जयत्वेकादशी माता
जयतु केशवप्रिया।
ददाति विष्णुभक्ताय
शक्तिं मुक्तिं तथैव च ।।(1)
शास्त्रेषु वर्णितानि ते
नामानि कथयाम्यहम्।
नूनं येषां प्रभावेण
भक्तिं प्रयच्छतीन्दिरा।।(2)
उत्पन्ना कथ्यते कृष्णे
मार्गशीर्षस्य पावने।
पापघ्नी मोक्षदा शुक्ले
सर्वसौभाग्यदायिनी ।।(3)
पौषमासस्य कृष्णे च
सफला कथ्यते बुधैः।
तथा च पुत्रदा शुक्ले
परमानन्ददायिनी ।।(4)
षट्तिलेति तथा माघे
कृष्णे जया सिते तथा।
फाल्गुनकृष्णपक्षे च
विजयाऽम्ला तथा सिते।।(5)
असिते चैत्रमासे च
कथ्यते पापमोचिनी।
धवले कामदा वित्तं
ददाति व्रतिने सदा।।(6)
वैशाखस्यासिते पक्षे
वरूथिनी तथैव च।
मोहिनी धवले पक्षे
वशिष्ठादिभिरर्चिता।।(7)
ज्येष्ठेऽपरा सिते पक्षे
निर्जला धवले तथा ।
आषाढे योगिनी कृष्णे
धवले देवशायिनी।।(8)
कामिका श्रावणे कृष्णे
धवले पुत्रदा तथा।
अजा भाद्रप्रदे कृष्णे
विशदे परिवर्तिनी।।(9)
इन्दिराश्विनकृष्णे च
पाशांकुशा सिते तथा ।
कृष्णे कार्तिकमासे च
रमा प्रबोधिनी सिते।।(10)
अधिके परमा कृष्णे
जनमङ्गलकारिणी ।
एवमेव सिते पक्षे
पद्मिनी दुःखनाशिनी।।(11)
एकादशीमहिमानं
शृणोति गायति नरः।
इहलोके सुखं वासं
देहान्ते हरिपादयोः।।(12)
--- मार्कण्डेयो रवीन्द्रः
No comments:
Post a Comment