Thursday, June 18, 2020

Gajapancakam - Sanskrit poem

गजपञ्चकम्
***********
(१)
स्वयं स्नात्वा पीत्वा भ्रमति विपिने पर्वततटे
वने शाखां मूलं छदफलतृणं खादति गजः।
नरप्रीत्यै ग्रामे भ्रमति सरलं रक्षकजनै
स्तथापि म्लेछास्तं कपटपटवो घ्नन्ति दनुजाः।।
(२)
पशुः सोयं बुद्ध्या सुचतुरतरः कर्मकुशलः
फलाहारासक्तः सरलतमजीवोपि बलवान्।
प्रियो हिंसाकार्ये न हि च विपिने नापि मनुजे
तथापि म्लेछास्तं कपटपटवो घ्नन्ति दनुजाः।।
(३)
महालक्ष्मीप्रेमी सकलसुरसेवां प्रकुरुते
नृपाणां सौन्दर्यं प्रथयति सदादेशवहनात्।
महायुद्धे क्रुद्धो दमयति रिपूणां गतिपथं
तथापि म्लेछास्तं कपटपटवो घ्नन्ति दनुजाः।।
(४)
जगन्नाथो यस्मिन् निखिलजनतोषाय रुचिरं
महास्नानं कृत्वा धरति गजवेशं शुभकरम्।
अहो दुःखं तस्मिन् मनुकुलसुताः पापहृदया
गजं घ्नन्ति स्फोटैः कपटपटवस्ते किमसुराः।।
(५)
रे रे वर्वरपापकर्मकुशला हीनाः पशुत्रासदा
व्याजप्रेमविचक्षणाः क्षणमहो किं नो दया वो हृदि।
विस्फोटान्वितभोजनं हतधियो दत्त्वा गजायै खला
स्तां तद्गर्भशिशुं निहत्य कुटिला नर्कं ध्रुवं यास्यथ।।
(व्रजकिशोरः)


No comments:

Post a Comment