एकः हतभागः पुरुषः आसीत्।
सः विवाहं करोति चेत् तस्य पत्नी विवाहस्य अनन्तरे दिने म्रियते स्म।
एकैकं कृत्वा तेन षड् विवाहाः कृताः आसन्। परन्तु ताः सर्वाः अपि पत्न्यः मृताः अभवन्।
इदानीं तस्मै पुनः कन्यां दातुं कोऽपि वा सज्जः न भवति स्म।
दैवात् सः पुनः एकां विवाहिता-कन्यां प्राप्तवान् यस्याः अपि षड् विवाहाः अभवन्। परन्तु तस्याः अपि सर्वे पतयः मृताः अभवन्।
एतत् श्रुत्वा ग्रामस्य जनाः सर्वे आश्चर्यचकिताः अभवन्।
इदानीं तयोः विवाहः भवति चेत् पतिः मरिष्यति उत पत्नी इति तेषां सर्वेषां मनसि महती चिन्ता आसीत्।
परन्तु विवाहः तु तयोः अभवत्।
परेद्युः प्रातःकाले ग्रामस्य सर्वे जनाः तस्य गृहम् आगतवन्तः आसन्।
कुतूहलेन सर्वे तद् द्रष्टुं तस्य गृहस्य द्वारम् उद्घाटितवन्तः।
तत् पश्चात् किम् अभवत्, ते ग्रामवासिनः किं दृष्टवन्तः इति अस्य मासस्य पञ्चदशदिनेभ्यः परं श्रावयिष्यामि।
अधुना भवन्तः भवत्यश्च गृहे एव तिष्ठन्तु। अस्तु 😜🤣
-प्रदीपः!

No comments:
Post a Comment