कौटुम्बिकः
उमापतेः महेशस्य
विचित्रं हि कुटुम्बकम्।
अन्नपूर्णा गृहे नित्यं
तथापि भिक्षुकः शिवः।।(1)
कार्तिकेयः सदा युद्धे
त्रिदशानां चमूपतिः।
लम्बोदरो गणाध्यक्षः
शान्तिप्रियो हि सर्वदा।।(2)
वाहनं कार्तिकेयस्य
मयूरो भोगिनो रिपुः।
मूषको धूम्रकेतोश्च
गिरिजायास्तु केसरी।।(3)
शिवस्य वाहनं नन्दी
शितिकण्ठस्य शूलिनः।
विभूषणमहिः कण्ठे
सर्वेऽरयः परस्परम्।।(4)
धूर्जटेः छत्रछायायां
हार्दं शान्तिः सुखं गृहे।
एवमेव गृहे लोके
मुण्डे मुण्डे पृथग्मतिः।।(5)
तथा च भारते देशे
नाना --मतावलम्बिनः।
निवसन्ति यथा स्थाणो:
परिवासे कुटुम्बिनः।।(6)
पादपानां महारण्ये
पृथक् पृथक् प्रजातयः।
नाना --वर्णीयपुष्पाणि
तदैवोद्यानकं खलु।।(7)
कौटुम्बिकस्य कर्तव्यं
नेतुः महीक्षितस्तथा।
उत्तममाश्रितेभ्यश्च
स्वस्यार्थे कठिनं श्रमम्।।(8)
पशुपतेः विषं कण्ठे
त्रिदशानां मुखे सुधा।
शेषे शेते स्वयं विष्णुः
शिवश्शेते शिलोच्चये।।(9)
तद्विषं कटुता वापि
हृदये नैव शोभते।
नोचितं वमनं तस्य
नीलकण्ठः सुशोभते।।(10)
---मार्कण्डेयो रवीन्द्रः
No comments:
Post a Comment