Tuesday, March 10, 2020

Holi wishes - Sanskrit poem

होलिशुभेच्छा
***********
(१)
राधाराधं हृदयदयितं नन्दनन्दं विनिन्दम्
आनन्दान्धा बहु विदधते साधुतां बाधयित्वा।
प्राप्य प्रीतिं परमरसिको लिम्पति प्रेमदीप्तो
होलीचूर्णं ललितलपने पालयेन्नः स कृष्णः।।
(२)
प्रातः प्रीत्या सरसहृदया मानवा होलिकायां
कृष्णक्रीडां मनसि नितरां भावयित्वा विमुग्धाः।
चूर्णैस्तोयैः खलु बहुविधैश्चित्ररूपं विधृत्य
राधाकृष्णस्मरणसहिता रान्ति भव्यां शुभेच्छाम्।।
(व्रजकिशोरः)
  

No comments:

Post a Comment