Wednesday, October 28, 2020

Sri Vishnustavanam - Sanskrit poem


श्रीविष्णुस्तवनम्
**************
(१)
श्रीविष्णुः कमलापतिर्भवपतिर्नारायणः श्रीपति
र्नामैकप्रजपाद् विभेति शमनो दुःखं स्वयं नश्यति।
तस्मान्मानस रे ! धनादिविषयं त्यक्त्वा स्मर श्रीहरिं
तीर्त्वा त्वं भवसागरादतिभयात् स्वर्गालयं यास्यसि।।
(२)
यन्नामातिबलात् सुराः सुखभुजो राजन्ति नाकालये
यन्नामस्मरणात् स नारदमुनिः सर्वत्र सर्वप्रियः।
यन्नामग्रहणाद् हिरण्यकशिपोः पुत्रोमरत्वं गत
स्तन्नामस्मरणं कुरुष्व कुमनः ! स्वर्गालयं यास्यसि।।
(३)
श्रीविष्णुश्च युगे युगे निजबलाद् नानावतारेण वै
हत्वा दैत्यबलं सुभक्तिमतये मोक्षं ददौ सादरम्।
लोकार्त्तेः परिनाशनाय हि भवे यस्यैव नाम ध्रुवं
तन्नामानि मन! र्भजस्व सततं स्वर्गालयं यास्यसि।।
(४)
भक्ताः सत्ययुगे यदीयचरणाम्भोजं मुहुर्प्राप्तये
केचिद् देववपुस्तपोधनतनुं दैत्यस्वरूपं दधुः।
तद्वाञ्छापरिपूरणाय स तदा तेभ्यो विमुक्तिं ददे
तस्माद् व्यग्रमन ! र्हरिं भज सदा स्वर्गालयं यास्यसि।।
(५)
त्रेतायां भगवान् दधार स यदा रामस्वरूपं क्षितौ
भक्ता वानररूपधारणरता आस्तंस्तदा साग्रहम्।
तद्रूपेण विलोकितं भगवतो रूपं वने तैरहो !
तस्मात्तं स्मर मानस ! प्रतिदिनं स्वर्गालयं यास्यसि।।
(६)
विष्णुः कृष्णतनुं दधार जगतो हर्तुं व्यथां द्वापरे
भक्ता भक्तिरतास्तदीयचरिते गोपीस्वरूपं दधुः।
तत्सङ्गाद् यमुनाविहारसमये प्रीतिं तथा लेभिरे
तस्मान्मानस ! विष्णुदुग् भव सदा स्वर्गालयं यास्यसि।।
(७)
विष्णुः कल्किवपुर्दधार हि कलौ साधुस्वरूपेण ते
भक्ता भक्तियुतास्तदीयभजने मग्ना अहो ! सन्ततम्।
तत्सेवाजपकीर्त्तनादिषु रता मोक्षं लभन्तेधुना
तस्मान्मूढमन ! स्तमेव भज रे स्वर्गालयं यास्यसि।।
(८)
श्रीविष्णुर्जगदीश्वरो नरहरिः पीताम्बरः केशवः
कृष्णो दैत्यरिपुर्हरिर्मधुरिपुर्नारायणो वामनः।
गोविन्दः पुरुषोत्तमो भवपतिर्विश्वम्भरो माधव
एतां नामततिं सदा भज मनः ! स्वर्गालयं यास्यसि।।
(रचयिता-व्रजकिशोरत्रिपाठी)

No comments:

Post a Comment