*शिवाजीमहाराजस्य एकनिष्ठता*
~~~~~~~~~~
समर्थगुरुस्वामिरामदासः छत्रपतौ शिवाजीमहाराजे भृशम् अस्निह्यत्। एतद्दृष्ट्वा अन्ये शिष्याः अचिन्तयत् यत् सः राजा इति कारणादेव तं प्रति गुरोः रामदास्य प्रेमाधिक्यं वर्तते। एकदा रामदासः शिष्यमण्डलैः सह वनं गच्छन् आसीत् तदैव रात्रिः अभवत्। अतः सः एकस्यां गुहायां अतिष्ठत्। किञ्चित् कालानन्तरं गुरोः आर्तध्वनिः अश्रूयत। यदा शिष्यैः अस्य कारणं पृष्टम् -तदा तैरुक्तम् - उदरशूलोऽस्ति। तच्छ्रुत्वा शिवाजी महाराजः तम् अपृच्छत् - पुनरस्य उपचारः किं भवितुं शक्यते ? तदा गुरुरवदद् उपचारस्तु सिंहन्याः सद्योदुग्धमस्ति परन्तु तत् सर्वथा दुष्प्राप्यम् । एवं श्रुत्वा शिवाजीमहाराजः गुरोः कमण्डलुमादाय वनं निरगच्छत् ततश्च सिंहन्याः सद्यो दुग्धमादाय गुरवे समर्पितान् । एवं दृष्ट्वा गुरुः तम् अवदत् -धन्यो भवान् । उदरशूलं तु एकमात्रं व्याजः आसीत् अहन्तु भवतां सर्वेषां परीक्षाम्अनयत् । त्वं तस्यां सर्वथा सफलो जातः । निश्चयमेव त्वम् एकनिष्ठः शिष्योऽसि एतस्मात्कारणादेव तस्य गुरोः कदाचित् काचित् पीडा न भवितुमर्हेद् इति।
*(डॉ नारायणदेवश्शात्री भरतपुरम्)*
29/08/2028
No comments:
Post a Comment