अक्षयतृतीया
***********
वैशाखः श्रेष्ठमासः स्मृतिततिकथितस्तत्र यः शुक्लपक्षो
येयं तत्राऽक्षयाख्या प्रचलति सुतिथिः सर्वकल्याणदात्री।
तस्मात् पुण्याय लोका विदधति सुखदं दानधर्मादिकार्यं
कर्मारम्भस्य मुख्यां निखिलशुभफलां नौमि तां सिद्धिरूपाम्।।
(व्रजकिशोरः)
No comments:
Post a Comment