Friday, September 18, 2020

Naiyayika’s encounter with Kalidasa

This reminds me of a joke I had written many years ago about how a
Naiyāyika will deal with Kālidāsa. The statement of my imagined Naiyāyika
will be something like this:
 
किं नाम कालिदासत्वम्? कोऽवच्छेदको धर्म: कालिदासत्वस्य? क: कालिदासत्वाश्रय:
। कालिदासत्वं न जाति: । अनेकानुगतत्वाभावात् । अपि कालिदासत्वम्
आश्रयासिद्धम् । कालिदासत्वाश्रयस्य गगनारविन्दसाधर्म्यं केनाप्यदृष्टत्वात् ।
कालिदासत्वाश्रयस्य सद्भावे किं प्रमाणम्? न तावत् प्रत्यक्षम् । सम्प्रति
अविद्यमानेन वस्तुना इन्द्रियसन्निकर्षासम्भवात् । नाप्यनुमानम् । न चोपमानम्
। शाब्दं प्रमाणमिति चेत् कस्याप्तस्य वचनं प्रमाणीकरणीयम् । भूतकाले
तदस्तित्वसम्भवेऽपि विदुषां तत्कालनिर्णये वैमत्यात् अनेकेषामाप्तानां
परस्परविरोधे सर्वेषामनाप्तत्वात् शाब्दमपि प्रमाणं तदस्तित्वे न सिद्ध्यति ।
एवं प्रमाणाभावात् आश्रयासिद्धौ असिद्धाश्रयवर्तिन: कालिदासत्वस्य कथं
सिद्धिरिति कथ्यताम् ।
 
Madhav M. Deshpande
Professor Emeritus, Sanskrit and Linguistics
University of Michigan, Ann Arbor, Michigan, USA
Senior Fellow, Oxford Center for Hindu Studies
 

No comments:

Post a Comment