*१.अप्लुत-ह्रस्व-अकारात् परस्य* *रुँ-इत्यस्य हश्-वर्णे परे उकारादेशः भवति*
राम + सुँ + गच्छति
→ राम + रुँ + गच्छति [ससजुषोः रुः ८|२|६६ इति रुत्वम् ।]
→ राम + उ + गच्छति [हशि च ६|१|११४ इति रुँ-इत्यस्य उत्वादेशः ।]
→ रामो गच्छति [आद्गुणः ६|१|८७ इति गुण-एकादेशः]
d
*२.भो-भगो-अघो एतेषाम् परस्य तथा पदान्ते विद्यमानस्य अवर्णात् परस्य रुँ* *इत्यस्य अश्-वर्णे परे यकारादेशःभवति* ।
"भोस् देवाः" इति स्थिते -
→ भोरुँ देवाः [ससजुषोः रुँः ८|२|६६ इति पदान्तसकारस्य रुँत्वम् ]
→ भोय् देवाः [भोभगोअघोअपूर्वस्य योऽशि ८|३|१७ इति रुँ-इत्यस्य य्-आदेशः]
→ भो देवाः [ओतो गार्ग्यस्य ८|३|२० इति यकारलोपः]
No comments:
Post a Comment