एकमतं कुत्र ?
***********
(१)
नो वेदा बहवः सुरा न मुनयः शास्त्राणि मन्त्राः स्तवा
धर्माः साधनपद्धतिर्न विविधा ध्यानानि पूजाः कथाः।
आचारा बहुशः क्षितौ न विधयो विद्याः पुराणानि वा
प्राज्ञानां यदि सर्वतत्त्वविषये चैकं मतं स्यात् सदा।।
(२)
निर्वाणस्य पथा न वा स्मृतिततिस्तीर्थानि पर्वाणि न
शौचाशौचचयो व्रतं बहुविधं नो रीतयः सागराः।
भाषा व्याकरणानि दर्शनगणः कोषा न वा शासकाः
प्राज्ञानां यदि सर्वतत्त्वविषये चैकं मतं स्यात् सदा।।
(व्रजकिशोरः)
No comments:
Post a Comment