*सुप्तं भाग्यम्।*
----------------------------------
*लेखकः- प्रदीपः कुमार नाथः।*
*कार्बि आङ्गलङ्ग जनपदः, असमप्रदेशः।*
एकः पुरुषः आसीत्। सः तस्य जीवने अत्यन्तं निराशः आसीत्।
जनाः तं मनहूसः इति नाम्ना सम्बोधयन्ति स्म।
एकदा एकः पण्डितः आगत्य तं उक्तवान् हे वत्स। तव भाग्यं फलां-पर्वतस्य उपरि सुप्तम् अस्ति।
त्वं यदि तत्र गत्वा तं भाग्यम् उत्थापयति चेत् तव पार्श्वे सदैव भाग्यं भविष्यति इति।
पण्डितस्य उपदेशं श्रुत्वा सः तत्क्षणमेव तस्य भाग्यम् उत्थापयितुं ततः प्रस्थितवान्।
गमनसमये यदा सः अरण्यं प्रविष्टवान् तदा एकः सिंहः तं खादितुम् उद्यतः अभवत्।
तदा सः सिंहं विनयेन उक्तवान् हे वनराज। अहं मम भाग्यम् उत्थापयितुं गच्छन्नस्मि , कृपया मां न खादतु इति।
तदा सिंहः उक्तवान् अस्तु तर्हि, परन्तु अहं यत्किमपि वा खादामि मम क्षुधा कदापि शान्ता न भवति। एतस्य कारणं किमिति त्वं भाग्यं पृष्ट्वा आगत्य मां कथय इति।
सः मनहूसः अपि तदङ्गीकृत्य ततः प्रस्थितवान्।
अग्रे गत्वा सः एकस्य कृषकस्य गृहं प्राप्तवान्। तदा सायंकालः अपि अभवत्। अतः रात्रौ सः कृषकस्य गृहे स्थितवान्।
सः तस्य भाग्यम् उत्थापयितुं गच्छति इति ज्ञात्वा कृषकः तं पृष्टवान् महोदय! अहं प्रतिवर्षं सुचारूरूपेण कृषिकार्यं करोमि परन्तु किमर्थं न जाने सस्यानि समीचीनानि न भवन्ति। अपिच मम एका विवाहयोग्या पुत्री अपि अस्ति। तां विवाहं कारयितुं असमर्थोऽहम्।
कृपया भवान् तत्र गत्वा तं मम विषये अपि पृष्ट्वा आगच्छतु इति।
सः मनहूसः तदपि अङ्गीकृत्य ततः पुनः प्रस्थितवान्।
आदिनं सः अटित्वा अटित्वा सायंकाले एकं राजप्रासादं प्राप्तवान्। तत्र च सः प्रविष्टवान्। तस्य आगमनस्य उद्देश्यं विदित्वा महाराजः तं पृष्टवान् भोः! ममापि एकः प्रश्नः अस्ति यत् अहं सुष्ठु रूपेण राज्यं पालयामि चेदपि राज्ये अराजकता न्यूना न भवति।
एतस्य कारणं किमिति भवान् ज्ञात्वा ततः आगत्य मां कथयतु इति।
सः तदपि अङ्गीकृत्य परेद्युः ततः प्रस्थितवान्।
तदा सः अटित्वा अटित्वा सायंकाले गन्तव्यस्थानं तेन प्राप्तम्।
तत्र गत्वा सः तस्य भाग्यम् उत्थापितवान्। भाग्यमपि तेन सह सर्वदा स्थातुं अङ्ग्यकरोत्।
तस्यां रात्रौ सः पर्वते एव आसीत्। परेद्युः सः भाग्येन सह ततः प्रत्यागतवान्।
भाग्यं नीत्वा सः ततः प्रत्यागत्य प्रथमं राजास्थानम् उपस्थितवान्।
तस्य राज्यस्य समस्याविषये सः उक्तवान् इदं राज्यम् एका महिला पालयति तदर्थम् एव इयं समस्या। यदि सा महिला एकेन पुरुषेण सह विवाहं कृत्वा तौ उभौ अपि राज्यं पालयतः चेत् राज्यस्य सर्वाः अपि समस्याः दूरीभविष्यन्ति।
तच्छ्रुत्वा राज्ञी तम् उक्तवती- यदि एवं चेत् तर्हि भवान् एव मां विवाहं करोतु। तदा आवां मिलित्वा राज्यं पालयिष्यावः इति।
मनहूसः तदा उक्तवान् नहि नहि। इदानीं मया भाग्यम् अस्ति एव। अहं भवतीं विवाहं कर्तुं न शक्नोमि। भवती अन्यं पुरुषं दृष्ट्वा विवाहं करोतु।
अहम् इदानीम् इतः गच्छामि इत्युक्त्वा ततः निर्गतवान्।
ततः आगत्य सः पुनः कृषकस्य गृहं प्राप्तवान्। कृषकस्य समस्याविषये अपि सः तम् उक्तवान् महोदय। भवतः क्षेत्रेषु सस्यानि किमर्थं न भवन्ति इत्युक्ते भवतः क्षेत्रे एकत्र स्वर्णेन पूर्णाः केचन कलशाः सन्ति।
भवान् तान् सर्वान् कलशान् उत्थाप्य तेन धनेन भवतः पुत्र्याः विवाहं कारयतु इति।
तदनन्तरं भवतः क्षेत्रेषु सस्यानि अपि समीचीनानि भविष्यन्ति इति।
इमां शोभावार्तां श्रुत्वा सः तस्य क्षेत्रात् तान् सर्वान् कलशान् उत्थाप्य गृहम् आनायितवान् अपिच कृषकः हर्षेण तं मनहूसम् उक्तवान्- भवता साकं मम पुत्र्याः विवाहं कारयिष्यामि इति।
सः मनहूसः तदपि अस्वीकारं कृतवान् उक्तवान् च नहि नहि महोदय। भवान् अन्यत्र भवतः पुत्र्याः विवाहं कारयतु, भाग्यं तु इदानीं मम पार्श्वे अस्ति एव इति।
पुनः च सः कृषकस्य गृहात् निर्गत्य तस्मिन् अरण्ये सिंहस्य समीपम् आगतवान्।
सिंहः तं सर्वं वृत्तान्तं पृष्टवान्।
सः मनहूसः तदा सिंहस्य विषये उक्तवान् हे वनराज। भवान् यदि कस्यापि मूर्खस्य मांसं खादेत् चेत् भवतः क्षुधा शान्ता भविष्यति इति।
तदा सिंहः सम्यक् विचिन्त्य उक्तवान् त्वं राज्ञः पदं त्यक्त्वा आगतवान् असि। एकां सुन्दरीं कन्याम् अपि त्यक्त्वा बहुधनमपि त्यक्त्वा आगतवान् असि।
अतः त्वम् इव मूर्खः तु अस्मिन् जगति न स्यात्।
अतः त्वं हत्वा एव अहं खादामि इत्युक्त्वा सः सिंहः तं हत्वा खादितवान्।
कथायाः तात्पर्यम् एवमस्ति यत् यदि भवान् सु-अवसरं स्वस्य ज्ञानेन विवेकेन च ग्रहीतुं न शक्नोति तर्हि भवतः भाग्यं किमपि कर्तुं न शक्नोति इति।
🌹🌹🌹🌹🌹🌹🌹
--------------------------------------
No comments:
Post a Comment