Sunday, May 17, 2020

Wife and gate keeper-Sanskrit

एकः पुरुषः कार्यार्थम् एकां संस्थां गतवान्। 

तत्र प्रबन्धकेन सह तस्य साक्षात्कारः अभवत्। 

प्रबन्धकः तं पुरुषं पृष्टवान् पश्य! अस्माकं संस्थायां द्वारपालस्य स्थानं रिक्तम् अस्ति। द्वारपालः एवं भवेत् यः शक्तिशाली, यस्मिन् साहसं धैर्यं च अस्ति। 
दुष्टान् जनान् ताडयितुं यस्मिन् सामर्थ्यम् अस्ति सः एव अस्मिन् पदे योग्यः। 

त्वयि सन्ति वा एते गुणाः? 

सः पुरुषः उक्तवान् महोदय! एते गुणाः तु मयि न सन्ति परन्तु मम पत्न्याम् एते सर्वे गुणाः विद्यमानाः सन्ति। 

अहं ताम् आह्वयानि वा? 

प्रबन्धकः- अस्तु तर्हि आह्वय ताम्! 
*-प्रदीपः!*

No comments:

Post a Comment