केचन त्रयः बान्धवाः आसन्।
ते सर्वे अपि अत्यन्तं कृपणाः आसन्।
एकदा ते एकस्य साधोः प्रवचनं श्रोतुं एकां सभां गतवन्तः आसन्।
प्रवचनात् परं साधुः सभायाम् उपस्थितान् सर्वान् भवद्भिः सर्वैः सत्कार्यार्थं किञ्चिद्धनस्य दानं करणीयम् इति उक्तवान्।
साधोः वचनं श्रुत्वा ते कृपणाः अधीराः अभवन्। कथं वयं धनं दातुं शक्नुयाम इति।
तदा एकः साधुः हस्ते स्थालिकाम् आदाय जनानां पुरतः गत्वा धनयाचनम् आरब्धवान्।
सर्वे अपि तदा तेषां सामर्थ्यानुसारं दानं कुर्वन्तः आसन्।
परन्तु यदा सः साधुः स्थालिकां नीत्वा तेषां कृपणानां पुरतः आगतवान् आसीत् तदा तेषु एकः अधीरः सन् मूर्च्छितः अभवत्।
तदा तस्य किम् अभवत् किम् अभवत् इत्युक्त्वा अपरौ दौ कृपणौ तम् उत्थाप्य ततः निर्गतवान्तौ।
सभायां स्थिताः सर्वे आश्चर्यचकिताः अभवन्। तस्य महान् रोगः अभवत् इति ते चिन्तयन्तः आसन्।
किन्तु सभायाः बहिः आगत्य सः आरोग्यः अभवत्।
ते परस्परं चर्चां कृतवन्तः यद् भगवान् एव अस्मान् रक्षितवान् अन्यथा तु अद्य अस्माकं धनव्ययम् अभविष्यत्। 😄
*-प्रदीपः!*
No comments:
Post a Comment