्रे त्रालवासिनः अब्दुल-मजीद-वान्याः दृष्टान्तमस्ति। असौ हि स्वीयं जी.आई.टैग्.युतं केशरं राष्ट्रिय-केशराभियानान्तर्गतं पम्पोरस्य व्यापारकेन्द्रे ई-विपणन-माध्यमेन विक्रीणाति। एवमेव अन्येऽपि जनाः काश्मीरे केशरव्यापारं कुर्वन्ति। आगामिनि क्रमे, भवन्तोऽपि यदा केशरक्रयस्य विचारं कुर्वन्तु तदा काश्मीरीय-केशरस्य विषये अवश्यं चिन्तयन्तु। काश्मीरीयाणां उत्साहमिव तत्रत्यस्य केशरस्यस्वादोऽपि विलक्षणः भवति।

मम प्रियाः देशवासिनः, दिनद्वयपूर्वमेव गीताजयन्ती आसीत्। श्रीमद्भगवद्गीता ह्यस्माकं जीवनस्य प्रत्येकं सन्दर्भे प्रेरणास्पदीभूतास्ति । अपि भवद्भिः कदाचित् चिन्तितं यद्गीता कथं अद्भुद्ग्रन्थत्वेनाभिज्ञायते?प्रथमतस्तु एषा भगवतो कृष्णस्य वाणी अस्ति। परं गीतायाःवैशिष्ट्य- मस्याःजिज्ञासामूलत्वम् अप्यस्ति। एषा हि प्रश्नेन आरभते। यदार्जुनः भगवन्तं कृष्णं प्रश्नमपृच्छत् तदैव संसारः गीताज्ञानमवाप्तवान्। गीता- मिवास्माकं संस्कृतौ यावपि ज्ञानमस्ति तत्सर्वं जिज्ञासया एव आरभते। वेदान्तस्य तु आरम्भः एव ''अथातो ब्रह्मजिज्ञासा'' इत्यनेन सूत्रेण भवति। तदैवास्माकं संस्कृतौ ब्रह्मणोsपि अन्वेषणस्य सन्दर्भः विद्यते। एषा हि जिज्ञासायाः शक्तिरस्ति। जिज्ञासा भवन्तं सततं नूतनस्य कृते उत्प्रेरयति। बाल्ये वयं अधिकं जानीमः यतोहि तदवस्थायां जिज्ञासा प्रकृष्टा भवति। एतेन स्पष्टं यद्यावज्जिज्ञासा तावदेव जीवनं भवति। यावज्जिज्ञासा तावन्नूतनं ज्ञानार्जनं सम्भवति। अस्मिन्सन्दर्भे अवस्था, परिस्थितिः वा अनर्थकत्वेन परिभाव्यते । जिज्ञासायाः एतादृश्याः एव ऊर्जायाः उदाहरणं मया तमिलनाडोः वृद्धस्य श्रीमतः टी.श्रीनिवासाचार्य-स्वामिनः सन्दर्भे ज्ञातम्। श्रीटी.निवासाचार्यः द्वि-नवतिवर्षीयः अस्ति। अस्यामवस्थायामप्यसौ संगणकमाध्यमेन पुस्तकं लिखति; तदपि स्वयं टंकणं कृत्वा। भवन्तः चिन्त्यमानाः स्युर्यत् श्रीनिवासाचार्यस्य समये तु संगणकं प्रचलितम् एव नासीत् तदा तेन संगणकं कदाभिज्ञातमिति? एतत्सत्यमस्ति यत् यदाऽसौ महाविद्यालये आसीत्तदा संगणकं नैवावर्तत। परं तस्य मनसि जिज्ञासा आत्मविश्वासश्च युवावस्थासदृशः एवावर्तत। वस्तुतः श्रीनिवासाचार्य-स्वामी संस्कृत-तमिलभाषयोः विद्वानस्ति। तेन अधुनावधिः षोडशमिताः आध्यात्मिकग्रन्थाः विरचिताः। परं संगणकस्यो- द्भवानन्तरं तेन चिन्तितं यदधुना पुस्तकलेखनस्य प्रकाशनस्य य विधयः परिवर्तमानाः सन्ति। तदा तेन षडशीति-वर्षाणामवस्थायां संगणकमधीतम् । आत्मनः कृते आवश्यकानां तन्त्रसाधनानां ज्ञानं अवाप्तम् । साम्प्रतं चासौ स्वीयं पुस्तकं स्वयमेव लिखति।

 सखायः, श्रीमतः टी.श्रीनिवासाचार्य-स्वामिनःजीवनम् एतत्तथ्यस्य प्रत्यक्षप्रमाणमस्ति यज्जीवनं तावदेव ऊर्जासम्पन्नं भवति, यावज्जिज्ञासा सप्राणा भवति। ज्ञानस्य वाञ्छा सजीवा वर्तते। अतोsस्मा- भिःकदापि नैव चिन्तनीयं यद्वयं अवशिष्टाः, असफलाः वा जाताः। अस्माभिः नैव चिन्तनीयं यद्वयं नूतनमधिगन्तुं असमर्थाः अथवा अग्रेगन्तुं न पारयामः इति।

मम प्रियाः देशवासिनः, द्यः एवास्माभिः जिज्ञासया नूतनाधिगमनस्य कार्यसम्पादनस्य च विषये सम्भाषितम् । नूतनवर्षे नूतनसंकल्पानां चापि विषये चर्चितम् । परं, केचन जनाः सततं नवचिन्तनं, नवकार्यं, नूतनसंकल्पसिद्धिं चापि कुर्वन्ति। भवद्भिरपि स्वीयजीवने अनुभूतं भवेद्यत् यदा वयं समाजस्यकृते किमपि कुर्मः तर्हि समाजः एव तस्य संवर्धनोर्जां सन्तनोति। सामान्यप्रेरणाभिरपि महनीयकार्याणि सम्पादितानि भवन्ति। एतादृशः एकः युवा श्रीमान् प्रदीपसांगवानः अस्ति । गुरुग्रामस्य प्रदीपसांगवानः षोडशोत्तर-द्विसहस्र- तम-वर्षतः 'हीलिंग-हिमालयाज़' इत्यभियानं संचालयति। असौ स्वीय-वृन्देन स्वयंसेवकैः च साकं हिमालयस्य भिन्नक्षेत्रेषु गच्छति, यत्कृतकापशिष्टं च पर्यटकैः क्षिप्तं भवति, तस्य शोधनं करोति। श्रीप्रदीपः आसाम्प्रतं हिमालयस्य भिन्न-पर्यटकेन्द्रेभ्यः नैक-टनमितं कृतकापशिष्टम्अपाकृतवान् । एवमेव कर्णाटकस्य युव-दम्पती अनुदीप-मिनूषा-इत्येतौ स्तः । ताभ्यां विगते नवम्बरमासे एव पाणिग्रहणं कृतमस्ति। विवाहानन्तरं बहवो युवानः पर्यटनाय गच्छन्ति, परमेताभ्यां दम्पतीभ्यां किमपि विलक्षणमाचरितम्। एतौ सर्वदा अनुभवतः यज्जनाः स्वीय-गृहाद् बहिः भ्रमणाय तु गच्छन्ति परं यत्रापि विरमन्ते तत्र प्रभूतावकरं क्षिप्त्वा प्रत्यागच्छन्ति। कर्णाटकस्य सोमेश्वर-समुद्रतटेऽपि एषैव स्थितिरासीत्। अनुदीप-मिनूषाभ्यां चिन्तितं यदेतौ सोमेश्वर-समुद्रतटे जनैः यदपशिष्टं क्षिप्तं तस्य शोधनं करिष्यतः। नवदम्पतीभ्यां स्वीय-विवाहानन्तरं एषः एव संकल्पः सर्वप्रथमं सन्धारितः। द्वाभ्याम् एव स्वीयप्रयासैः समुद्रतटस्य प्रभूतावकरःअपाकृतः। एतत्संकल्पविषये अनुदीपः स्वीय-सामाजिकमाध्यमसंकेतेनापि सूचितवान्। तस्य गौरवा- स्पदं विचारेण प्रभाविताः अनेकाः युवजनाः ताभ्यां साकमागताः। भवन्तः एतत्ज्ञात्वा आश्यर्चान्विताः भविष्यन्ति यदेतैः सम्भूय सोमेश्वर-समुद्र- तटात् अष्टशत-किलोमितः अपशिष्टः अपाकृतः।

     सखायः, सत्सु एतेषु प्रयासेषु, अस्माभिः इदमपि विचारणीयं यत् अयम् अवकरः एषु समुद्रतटेषु, पर्वतेषु च केन प्रकारेण सञ्चितो भवति? अन्ततस्तु, अस्मासु एव कश्चन अवकरमिमं तत्र त्यक्त्वा प्रत्यागच्छति | अस्माभिः प्रदीप-अनुदीप-मिनूषा-सदृशान् इव स्वच्छता- भियानं प्रवर्तनीयम् | परञ्च, एतस्मादपि प्राक् अस्माभिरिदमपि ङ्कल्प- नीयं यत् वयम् अवकरं मनागपि नैव वितानीकरिष्यामः | परमार्थेन तु, स्वच्छ-भारताभियानस्यापि प्रथमोsयं ङ्कल्पः | एवम्, एकमपरं वृत्तम् अहं भवतः स्मारयितुं वाञ्छामि | कोरोना-कारणात् वर्षेsस्मिन् एतद्विष- यिणीचर्चा तावती नैव सञ्जाता | अस्माभिः देशोsयम् एकल-प्रयुक्त-कृतकात् मुक्तः नूनं करणीयः | अयमपि एकविंशोत्तर-द्विसहस्रतम-वर्षस्य सङ्कल्पेषु अन्यतमः अस्ति | अन्ते चाहं, नूतन-र्षार्थं भूयसीः शुभकामनाः वदामि | भवन्तः स्वयं स्वस्थाः भवन्तु, स्वीय-कुटुम्बमपि स्वस्थं सन्धारयन्तु | आगामिनि वर्षे जान्युआरिमासे अभिनवान् विषयान् अवलम्ब्य 'मनोगतम्' भविता |

भूयो भूयः धन्यवादाः |

*****

[भाषान्तरं डॉ.श्रुतिकान्तपाण्डेय-गवीशद्विवेदिभ्यांसम्भूय बलदेवानन्द-सागर-द्वारा]

                          अणुप्रैषः –baldevanand.sagar@gmail.com

 

 

 

 

 

No comments:

Post a Comment