Tuesday, October 27, 2020

Mann ki baat in sanskrit 25.10.2020

नमोनमः!
         कृपया स्वीकुर्वन्तु सादरम्,'मनोगतम्-०२.१७'- इत्यस्य पञ्जिका-चतुष्टयम् ... बलदेवानन्द-सागरः-- +91-9810562277

'मनोगतम् [०२.१७] 'मनकीबात'प्रसारण-तिथि: २५ओक्टो'२०२०

[भाषान्तरंडॉ.श्रुतिकान्तपाण्डेय-गवीशद्विवेदिभ्यां सम्भूयबलदेवानन्द-सागर-द्वारा]

       मम प्रियाः देशवासिनः, नमस्कारः! अद्य विजयादशमीअर्थात् दशहरापर्ववर्तते| अस्मिन् पावनावसरे भवद्भ्यः सर्वेभ्यः भूयस्यः शुभकामनाः| दशहरापर्वमिदम्,असत्योरिसत्यस्य विजयस्य पर्व| परञ्च, युगपदेव,  इदं ङ्कटोपरि धैर्यस्य विजयस्यापि र्वास्ति | साम्प्रतं, भवन्तः सर्वे सुबहुसंयमपुरस्सरं जीवन्ति, मर्यादायां स्थित्वा, र्वोत्सवान् आयोजयन्ति, अत एव,  यत् युद्धं वयं युध्यामहे, तस्मिन् विजयोsपि सुनिश्चितः| पूर्वं, दुर्गा-मण्डपेषु,मातुः पराम्बायाः दर्शनार्थं तावान् जन-सम्मर्दः भवति स्म- यत् प्रकामं मेलकमिव परिदृश्यं प्रतीयते स्म, परञ्च ऐषमः क्रमे, एतादृशं नैवाजायत | पूर्वं, दशहरा-पर्वणि अपि बृहन्ति मेलकानि आयोज्यन्ते स्म,किञ्च ऐषमः क्रमे, तेषां स्वरूमपि पृथगेवास्ति | रामलीलायाः उत्सवोsपि, एतस्यअतितराम् आकर्षण -मासीत्, परञ्च अत्रापि कानिचन नियन्त्राणि सन्त्येव | पूर्वं, नवरात्रावसरे, गुजरातस्य गरबा-गुञ्जनं सर्वत्रापि बाहुल्येन श्रूयते स्म, साम्प्रतं, बृहन्ति सर्वाणि आयोजनानि पिहितानि सन्ति | इतः परम् ग्रेsपि,अपराणि र्वाणि आगम्यमानानि सन्ति |द्-शरदपूर्णिमा-वाल्मीकिजयन्ती-धनतेरस-दीपावलि-भ्रातृद्वितीया-सूर्यषष्ठी-गुरुनानकदेव-जयन्ती-प्रभृतयः | कोरोना-संक्रमणस्य ङ्कटकालेsस्मिन्, वयंसंयमेन एव व्यवहरेम, मर्यादानुसारञ्च वर्तेमहि |

     सखायः,  यदा वयं पर्वणां वृत्तानि कथयामः, तद्विषयिणीं सज्जाञ्च कुर्मः, तदा सर्वप्रथमं मनसि इदमेव चिन्त्यते यत् विपणीं कदा गन्तव्यमिति? किं किं च क्रेतव्यम्?  विशेषेण, बालेषु तु एतदर्थं विशिष्टोत्साहः भवति पर्वणि साम्प्रतं, किं नवीनं लप्स्यते? उत्सवानाम् अयम् उत्साहः, विपण्याः च दीप्तिः, अन्योन्यं सम्पृक्तं वर्तते | परञ्च अस्मिन् क्रमे यदा भवन्तः क्रयणार्थं गच्छेयुः तदा 'Vocal for Local'- इत्यस्य स्वीयं सङ्कल्पं अवश्यं स्मरेयुः |  विपणीतः सामग्र्याः क्रयणावसरे, अस्माभिः, स्थानीयोत्पादेभ्यः प्राथमिकता नूनं प्रदेया |

     सखायः, उत्सवानां पर्वणाञ्च अस्य हर्षोल्लासस्य मध्ये Lockdown-इति सञ्चाररोधस्य कालोsपि स्मरणीयः| सञ्चाररोधावसरे, वयं समाजस्य तान् सखीन् घनिष्ठतया अवागच्छन्, येषां विना, अस्माकं जीवनम्, अतितरां कठिनं सम्भवेत् स्वच्छताकर्मिणः, गृहे कार्यरताः भ्रातरः भगिन्यश्च, स्थानिकाः शाक-विक्रेतारः, दुग्ध-वितरकाः, सुरक्षा-कर्मिणः – चैतेषां सर्वेषाम् अस्माकं जीवने का नाम भूमिका, वयमिदं साम्प्रतं सम्यक्तया अनुभूतवन्तः | दुष्करेsस्मिन् काले, एते भवद्भिः साकमेव आसन्, अस्माभिः सर्वैः सार्धम् आसन् | सम्प्रति, अस्मदीयेषु पर्वसु, स्वीयासु प्रसन्नतासु चापि, एतैः सहैव अस्माभिः वर्तितव्यमस्ति| मदीयोsयम् आग्रहः- यथासम्भवम् एतान् स्वीय-प्रमोदावसरेषु अवश्यं संयोजयेयुः | कुटुम्ब-सदस्यान् इव व्यवहरेयुः, तदनन्तरम् अवलोकयन्तु, भवतां प्रसन्नता कियती विवर्धते?

    सखायः, अस्माभिः स्वीयाः पराक्रमिणःसैनिकाः अपि स्मरणीयाः, ये हि एतेषु पर्वसु अपि सीमासु सन्तिष्ठन्ते| भारत-मातुः सेवां सुरक्षाञ्च कुर्वन्ति| तान् स्मृत्वैव अस्माभिः स्वीय-पर्वाणि आयोजनीयानि | भारतमातुः एतेषां वीर-पुत्रीपुत्राणां सम्मानार्थमपि अस्माभिः गृहे दीपः प्रज्वालनीयः | अहं, स्वीयान् वीर-सैनिकान् अपि वक्तुमिच्छामि यत् भवन्तः भवन्तु नाम सीमोपरि, परञ्च अशेष-देशः भवद्भिः साकमेवास्ति, भवतां कृते च शुभं कामयते | अहं, तेषां कुटुम्बानां त्यागायापि प्रणमामि, येषां सुताः सुताश्च अद्य सीम्नि सन्तिष्ठन्ते | प्रत्येकमपि जनः यः देशेन सम्बद्धस्य कस्यचिदपि दायित्वस्य कारणात् निजगृहे नैव वर्तते, स्वीय-कुटुम्बात् दूरेsस्ति अहं, हृयेन तस्य आभारंप्रकटयामि |        

       मम प्रियाः देशवासिनः, अद्य वयं यदा स्थानिकोत्पादानां कृते सबलं व्याहरामः, तदा विश्वमपि अस्मदीयान्स्थानिकोत्पादान् सुबहु प्रशंसते | अस्माकम् अनेके स्थानिकोत्पादाः वैश्विकाः भवितुं सुतरां बृहतींक्तिं सन्धारयन्ति | यथैकम् उदाहरणमस्ति खादि-वस्त्राणाम् | सुदीर्घकालं यावत् खादि-वस्त्राणि, सरलतायाः अभिज्ञानमासीत्, परन्तु, अस्माकं खादिवस्त्रम् सम्प्रति पर्यावरणानुकूलं वस्त्रमिति अभिज्ञायते | स्वास्थ्यदृष्ट्या एतत् शरीरानुकूलं वस्त्रम्, सर्व-ऋतु-सुखावहञ्च वस्त्रम्, तथा चाद्यत्वे खादिवस्त्राणि तु भूषाचारस्य अभिव्यक्ति-रूपेण प्रवर्तन्ते एव| खादिवस्त्राणां लोकप्रियता तु प्रवर्धते एव,  युगपदेव, जगति नैकत्र,खादिवस्त्राणि निर्मीयन्ते अपि | मेक्सिको-देशे अन्यतमं स्थानमस्ति 'ओहाका(Oaxaca)', अस्मिन् क्षेत्रे अनेके ग्रामाः एतादृशाः सन्ति, यत्र स्थानिकाः ग्रामीणाः,खादि-वयनं कुर्वन्ति सम्प्रति, अत्रत्यं खादिवस्त्रं 'ओहाका-खादि'- रूपेण प्रसिद्धमस्ति | ओहाका-स्थले खादिवस्त्रं केन प्रकारेण आगतमिति विषयः अतितरां रुचिकरः वर्तते| वस्तुतस्तु, मेक्सिको-देशीयः अन्यतमः युवा'Mark Brown' एकदा महात्म-गान्धिनः चलचित्रमेकम् अपश्यत् | ब्राउनः चलचित्रमिदं दृष्ट्वा बापू-महोदयेन तावान् प्रभावितः यदसौ भारते बापूवर्यस्य आश्रमम् आगतः, तथा च,बापू-विषये समधिक-गहनतया अवगतवान्, ज्ञातवान् च | तदा ब्राउनः अनुभूतवान् यत् खादि केवलं वस्त्रमेव नास्ति परञ्च इयन्तु एका सम्पूर्णा जीवनपद्धतिरस्ति | अनया साकं केन प्रकारेण ग्रामीणार्थव्यवस्थायाःआत्मनिर्भरतायाः चदर्शनं संयुक्तमस्ति- इति कृत्वा ब्राउनः अमुना अतितरां प्रभावितः | इतः एव ब्राउनःनिरणैषीत् यदसौ मेक्सिकोदेशं गत्वा खादिकार्याणि आरप्स्यते| सः, मेक्सिको-देशस्य ओहाका-ग्रामे ग्रामीणान् खादिकार्याणि अशिक्षयत्, तान् प्रशिक्षितवान्, तथा चाद्य 'ओहाका-खादी'-ति कं विशिष्टं मानकं सञ्जातम् | अस्याः कार्ययोजनायाः अन्तर्जालीय-वाहिकायां लिखितमस्ति -'The Symbol of Dharma in Motion' | अस्याम् अन्तर्जालीय-वाहिकायां 'मार्कोस'- इत्यस्य अतिशयं रुचिकरः साक्षात्कारः अपि प्राप्स्यते | असौ कथयति यत् आरम्भे जनाः खादिविषये सन्दिग्धाः आसन्, परन्तु अन्ततोगत्वा, अस्मिन् जनानां रुचिः एधिता तथा चास्य विपणी सन्नद्धा | असौ कथयति यत् एतानि राम-राज्य-सम्बद्धानि वृत्तानि सन्ति | यदा भवान् जनानाम् आवश्यकताः पूरयति, तदा जनाः अपि भवद्भिः साकं संयोक्तुम् आरभन्ते |

                सखायः! देहलीस्थे 'Cannuaght place'-इत्याख्ये स्थाने खादि- विपणीतः गान्धिजयन्त्यवसरे एकस्मिन् एव दिवसे एककोटितोs-  प्यधिकमुद्रात्मकः विक्रयः अभवत्।एवमेवकोरोना-संङ्क्रमणकालेखादिनिर्मिताः मुखनासिकाच्छादकाः अपि लोकप्रियाः जायमानाःसन्ति। देशे बहुत्र स्वयंसेविसंस्थाः अन्यसंस्थाः च खादिवस्त्रस्य मुखनासिकाच्छादकानां निर्माणं कुर्वन्त्यः सन्ति।उत्तरप्रदेशेबाराबंकी-जनपदस्य एका महिला अस्ति सुमनदेवीमहोदया । सुमन-महोदयया स्वयंसेवीसमूहस्य महिलाभिः सह खादि-विनिर्मितं मुखनासिकाच्छादका -नां निर्माणं कृतम् । शनैः शनैः तया सह अन्याः अपि महिलाः सम्मिलिताः । सम्प्रति एताः सहस्राधिकसंख्याकान् मुखनासिकाच्छाद- कान् निर्मान्ति । अस्माकं स्थानीयोत्पादानां वैशिष्ट्यं भवति यत् तेषां पृष्ठे समग्रम् एकं दर्शनं भवति । 

ममप्रियाःदेशवासिनः, वयंयदाआत्मीयानिवस्तूनिप्रति

गर्वमनुभवामःतर्हिसंसारेऽपितेषुजिज्ञासाअभिवर्धते।यथाऽस्माकंअध्यात्मयोगेनआयुर्वेदेनचाखिलविश्वम्आकर्षितम्,तथैवानेकाःक्रीडाःसंसारमाकर्षयन्ति।अद्यत्वेऽस्माकंमलखम्बोऽपिनैकेषुदेशेषुप्रचलति।अमेरिकायांचिन्मय-पाटणकरःप्रज्ञा-पाटणकरश्चयदास्वीयगृहेमलखम्ब-प्रशिक्षणम्आरभताम्तदाताभ्यांचिन्तितमपिनासीद् यदेषःएतावत्साफल्यम्अधिगमिष्यति।अमेरिकायामद्यत्वेनैकेषुस्थानेषुमलखम्बप्रशिक्षणकेन्द्राणिप्रचलन्ति।बहवःअमेरिकी-देशीयाः युवानःमलखम्बमनुबोधयन्ति।अपरञ्चापि, जर्मनी-पोलेण्ड- मलेशियादिषुविंशतिमितेषुदेशेषुमलखम्बःसुप्रचारितःजातः।साम्प्रत -मस्यविश्वविजेतृ-स्पर्धाआयोज्यतेयस्यांनैकदेशानांप्रतिभागिनःसहभागिनोभवन्ति।भारतेतुप्राचीनकालादेवईदृशाःक्रीडाःप्रचलिताःअभवन्,याभिरस्माकंअसाधारणंविकासमजायत।एताभिरस्माकंशरीर-मानसयोःसन्तोलनंविकसति।सम्भवतःअस्माकंयुवसन्ततिषुमलखम्बस्यप्रचारःनास्ति।भवन्तःअन्तर्जालोपरिअन्वेषणंकुर्वन्तु, अस्यानन्दंचाऽनुभवन्तु।

 

सखायः, अस्माकंदेशेनैकानियोद्धृकौशलानिसन्तियेषांविषयेवयंअभिज्ञाःअपिनास्मः।अहमिच्छामियदस्माकंयुव- मित्राणिएतेषांविषयेजानन्तु, तेषामभ्यासंकुर्वन्तु, समयानुसारंचतेषुनवाचारमपिकुर्वन्तु।जीवनेयदासमाह्वानंनभवति, तदाव्यक्तित्वस्यसर्वश्रेष्ठपक्षोsपिनैवोद्भवति।एतेनभवन्तःसर्वदाऽत्मानंसमाह्वयन्तु।

             मम प्रियाः देशवासिनः, कथ्यते यत् शिक्षणं हि वर्धनं भवति इति । अद्य मनोगते अहम् एकेन अद्भुतव्यक्तित्वेन सह भवतां परिचयं कारयामि । एषः पठनाधिगमनयोः प्रसन्न्तौत्सुक्यं धत्ते । असौ अस्ति - पोन-मरियप्पनः । एषः तमिलनाडुराज्यस्य तुतुकुडी- स्थाने निवसति । तुतुकुडीस्थानं Pearl City इति मौक्तिक-नगरत्वेन प्रसिद्धम् । पुरा एतत् पाण्डिन्-साम्राज्यस्य महत्वपूर्णं केन्द्रम्आसीत्। 

    अत्रत्यः निवासी मम मित्रं पोन-मरियप्पनः केशकर्तनकर्मणि निरत: अस्ति, अथ एकं केशकर्तनालयं प्रचालयति । अनेन अत्यन्तं उत्कृष्टं प्रेरणादायकं च कार्यं कृतम् । स्वीये केशकर्तनालयेपुस्तका- लयः विनिर्मितः । व्यक्तिः यदि स्वीय-केशकर्तन-क्रमस्य प्रतीक्षां कुर्वन् तत्र किञ्चिद् अधीते, अधीतं च लिखति तर्हि तस्मै निर्धारित- मूल्ये अपचिति: प्रदीयते । 

आगच्छन्तु तुतुकुड़ीं चलामः पोन-मरियप्पन-महोदयेन सह सम्वादं कुर्मः - 

प्रधानमन्त्री – पोन-मरियप्पन-महोदय! नमस्कारः ।

पोन-मरियप्पन: -  माननीय! प्रधानमन्त्रिवर्य! वणक्कम् ।

प्रधानमन्त्री – वणक्कम्, वणक्कम् । एषः पुस्तकालय-सम्बद्धः विचारः कथम् आगतः?

पोन-मरियप्पनः अहम् अष्टमकक्षापर्यन्तं पठितवान् । पारिवारिक-परिस्थितयः समीचीनाः न   आसन्, अतः अध्ययनं नानुवृत्तम् । अधीतान् च दृष्टवा मनसि मे हीनभावना आगच्छति स्म । अतः पुस्तकालयं स्थापयामि इति चिन्तितवान्, अनेन बहवः लाभान्विताः भविष्यन्ति, इयमेव मम प्रेरणा अजायत । 

प्रधानमन्त्री - भवते किं पुस्तकं रोचते?

पोन-मरियप्पनः —  मह्यं "तिरूकुरूलइति बहु रोचते । 

प्रधानमन्त्री —  भवता सह सम्भाष्य प्रसन्नताम् अनुभवामि । नैकाः शुभकामनाः । 

पोन-मरिप्पनः —  अहम् अपि माननीयेन प्रधानमन्त्रिणा सह सम्वादं कुर्वन् अतिप्रसन्नताम् अनुभवामि ।

प्रधानमन्त्री  –  अनेकाः शुभकामनाः । 

पोन मरियप्पनः धन्यवाद- प्रधानमन्त्री महोदय । 

प्रधानमन्त्री धन्यवादः |

सम्प्रति पोन-मरियप्पन-महोदयेन सह सम्वादः कृतः । पश्यन्तु, कथं सः केशप्रसाधनेन सह जीवनं प्रसाधयितुम् अवसरं प्रकल्पयति ।

    सखायः, एतद् ज्ञात्वा भवन्तः आनन्दम् अनुभविष्यन्ति यत् भारते एतादृशाः नैके जनाः सन्ति ये ज्ञानप्रसारणार्थं जीवन्ति, ज्ञान- प्रसारणेन च अपारं हर्षम् अनुभवन्ति । एते प्रतिदिनं अन्यान् पठितुं प्रेरयन्ति । मध्यप्रदेशस्य सिंगरौलीतः एका शिक्षिका उषादुबे-वर्या यया Scooty-इति यानं सचलपुस्तकालयरूपेण परिवर्तितम् । सा प्रतिदिनं अटन्ती सचलपुस्तकालयेन सह कञ्चिदपि ग्रामं प्राप्य बालान् बालाः च पाठयति । बालाः तां 'किताबोंवाली दीदी'इतिपुस्तकालयभगिनीति  एवं सम्बोधयन्ति । वर्षेऽस्मिन् स्टमासे अरुणाचलप्रदेशस्य निरजुली-इत्यस्य Rayo -ग्रामे स्वयंसेवि-पुस्तकालयः सम्वृत्तः । वस्तुतः अतत्यमीना-गुरुंगः, अथ च, दिवांग-होसाई-इत्युभाभ्यां यदा ज्ञातं यत् उपनगरं पुस्तकालयः नास्ति, तदा धनसाहाय्यार्थम् एतौ अग्रे आगतौ । अस्मिन् सदस्यता-शुल्कं नास्ति इति ज्ञात्वा आश्चर्यान्विताः भविष्यन्ति भवन्तः । यः कोऽपि सप्ताह-द्वयार्थं पुस्तकं नेतुं शक्नोति, तदनन्तरं च तत् प्रत्यर्पणीयं भवति । 

एषः पुस्तकालय: सर्वदा उद्घाटितः भवति । पुस्तकालयं परितः निवसन्तः अभिभावकाः अनेन प्रसन्ना: भवन्ति यत् तेषां बालाः पुस्तकाध्ययने प्रवृत्ता: भवन्ति । विशेषरुपेण तदा, यदा विद्यालयाः  अपि आँन्लाइन्-कक्षाः आरब्धवन्तः । तत्रैव चण्डीगढे एकं संघटनं चालयता सन्दीपकुमारेण एकस्मिन्  mini van-इति लघुयाने सचलपुस्तकालयः निर्मितः । अनेन प्रकल्पेन निर्धनेभ्यः बालेभ्यः पुस्तकानि निःशुल्कं प्रदीयन्ते । 

अनेन सहैव गुजरातस्य भावनगरस्य संस्थयोः विषये अपि जानामि। तयोः प्रथमा अस्ति विकास-वर्तुल-ट्रस्ट-इति । एषा संस्था प्रतियोगि-परीक्षासम्बद्ध-छात्राणां सहायतां करोति । १९७५-वर्षतः कार्यं कुर्वन्ती एषा संस्था ५०००-पुस्तकैः सह १४०-तः अधिका: पत्रिकाः उपलब्धाः कारयति । अपरा संस्था 'पुस्तकपरब' इति वर्तते ।‌ इयं नवाचारयुक्ता योजना वर्तते |या साहित्यपुस्तकैः सह अन्यपुस्तकानि निश्शुल्कम् उपलब्धानि कारयति ।

अस्मिन् पुस्तकालये आध्यात्मिक-आयुर्वेदिक-उपचार- म्बन्धीनि पुस्तकानि अपि सन्ति । यदि भवन्त: अपि एतादृशानां प्रयासानां विषये जानन्ति तर्हि संचारमाध्यमेषु प्रसारयितुम् आग्रहं करोति । एतानि उदाहरणानि पुस्तकाध्य-पर्यन्तं पुस्तकाल- योद्घाटनपर्यन्तं न सीमितानि । अपितु नवभारतस्य भावनाया: प्रतीकानि सन्ति। समाजस्य विभिन्ना: जना: विभिन्नेषु क्षेत्रेषु नवाचारम् आचरन्त: सन्ति। श्रीमद्-भगवद्-गीतायां अपि उक्तम्–'न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।' अर्थात् ज्ञानम् इव जगति किमपि पवित्रं नास्ति । अहं ज्ञानस्य प्रसारणकर्तन् महानुभावान् च हृदा अभिनन्दानि।

      मम प्रियाः देशवासिनः, अनतिचिरमेव सरदारवल्लभभाई- पटेलवर्यस्य जन्मजयन्तीम्ओक्टोम्बरमासस्य ३१-दिनाड़्के राष्ट्रिय- एकतादिवसरूपेण आचरिष्यामः । मनोगते पूर्वम् अपि सरदारपटेल- वर्यस्य विषये विस्तरेणचर्चितम् । तस्य विराट्व्यक्तित्त्वस्य विविधाः आयामाः चर्चिताः । न्यूनाः एव तादृशाः सन्ति येषां व्यक्तित्त्वे वैचारिकता नैतिकसाहसः राजनीतिविलक्षणता कृषिक्षेत्रज्ञानं राष्ट्रियैक्यसमर्पणं चेत्यादीनि भवन्ति । किम् भवन्तः जानन्ति पटेलवर्यस्य प्रत्युत्त्पन्नमतिम्?कल्पयन्तु लौहपुरूषं यः राजपुरुषै: सह वार्तामकरोत्, पूज्यबापूवर्यस्य जनान्दोलनस्य प्रबन्धमकरोत्, आंग्लै: सह युद्धमपि अकरोत्, सर्वमेतद् कुर्वन्नपि तस्य प्रत्युत्तपन्नमतिः सदा जागृता भवति स्म । गांधिवर्येण सरदारपटेलविषये उक्तमासीत् । तस्य विनोदपूर्णाः वार्ताः श्रुत्त्वा अतिहासः भवति स्म । एतच्च दिवसे एकवारं न अपितु बहुवारं भवति स्म । अत्रापि पठनयोग्यः विषयः अस्ति अस्माकं कृते । कियती वा समस्या भवतु मतिः यदि जागृता भवति तर्हि समाधानं कर्तुं सामर्थ्य भवति । सरदारवर्येण एतदेव कृतमासीत् ।   

मम प्रियाः देशवासिनः सरदारपटेलवर्येण स्वकीयं पूर्णं जीवन राष्ट्रैक्याय समर्पितम् आसीत् । तेन भारतीयाः स्वतन्त्रतान्दोलनेन सह योजिताः । स्वातन्त्र्येण सह कृषक सम्बद्धान् विषयान् योजितवान्  । विभिन्नराज्यपरिवारान्  सम्पत्तीः च राष्ट्रेण  सह योजनस्य कार्यं कृतवान् । विविधतासु एकता इति मन्त्रं प्रत्येकं भारतीयस्य मनसि जागरयन् आसीत्।

 सखायः, अद्य अस्माकं वाणी, अस्माकं व्यवहारः अस्माकं कर्म च प्रतिक्षणं अग्रे वर्धनीयम्। येन वयं एकीभूय  समस्तनागरिकेषु आत्मभावम् उत्पादयितुं प्रभवामः। अस्माकं  पूर्वजै: एतादृशाः प्रयासाः विहिताः । अवलोकयन्तु केरले लब्धजन्मना पूज्येन आदिशंकराचार्येण भारतस्य चर्तुषु दिक्षु  चत्वारः महत्वपूर्णाः मठाः स्थापिताः। उत्तरे बद्रिकाश्रम:, पूर्वे  पुरी, दक्षिणे शृङ्गेरी, पश्चिमे द्वारिका च। तेन श्रीनगरस्य यात्रा अपि कृता। इदमेव कारणम् यत् तत्र एकस्य पर्वतस्य नाम 'शंकराचार्य hill'अपि अस्ति । तीर्थाटनं भारतम् एकसूत्रे आबध्नाति । ज्योतिर्लिंगानां शक्तिपीठानां च शृंखला भारतम् एकसूत्रे आबध्नाति ।  त्रिपुरातः गुजरातपर्यन्तं जम्मूकाश्मीरतः तमिलनाडुपर्यन्तं स्थितानि आस्थाकेन्द्राणि अस्मान् एकीकुर्वन्ति। भक्ति-आन्दोलनं षष्ठसप्तम-शताब्द्यां प्रथमवारं तमिलभाषायां प्राब्धम् आसीत् । अनन्तरं च कन्नड्-इत्यादिभाषाषु अपि इदम् आन्दोलनं  प्रवृतम् । अनन्तरं समग्रेsपि भारते बृहज्जनान्दोलनरूपेण संवृत्तम् । एतेन किल भक्तिमाध्यमेन वयम्एकीभूताः अभवाम ।   

अस्माकं नित्यजीवने अपि ऐक्यस्य विषयाः सम्मिश्रिताः सञ्जाताः। प्रत्येकम् अनुष्ठानात् पूर्वं विभिन्नानां नदीनाम् आवाहनं क्रियते । एतस्मिन् सुदूरे उत्तरे सिन्धुनदीत: दक्षिणे भारतजीवन- दायिनीकावेरी नदी सम्मिलिता अस्ति । प्रायः अस्माकं परम्परायां स्नानसमये पवित्रभावेन ऐक्यमन्त्रः उच्चार्यते -

गड़्गे च यमुने चैव गोदावरि सरस्वति 

नर्मदे सिन्धु-कावेरि जलेऽस्मिन् सन्निधिं कुरु  ।।

एवंप्रकारेण सिक्खमतावलम्बिनां पवित्रस्थलेषु नान्देड़साहिब- पटनासाहिब-इत्युभौ गुरुद्वारौ स्तः । अस्माकं सिक्खगुरुभिः अपि स्वजीवनेन सत्कार्यै: च ऐक्यभावना सुदृढीकृता । विगतशताब्द्याम् अस्माकं देशे डॉ.बाबासाहेब-अम्बेडकर-सदृशाः महान्तः विभूतिजनाः  उपातिष्ठन्, यै: वयं सम्विधानमाध्यमेन संयोजिताः एकीकृताश्च । 

  सखायः! संघ: शक्तिः, संघ: सामर्थ्यम्, संघः प्रवर्तनम्, संघ: अभिवर्धनम्, संघटिताः वयं नवशिखराणि प्राप्स्यामः । वस्तुत: एतादृश्यः अपि शक्तयः आसन्, याभि: अस्माकं मनस्सु सन्देह- बीजारोपणस्य प्रयासः कृतः, विभाजनप्रयासः च कृतः । परं देशेन सर्वदा सम्यक् प्रत्युत्तरं प्रदत्तम् । निरन्तरं स्व-नावीन्येन, प्रेम्णा प्रयासै: कर्मभिः च 'एकं भारतं श्रेष्ठं भारतम्' इत्यत्र नववर्णाः अन्वेषणीयाः स्थापनीयाश्च  एकतायाः नववर्णाः पूरणीयाः, अथ प्रत्येकं नागरिकेण पूरणीयम् । सन्दर्भेsस्मिन् अहम् एकं जालपुटं द्रष्टुं निवेदयामि -  ekbharat.gov.in  - अस्मिन् राष्ट्रियैकीकरण- प्रवर्धनप्रयासा: परिलक्षिताः सन्ति । विशिष्टः एक प्रकल्पः अत्र वर्तते-'अद्यतनं वाक्यम्'-इति । अस्मिन् प्रकल्पे वयं प्रतिदिनं एकं वाक्यं स्थापयामःत् वाक्यं विभिन्नासु भाषासु कथं वदामः इतिपठितुं शक्नुवन्ति । भवन्तः अस्य जालपुटस्य कृते सहयोगम् अपि कुर्वन्तु, यथा-प्रत्येकं राज्यं तस्य संस्कृतौ च विभिन्नानि भोज्यानि भवन्ति, एतानि व्यञ्जनानि स्थानीयसामग्रीभिः निर्मीयन्ते। किं वयम् एतेषां व्यञ्जनानां पाकविधिं स्थानीय-सामग्रीनाम्ना सह जालपुटे स्थापयितुं शक्नुमःङ्घं रोगप्रतिरोधक-क्षमताःम्वर्धयितुम् इतः उत्तमःउपायः कः स्यात्?

 सखायः! एतन्मासस्य एकत्रिंशद्दिनांके 'केवड़िया'-इति  ऐतिहासिके 'Statue of Unity'-स्थले नैककार्यक्रमेषु सहभागिताया: अवसरः लब्धः। भवन्तः अपि तत्र युक्ताः भवन्तु ।

मम प्रियाः देशवासिनः, ऑक्टोबरमासस्य एकत्रिंशत्तमे अह्नि वयं वाल्मीकिजयन्तीमपि आयोजयिष्यामः । अहं भगवते वाल्मीकये नमामि,अस्मिन् विशिष्टावसरे च देशवासिभ्यः हार्दिकशुभकामनाः व्याहरामि। महर्षिवाल्मीकेः महान्तः विचाराः कोटि-कोटि-जनान् प्रेरयन्ति, क्तिमतः च कुर्वन्ति। एतेहि लक्षेभ्यः कोटिभ्यश्च निर्धनदलितेभ्यः महदाशारूपाः सन्ति, तेष्वाश्वासनं विश्वासं चापि संचारयन्ति। असौ व्याहरत् यद्यदि मानुषे इच्छा- शक्तिः सक्रियास्ति तर्ह्यसौ यत्किमपि कार्यं सरलतया कर्तुंपारयति। एषा हि इच्छाशक्तिरेवास्ति या युवजनेषु असाधारण-कार्य-सम्पादनस्य क्षमतां प्रापयति

महर्षिवाल्मीकिः सकारात्मकविचाराणां समर्थकोऽवर्तत,तस्यकृते सेवायाः मानवीय-गरिम्णश्च स्थानं सर्वोपरि वर्तते । महर्षि- वाल्मीकेः आचाराः विचाराः आदर्शाश्च 'न्यू-इंडिया' -इत्यस्यकृते अस्मदीय-संकल्पानांप्रेरणाः दिशानिर्देशाश्च सन्ति। वयं महर्षि- वाल्मीकिं प्रति सर्वदैव कृतज्ञाः स्थास्यामः यत् तेन अनागत-वंशानां मार्गदर्शनार्थं रामायणसदृशः महान्ग्रन्थो विरचितः।

ऑक्टोबरमासेएकत्रिंशत्तमे दिने भारतस्य पूर्वप्रधानमन्त्री श्रीमती इन्दिरागान्धी दिवंगता। अहं तस्यै सादरं श्रद्धांजलिं समर्पयामि।

मम प्रियाः देशवासिनः, साम्प्रतं काश्मीरस्य पुलवामाक्षेत्रं अखिलभारतस्य शिक्षणपरिदृश्ये महत्त्वाधायिनीं भूमिकां निर्वहति । अद्याशेषदेशे विद्यार्थिनः यद्गृहकार्यं कुर्वन्ति, आलेखं वा लिखन्ति; तेषां सम्पादने पुलवामावासिनां कठोर-परिश्रमः महद्योगदानं करोति। काश्मीरोपत्यका देशस्य प्रतिशतं नवतिमितं 'पेन्सिल्'- इति ईषिकाणाम् आवश्यकतां पूरयति, तत्र पुलवामाक्षेत्रस्य योगदानं महत्तरं वर्तते। किंचित्कालपूर्वं भारतम्ईषिकाकाष्ठानां आयातं करोति स्म; परमद्य पुलवामाक्षेत्रस्य योगदानेन देशमस्मिन्सन्दर्भे आत्मनिर्भरं सञ्जाम् । वस्तुतः पुलवामाक्षेत्रस्य ईषिका-लेखनपट्टानि राज्यानाम्अन्तर्भेदमपि पूरयति। उपत्यकायाः चिनारकाष्ठेषु पर्याप्तं संक्लेदं मार्दवं चावाप्येते येहि ईषिका-निर्माणाय सर्वथापेक्षिते स्तः। पुलवामाक्षेत्रे उक्खूक्षेत्रं तु विशेषतया ईषिका-ग्रामत्वेन अभिज्ञायते। अत्र ईषिका-निर्माणस्य बहवः एकांशाः सन्ति येषु पर्याप्ताजीविका- वसराः समुपलब्धाः, येभ्यः प्रभूतसंख्यायां महिलाः वृत्यर्जनं कुर्वन्ति।

     सखायः, पुलवामाक्षेत्रस्य एतदभिज्ञानं तदैव स्थापितं यदाऽत्रत्यैः निवासिभिः नवाचारः प्रकल्पितः, तस्यानुपालनाय चात्मासमर्पितः । एतेष्वेव कर्मठजनेषु मंजूर-अहमद-अला अन्यतमः अस्ति। पूर्वं मंजूरः सामान्य-काष्ठछेदकः श्रमिकः आसीत्। असौ किमपि नूतनं कर्तुमैच्छत येन तस्य वंशजाः निर्धनाः न स्युः। तेन स्वीय-पैतृकभूमिं  विक्रीय सेवलानां सम्पुट-पेटिकानां निर्माणैकांशः स्थापितः। अनन्तरं तेन ज्ञातं यत् ईषिका-निर्माणेऽपिचिनारकाष्ठस्योपयोगः सम्भाव्यते। तदा तेन केषाञ्चन विख्यातानाम् ईषिका-निर्मातॄणां कृते चिनारकाष्ठ-पेटिकानाम् आपूर्तिः आरब्धा। एतेन तस्य आयः भूयशः अभिवर्धितः। अनन्तरं तेन स्वीयानि ईषिकावरण-निर्माणोपकरणानि क्रीतानि, ख्यातेभ्यश्च समवायेभ्यः ईषिकावरणानां विक्रयः आरब्धः। अद्य मंजू-महोदयस्य वार्षिको व्यवसायः कोट्यधिक-रूप्यकात्मकः संजातः, असौ च प्रायशः द्विशतजनेभ्यः वृत्तिमपि उपपादयति। अद्य 'मनोगतम्'-इत्यस्य माध्यमेन समस्त-देशवासिनां पक्षतः अहं मंजूरमहाभागाय,पुलवामाक्षेत्रस्य परिश्रमनिरतेभ्यः भगिनी-भ्रातृभ्यः, तेषां परिवारजनेभ्यश्च बहुशः प्रशंसां व्याहरामि यद्भवन्तः देशस्य युवजनानां शिक्षायै बहुमूल्यं योगदानं क्रियमाणाः सन्ति।

ममप्रियाःदेशवासिनः, संचाररोधकालेअस्माकंदेशेप्रविध्याधारित-सेवानांप्रदानस्याभिनवाःप्रयोगाःआचरिताः।साम्प्रतमस्यकृतेअतिविकसितानांप्राविधिक-संभार-तन्त्राणांवाऽवश्यकतानभवति।झारखण्डेएतत्कार्यंमहिलानामेकेनस्वयंसहायि-समूहेनसम्पादितमस्ति।एताभिःमहिलाभिःकृषकाणांक्षेत्रेभ्यःशाकाःफलानिचनीत्वागृहेषुपरिदत्तानि।एतस्यकृतेताभिः'आजीविका-फार्मफ्रैश्'इतिनामकम्'एप्'इतिमाध्यमंकारितंयेनजनाःसरलतयाशाकफलानांअभियाचनंकर्तुंशक्नुवन्ति।एतेनप्रयासेनकृषकेभ्यःस्वीय-शाकफलानांउचितमूल्यंअधिगतंजनाश्चआवर्षंअभ्यग्र-खाद्यानांसेवनंकर्तुमपारयन्।'आजीविका-फार्मफ्रैश्'इतिमाध्यमंतत्रबहुविख्यातंजातम्।संचाररोधकालेएतत्माध्यमेनपंचाशत्लक्षरूप्यकाणांव्यापारःसम्पादितः।

सखायः, कृषिक्षेत्रेनूतनसम्भावनाभिःबहवोयुवानःअत्रोन्मुखाःजाताः।मध्यप्रदेशस्यबड़वानीक्षेत्रेअतुल-पाटीदारेणचतुस्सहस्र-कृषकाःप्रविध्यासंयोजिताः।एतेकृषकाःअतुल-पाटीदारस्य'ई-प्लेटफॉर्म'-कृषिपटलेनउर्वरक-बीज-कीटनाशकानांऊर्वंग-नाशकानांचस्वीयावश्य- कवस्तूनांगृहापूर्तिमधिगच्छन्ति।एतेनप्राविधिकमाध्यमेनआधुनिककृषि-उपकरणान्यपिभाटकाधारेणउपलब्धानिभवन्ति।संचाररोधकालेएतेनमाध्यमेनकृषकेभ्यःसहस्रशःपुटकानिप्रापितानियेषुशाकानां, कार्पासादीनांबीजान्यप्यासन्।अतुलमहाभागःतस्यदलंचकृषकान्प्रविधिविषयेषुअभिज्ञानमपिकुरुतः, येनते'ऑनलाइन्'-इतिसद्यस्कमाध्यमैःक्रयविक्रयंकर्तुं पारयन्ति।

सखायः, विगतदिनेषुमहाराष्ट्रस्यैकयाघटनयाममावधानमाकर्षितम्।तत्रैकेनकृष्युत्पादसमवायेनकृषकेभ्यःमक्केतिधान्यंक्रीतं, मूल्याधिकंलाभांशःचापिदत्तः।समवायःयदाऽस्यकारणविषयेपृष्टःतदोत्तरितंयद्भारतसर्वकारेणयेनूतनकृषिविधयःघोषिताःतेषामनुसारेणकृषकाःभारतेयत्रकुत्रापिस्वीयोत्पादंविक्रेतुंपारयन्ति, पर्याप्तमूल्यंचापिलब्धुमर्हन्ति।एतेनतैःचिन्तितंएतदधिमूल्यंकृषकैःसम्भाजनीयमिति।अस्योपरितेषामपिअधिकारःइतिकृत्वातैःकृषकेभ्यःअधिलाभःसम्भाजितः।

मित्राणि!एतदधिलाभस्तुसीमितःपरमयम्आरम्भःमहत्तरः।एतेनज्ञायतेयन्नूतनैःकृषिनियमैःआधारस्तरेकृषकाणांजीवन- परिवर्तनस्यबहव्यःसम्भावनाःसमाविष्टाःसन्ति।

ममप्रियाःदेशवासिनः, अद्यमनोगतेदेशवासिनांअसाधारणोपलब्धीनां, देशस्य, संस्कृतेश्चविविधायामेषुभवद्भिःसम्भाषणस्यावसरःअधिगतः।अस्माकंदेशःप्रतिभापूर्णःअस्ति।यदिभवन्तःअपिएतादृग्जनानांविषयेजानन्तितर्हितान्आधृत्यचर्चांकुर्वन्तु, लिखन्तु, तेषांसाफल्यंचप्रसारयन्तु।समागतानांपर्वणांकृतेभवद्भ्यःसपरिवारंबहुशःशुभकामनाः।परमेतेषु अवसरेषुअवश्यंस्मरन्तुयन्मुखाच्छादनंअवश्यमेवधारणीयम्, हस्तप्रक्षालनंफेनकेनकर्तव्यम्, हस्तद्वयमितंचसामाजिकान्तरालंपरिपालनीयमिति।

सखायः, आगामिनिमासेमनोगतमित्यस्यमाध्यमेनपुनःभवद्भिःसम्भाषिष्ये।बहुशःधन्यवादाः।

                           ooo

[भाषान्तरंडॉ.श्रुतिकान्तपाण्डेय-गवीशद्विवेदिभ्यां सम्भूयबलदेवानन्द-सागर-द्वारा]

अणुप्रैषः  - baldevanand.sagar@gmail.com 

 

          

 

No comments:

Post a Comment