Monday, May 4, 2020

Birbal-Sanskrit story

*बुद्धिमान् बीरबलः!*

राज्ञः अकबरस्य राजसभायां बहवः पण्डिताः आसन्। तेषु बीरबलः अत्यन्तं बुद्धिमान् आसीत्। अतः सः अकबरस्य अतीव प्रियः आसीत्। 

एकदा अकबरः एकस्मै दुष्टाय दण्डम् अददात्। दण्डः एवम् आसीत् यत् सः दुष्टः पौषमासे शीतकाले आरात्रौ तडागस्य शीतले जले तस्य समस्तशरीरं निमज्ज्य स्थातव्यः इति। 

सः अपि दुष्टः तथैव राज्ञः आदेशस्य पालनम् अकरोत्। 

परेद्युः राजा तम् अपृच्छत् - त्वम् आरात्रौ कथं कालयापनम् अकरोः? 
सः प्रत्यवदत् महाराज! दूते एकस्मिन् गृहे अग्निः प्रज्वलन् आसीत्। अहं तद् दृष्ट्वा दृष्ट्वा कालयापनम् अकरवम् इति। 

एतच्छ्रुत्वा राजा कुपितः अभवत्। सः तु अग्नेः तापं स्वीकृत्य कालयापनम् अकरोत् अतः सः राजा पुनः तं दण्डयितुम् इष्टवान्। 

परन्तु राज्ञः एतद् निर्णयं श्रुत्वा बीरबलाय न अरोचत। सः तस्मिन् दिने राजसभायां न आगच्छत्। 

राजसभायां बीरबलः उपस्थितः नास्ति इति दृष्ट्वा राजा अकबरः तम् आनेतुं कांश्चन कर्मकरान् अप्रेषयत्।

कर्मकराः बीरबलस्य गृहं गत्वा तस्य काण्डं दृष्ट्वा ते आश्चर्यचकिताः अभवन्। 

बीरबलः ताम्बूलवृक्षत्रयस्य अग्रभागं एकत्रीकृत्य बद्ध्वा तस्योपरि तण्डुलभाण्डं स्थापयित्वा अन्नं पक्तुं वृक्षाणाम् अधः अग्निम् अज्वालयत्।

बीरबलस्य एवं कृत्यं दृष्ट्वा ततः प्रत्यागत्य ते कर्मकराः राजानं सर्वं वृत्तान्तम् असूचयन्।

राजा अपि तच्छ्रुत्वा बीरबलं तस्य कारणम् अपृच्छत्। 

तदा बीरबलः प्रत्यवदत् महाराज! यदि कोऽपि मनुष्यः जले निमज्ज्य दूरे स्थितस्य अग्नेः तापं स्वीकर्तुं शक्नोति तर्हि वृक्षस्य उपरि स्थितम् अन्नम् अधः अग्निं ज्वालनेन किमर्थं न पक्ष्यति ? इति। 

बीरबलस्य वचनं श्रुत्वा राजा स्वस्य दोषं ज्ञात्वा तस्मै दुष्टाय मुक्तिम् अददात्। 
*-प्रदीपः!*

No comments:

Post a Comment