Tuesday, April 21, 2020

New year greeting -Sanskrit poem

नववर्षशुभेच्छा
************
(१)
वृक्षाणां नवयौवनेन ललितैः पत्रैर्नवै रक्तभैः
पुष्पाणां कमनीयसौरभगुणै श्चित्रस्वरूपैरहो।
आम्राणां चलनैश्चलन्मलयजैर्वासन्तकण्ठस्वनैः
शैलाश्वाम्बरनेत्रसंयुततम ! प्रीत्या तव स्वागतम्।।
(२)
वर्षं नवीनं भवतात् सुभद्रं
             लोकाः समस्ताः सुखिनो भवन्तु।
न भारते भातु भयं च रोगो
                 ददातु शक्तिर्नववत्सरोयम्।।
(३)
हे हिन्दूनववत्सर ! क्षितितले रोगोधुना नृत्यति
लोका भीतिविकम्पितास्तु दृढतां त्यजन्ति नो मुक्तये।
त्वत्स्पर्शात् सकला भवन्तु मुदिता देशात् करोनाभयं
यातु त्वं सुखसंपदः पुनररं यच्छ  स्वरूपत्विषा।।
                  (व्रजकिशोरः)

No comments:

Post a Comment