विद्वत्तायाः लक्षणम् --
'अहं जानामि' इति भावो वस्तुतः अज्ञानतायाः एव लक्षणम् । अयं भावः तु ज्ञानद्वारस्य पिधानाय एव स्यात् केवलम्, पुनः अहङ्काराय च । परन्तु 'अहं न किमपि जानामि' इति भावः एव क्रमशः ज्ञानोपक्रमलक्षणम्, ज्ञानस्य उद्घाटनं वा परिलक्ष्यते । एतादृशो भावो विनम्रतां सङ्केतयति यश्च सर्वकाले स्वस्यैव कल्याणाय भवति । वस्तुतः सर्वमपि ज्ञानं लब्धुं न शक्यं केनापि, कारणं ज्ञानक्षेत्रमेव आकाशवत् अतिविशालम् । यज्ज्ञायते तत्तु अत्यन्तं स्वल्पमेव, क्षुद्रैकदेशीयं वा । अतः एतस्मिन् क्षणिक-मानव-जीवने पूर्णतः तत्सर्वम् आत्मसात् कर्तुम् दुष्करम् , असम्भवश्च एव स्यात् । यज्ज्ञायते केनापि, तत्तु भौतिकदृष्ट्या, व्यावहारिकदृष्ट्या वैव ज्ञायते, तत्रापि किञ्चित् प्रमाणेनैव । पुनः अपरा तात्त्विकदृष्टिः तु अस्ति एव, या अतीव विशाला गहना च वर्तते । अतः 'अहं जानामि, इति भावः आधारहीनः वृथा वैव परिलक्ष्यते सर्वथा । 'मया बहु अधीतम्, अनेके प्रशस्त्युपाध्यादयः आसादिताः तथापि नाहं किमपि जानामि' इत्येव विद्वत्तायाः लक्षणमिति स्वानुभवः, इति शम् ।
-- नारदः, ०२/०५/२०.
No comments:
Post a Comment