Monday, April 13, 2020

Violence & Dayaa - Tiger & saint - Sanskrit story

हिंस्रं प्रति दया न करणीया।

एका जन्तुशाला मुख्यमार्गस्य पार्श्वे आसीत्। तत्र मार्गस्य पार्श्वे एव एकस्मिन् पञ्जरे एकः व्याघ्रः बद्धः आसीत्।

यदा कदापि मार्गे जनाः गच्छन्ति तदा सः व्याघ्रः तान् आहूय मां पञ्जरात् मुक्तिं ददतु इति विनयेन प्रार्थयते स्म।

परन्तु जनाः त्वं हिंस्रः, यदि वयं त्वां मुञ्चामः तर्हि त्वम् अस्मान् हत्वा खादिष्यति इत्युक्त्वा तं न कोपि मुञ्चति स्म।

एकदा तस्मिन् मार्गे एकः साधुः आगच्छति स्म।
तं साधुं दृष्ट्वा सः व्याघ्रः अतीव विनयेन उक्तवान् हे साधो! कृपया माम् इतः मुञ्चतु, अहं भवतः कापि हानिः न करिष्यामि इति।

साधुः तं दृष्ट्वा प्रथमं तु भीतः अभवत् परन्तु तस्य विनयभावं दृष्ट्वा साधोः मनसि दया उत्पन्ना।

सः पञ्जरस्य द्वारम् उद्घाटितवान्। व्याघ्रः ततः बहिरागत्य अट्टहासं कृत्वा उक्तवान् भोः साधो। अहं बुभुक्षितः अस्मि। इदानीं भवन्तं हत्वा खादिष्यामि इति।

साधुः तदा अत्यन्तं भीतः दुःखितः चाभवत्।
सः साधुः अत्यन्तं स्थूलः आसीत् अतः सः धावितुम् अपि न शक्नोति स्म।

अतः सः शान्तस्वरेण भीतमनसा च उक्तवान् हे व्याघ्रमहाशय! कथयतु यदि कोऽपि कस्यापि उपकारं करोति तर्हि तस्य अपकारं कोऽपि करोति वा इति।

व्याघ्रः हसित्वा उक्तवान्  एवं यदि अहमपि दयाभावं दर्शयामि तर्हि मम उदरपूरणं कथं भविष्यति इति।

तदा साधुः पुनः भीतमनसा व्याघ्रं पृष्टवान् हे महाशय। तर्हि एकः अवसरः दीयताम्। अहं त्रीन् जनान् साक्षीरूपेण पृच्छामि, ते यथा कथयिष्यन्ति तदनुसारमेव भवान् कुर्यात् इति।

तदा व्याघ्रः तद् अङ्गीकृतवान् उक्तवान् च अस्तु तर्हि चलावः इत्युक्त्वा तौ द्वौ अपि साक्षीणाम् अन्वेषणाय गतवन्तौ।

प्रथमं तौ एकस्य जलाशयस्य समीपं गत्वा जलाशयं साधुः पृष्टवान् भोः महोदय! कथयतु यदि कोऽपि कस्यापि उपकारं करोति तर्हि तत् परिवर्ते सः तस्य अपकारं कर्तुं शक्नोति वा?

जलाशयः उक्तवान् हे साधो! मम जलेन मनुष्याः पक्षिणः जन्तवः च सर्वे उपकृताः भवन्ति परन्तु ते मम अपकारमेव कुर्वन्ति।
मनुष्याः मम जले अवकराणि मलमूत्रादीन् क्षिप्त्वा मम जलं दूषितं कारयन्ति इति।

तस्य वचनं श्रुत्वा साधुः निराशः सन् अश्वत्थवृक्षस्य समीपं गत्वा तं पृष्टवान् भोः महाशय! कथयतु, यदि कोऽपि कस्यापि उपकारं करोति तर्हि सः तस्य अपकारं कर्तुं शक्नोति वा?

अश्वत्थवृक्षः तदा उत्तरितवान् हे साधो! मम छायया जनाः उपकृताः भवन्ति चेदपि मम आदरं न कुर्वन्ति। मम पर्णानि शाखाः च छित्वा जनाः नयन्ति इति।

साधुः तदा इतोपि निराशः अभवत्। अन्ते च सः साधुः एकं शृगालं दृष्ट्वा तथैव प्रश्नं पृष्टवान्।
व्याघ्रः अपि तेन सह आसीत् एव।

शृगालः तत् सर्वं श्रुत्वा  उक्तवान् हे साधो! अहं तत् स्थानं न दृष्ट्वा किमपि वक्तुं न शक्नोमि इति।
अर्थात् यस्मिन् स्थाने व्याघ्रः बद्धः आसीत्।

तदा ते सर्वे तत्र गतवन्तः।
शृगालः तत्र गत्वा स्वीयचातुर्येण व्याघ्रं पृष्टवान् भोः! भवान् पञ्जरे कथम् आसीत् पुनः दर्शयतु इति।

व्याघ्रः तदा तद् दर्शयितुं पञ्जरे प्रविष्टवान्। तत्क्षणम् एव बहिष्ठात् शृगालः तस्य द्वारं पिधाय पुनः तं बद्धं कृतवान्।

शृगालस्य चातुर्येण पुनः व्याघ्रः बद्धः अभवत्।
साधुः तदा शृगालाय आशीर्वादान् प्रदाय चिन्तामुक्तः सन् ततः निर्गतवान्।
-प्रदीपः!

No comments:

Post a Comment