व्याकरण-चर्चा --
समासः - 'एकपदीभावः समासः' इति । यथा- राज्ञः सखा- राजसखः इति ।
'समासश्चतुर्विध' - १. अव्ययीभावः, २. तत्पुरुषः, ३. बहुव्रीहिः, ४. द्वन्द्वः चेति ।
अत्र कर्मधारयः, द्विगुः च तत्पुरुषस्यैव अन्तर्गतौ वर्तेते ।
अव्ययीभावः समासः -
यस्य समासस्य पूर्वपदस्य अर्थः प्रधानः स्यात्, तत्पूर्वपदम् अव्ययम्, समस्तपदं नपुंसके एकवचने च स्यात्, सः अव्ययीभाव-समासः उच्यते ।
उदाहरणानि--
१. समीपार्थे- गृहस्य समीपम् - उपगृहम्, तथैव उपकूलम्, उपगङ्गम् इत्यादयः ।
२. अभावार्थे - विघ्नस्य अभावः- निर्विघ्नम्, एवमेव दुर्भिक्षम्, निर्मक्षिकम् इत्यादयः ।
३. अत्ययः - हिमस्य अत्ययः - अतिहिमम्, एवम् अतिबाधम् इत्यादयः ।
४. असम्प्रति- निद्रा सम्प्रति न युज्यते - अतिनिद्र ।
५. पश्चात् - रथस्य पश्चात् - अनुरथम्, एवमेव अनुविष्णु, अनुगृहम्, अनुपदम् इत्यादयः ।
६. योग्यता - रूपस्य योग्यम् - अनुरूपम्, एवमेव अनुकूलम् इत्यादयः ।
७. वीप्सा - दिनं दिनम् - प्रतिदिनम्, एवमेव प्रतिगृहम्, प्रतिमासम् इत्यादयः ।
८. अनतिक्रमः - शक्तिम् अनतिक्रम्य - यथाशक्ति, तथैव यथाविधि, यथाज्ञानम् इत्यादयः ।
९. आनुपूर्व्य - वर्णानाम् आनुपूर्व्येण - अनुवर्णम्, तथैव अनुज्येष्ठम् ।
विभक्तिः - गृहे इति - अधिगृहम्, एवमेव अधिकाननम् ।
११. सादृश्यार्थे - तृणस्य सदृशम् - सतृणम्, एवम् सपद्मम् ।
१२. यौगपद्य - चक्रेण युगपत् - सचक्रम् ।
१३. समृद्धिः- भिक्षाणां समृद्धिः- सुभिक्षम्, एवं सुमद्रम् ।
१४. पर्यन्तम् - समुद्रं पर्यन्तम् - आसमुद्रम्, एवं साग्नि ।
१५ साकल्यार्थे - तृणमपि अपरित्यज्य - सतृणम् । इति ।
( क्रमेण सम्प्रेष्यते )
-- नारदः ।samada7
No comments:
Post a Comment