Monday, May 4, 2020

Wife of a miser in dream - Sanskrit joke

the एकस्य कृपणस्य पत्नी (स्वपतिम् ) अयि शृणोतु! अहं ह्यः रात्रौ स्वप्ने भवन्तं दृष्टवती। 

कृपणः- शोभनम्! स्वप्ने किं दृष्टवती? 

पत्नी- अहं दृष्टवती आसम् यद् एकेन बसयानेन आवां कुत्रचित् गतवन्तौ आस्व  परन्तु एकस्यां दुर्घटनायां बसयानं नद्यां पतितम् अभवत्। 

तदा सर्वे यात्रिणः स्वस्य स्वस्य प्राणान् रक्षणाय प्रयत्नं कृतवन्तः आसन्। परन्तु भवान् चित्कारं कुर्वन् आसीत् तथाच कस्यापि अन्वेषणं कुर्वन् आसीत्। 

कृपणः- अहं तु भवतीम् एव आह्वयन् आसम् तथा च भवत्याः एव अन्वेषणं कुर्वन् आसम् इति न वा? 

पत्नी- नैव! भवान् चित्कारं कृत्वा वदन् आसीत् अरे संवाहकः कुत्र अस्ति , तेन रुप्यकत्रयं मह्यं प्रत्यर्पणं  करणीयम् आसीत् इति। 
*-प्रदीपः!*

No comments:

Post a Comment