Friday, March 27, 2020

Listening to you rmother will get this gift - Sanskrit joke

एकः पञ्चपुत्राणां पिता आपणात् एकं क्रीडनकं क्रीत्वा गृहम् आनीतवान्। 

एकं क्रीडनकं दृष्ट्वा ते सर्वे अपि पुत्राः मह्यं ददातु मह्यं ददातु इति कृत्वा तेषां पितरम् उक्तवन्तः आसन्। 

एकमेव क्रीडनकम् अस्ति, कस्मै दातव्यम् इति विचिन्त्य सः पिता तान् उक्तवान् - युष्माकं मध्ये यः सर्वाधिक-मातुराज्ञां पालयति तस्मै एतत् क्रीडनकं दास्यामि इति। 

तदा ते सर्वे पुत्राः परस्परं परामर्शं कृत्वा तेषां पितरम् उक्तवन्तः अस्तु पितः! अस्माकं कृते एतस्य क्रीडनकस्य नास्ति आवश्यकता। भवानेव भवतः पार्श्वे स्थापयतु एतत् क्रीडनकम् इति। 
*-प्रदीपः!*

No comments:

Post a Comment