Friday, February 28, 2020

MANN KI BHAAT IN SANSKRIT 3-.02.2020


मान्याः!
नमोनमः | 'मनोगतम्-०२.०९' [मन की बात] इत्यस्य पठन-प्रकाशन-प्रचारार्थं सञ्चिका-चतुष्टयं [संस्कृतम्-words+pdf+श्रव्य+हिन्दी(words)] अत्रभवतां सौविध्यार्थं सम्प्रेष्यते | सादरम् ... बलदेवानन्द-सागरः 
+91-9810562277

'मनोगतम्'[०२.०]प्रसारण-तिथि: - -फरवरी, २०२०

[भाषान्तरं –सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-गवीश-द्विवेदिभ्यां सम्भूयबलदेवानन्द-सागर-द्वारा]

मम प्रियाः देशवासिनः, इदं मम सौभाग्यं यत् 'मनकीबात'-'मनोगतम्' इत्यस्य माध्यमेन अहं कच्छतः कोहिमा-पर्यन्तं, कश्मीरतः कन्याकुमारीं यावत्, अशेष-देशस्य सर्वेभ्यः नागरिकेभ्यः पुनरेकवारं नमस्कर्तुम् अवसरं लब्धवान् | भवद्भ्यः सर्वेभ्यः नमस्कारः|

 अस्मदीय-देशस्य विशालतायैविविधतायै च प्रणामाः विलसन्तुतराम्, नूनं प्रत्येकमपि भारतीयः अनयोश्च स्मरणं कृत्वा र्वान्वितो वति | तथा च, अस्याः विविधतायाः अनुभवावसरस्तु सदैव जनम् अभिभूतं करोति, आनन्द-सन्दोहेन आप्लावयति, अन्यतम-प्रकारेण चायम्, प्रेरणा-पुष्प-रूपः अस्ति | कतिपय-दिनेभ्यः प्राक्, अहं दिल्ल्याः हुनर-हाट्-इति कलाविपण्यां लघुनि स्थले, अस्मदीय-देशस्य विशालतायाः, संस्कृतेः, परम्पराणां, पानाशनयोः हार्दिक-भावानां च विविधतानां दर्शनम्अकरवम् | पारम्परिक-स्त्राणि, हस्तशिल्पानि, कालीन- इति कटाः, भाण्डानि, वेत्राणां पित्तलानां च उत्पादाः, ञ्जाबस्य 'फुलकारी'ति वस्त्रोपरि अभिरूप-कार्याणि, न्ध्रप्रदेशस्य श्रेष्ठं चर्म-कार्यम्, तमिलनाडोः मनोरमाणि चित्र-कर्माणि, उत्तर-प्रदेशस्य पित्तलोत्पादाः, भदोही-त्यस्य(Bhadohi) कुथाः, कच्छस्य ताम्रोत्पादाः, अनेकानि ङ्गी-वाद्यन्त्राणि, असङ्ख्यानि वृत्तानि, अशेष-भारतस्य कलायाः संस्कृतेश्च परिदृश्यम्, सत्यमेव, अद्भुतमेवासीत्, तथा च, एतेषां पृष्ठ-भूमौ, शिल्पकाराणां साधना, निष्ठा, स्वीय-कलां प्रतिप्रेम्णः कथाः अपि, अतितरां प्रेरणादायिन्यः भवन्ति| हुनर-हाट्-इति कला-विपण्याम् एकस्याः दिव्यांग-महिलायाः वृत्तानि श्रुत्वा बहु न्तोषम् अन्वभवम् | सा माम् अकथयत् यत् सा पूर्वं पाद-मार्गोपरि स्वीय-चित्र-कर्माणि विक्रीणाति स्म | परञ्च कलाविपण्या साकं सम्पर्कानन्तरं तस्याः जीवनमेव परिवर्तितम् | अद्य सा न केवलम् त्मनिर्भरा, परञ्च स्वकीयं गृहमेकमपि क्रीतवती | सा अकथयत् यत् कलाविपण्यां अहम् अपरानपि बहून् शिल्पकारान् अमिलम्, तैः साकं सम्भाषणावसरमपि प्राप्तवती | अहमत्र सूचिता यत् कलाविपण्याः सहभागिषुकलाकारेषु प्रतिशतं पञ्चाशदधिकाःमहिलाः सन्ति | तथा च, विगते वर्षत्रये कलाविपणीनां माध्यमेन, प्रायेण त्रिलक्षं कलाकाराः, शिल्पकाराः च अनेकविधान् वृत्तितावसरान् अवाप्नुवन् | कलाविपणीनाम, कलानां प्रदर्शनार्थं अन्यतम-मञ्चरूपेण तु अस्त्येव, युगपदेव, एषा, जनानां स्वप्नान् अपि पिच्छ-युतान् विदधाति | कं स्थलमस्ति तादृशं यत्र अस्य देशस्य विविधताम् उपेक्षितुंअसम्भवमेव | शिल्पकलातु अस्त्येव, युगपदेव, पानाशनयोः अस्मदीया विविधतापि अस्ति | तत्र एकस्यामेव पङ्क्तौ इडलीडोसा-छोलेभटूरे-दालबाटी-खमखांडवी-ति नजाने, किं किं आसीत्? अहं, स्वयमपि तत्र बिहारस्य स्वादिष्टस्य लिट्टीचोखा-व्यञ्जनस्य आनन्दमादत्तवान्, अतितराम् आनन्दम् अन्वभवम् | भारतस्य प्रत्येकमपि खण्डेषु बहुशः एतादृश्यः मेलाः, प्रदर्शन्यः चायोज्यन्ते | भारतम् अवगन्तुम्, भारतम् अनुभवितुं, यदापि अवसरं लभ्येत, अवश्यं गन्तव्यम् | 'कंभारतम् –श्रेष्ठभारतम्', आकण्ठं जीवितुं, स्वर्णिमावसरोsयं भवति | भवन्तः न केवलं देशस्य कलाभिः संस्कृत्या च सम्पृक्ताः भविष्यन्ति, परञ्च देशस्य परिश्रम-शीलानां लाकाराणां, विशेषेण च, महिलानां समृद्धौ अपिभवन्तः स्वीयं योगदानं विधातुं शक्ष्यन्ति अवश्यं गच्छन्तु!

  ममप्रियाःदेशवासिनः! अस्माकंदेशस्यमहत्यःपरम्पराःसन्ति।अस्माकंपूर्वजैःयदस्मभ्यंदायरूपेणप्रदत्तमस्ति, याशिक्षादीक्षाचास्माभिःप्राप्तातस्यांजीवमात्रंप्रतिदयाभावः, प्रकृतिंचप्रतिअपरिमितःप्रेमभावः अनन्योsस्ति । एतानि सर्वाणि वृत्तानि, अस्माकं सांस्कृतिकं रिक्थं विद्यते |भारतस्यएतादृक्-परिवेशस्यआतिथ्यंगृहीतुंअखिल-विश्वतःभिन्न-भिन्न-प्रजातीनांपक्षिणःप्रतिवर्षंभारतम्आगच्छन्ति।भारतम् आवर्षम्अनेकासां प्रवासि-पक्षि-प्रजातीनांआवासःभवति।एतदपिसूच्यतेयत्पञ्च-शताधिक-प्रकारकाःपक्षिणःविविध-क्षेत्रेभ्यश्चात्रआगच्छन्ति।विगत-दिनेषुगाँन्धीनगरे'सी.ओ.पी.-त्रयोदश'-इतिसम्मेलने एतद्विषयकं सुबहु चिन्तनं, मननं, मन्थनंचजातं,भारतस्यप्रयासाश्चभूरिशःप्रशंसिताः।सखायः! एषःहिअस्माकंकृतेगर्वविषयःयद्भारतंआगामि-त्रि-वर्षपर्यन्तंप्रवासिपक्षिणांविषये'सी.ओ.पी.-सम्मेलन'स्यआध्यक्ष्यंनिर्वक्ष्यति ।एषःअवसरःकथंउपयोक्तुंशक्यतेइत्यस्य कृतेस्वीय-परामर्शान् अवश्यंप्रेषयन्तु।

'सी.ओ.पी.-सम्मेलन'-विषयिण्याःअस्याःचर्चायाःअवसरेममावधानंमेघालय-सम्बद्धाम् महत्त्वपूर्णां सूचनांप्रतिगतम् ।साम्प्रतमेवजैव-वैज्ञानिकैःमत्स्यानाम् एकाप्रजातिःअन्विष्टास्तियाकेवलंमेघालयेगुहासुएवप्राप्यते।आमान्यतेयत्एषःमीनःभूम्यन्तर्वर्ति-गुहासुनिवसन्तीषु जल-जीवानां प्रजातिसुबृहत्तमःअस्ति।एषःमीनःएतासुगहनासु अन्धकार-युतासु भूम्यन्तर्वर्ति-गुहासुवसति,यत्रप्रकाशःअपिकदाचिदैवप्रविशति।वैज्ञानिकाःअपिएतस्मिन्विषयेआश्चर्यान्विताःसन्तियत्कथंएतादृक्-बृहदाकारःमत्स्यःएतावद्-गहनासुगुहासुजीवन् सन्निवसति ।एतद्धिसुखदं वृत्तं यदस्मदीयं भारतं, विशेषेण च मेघालय-राज्यंकासाञ्चन अतीव-दुर्लभप्रजातीनांगृहमस्ति।इदं भारतस्यजैवविविधतायै नूतनमायामंप्रददाति।अस्माकंपरिवेशेएतादृशानिबहूनि आश्चर्याणिसन्ति यानिअधुनाऽपिअज्ञातानि।एतेषाम् आश्चर्याणाम्अन्वेषणार्थंउत्कटान्वेषण-प्रवृत्तिःआवश्यकी।

महती तमिल-कवयित्री अव्वैयार-महाभागा लिखितवती - ''कट्टतकेमांवुकल्लादरुउडगडवुकड्डतकमियन्अड़वाकल्लादरओलाआडू" इति।

अर्थात् यदपिवयंजानीमःतत्-मुष्टिपरिमितासिकतास्तिपरंयद्वयंनजानीमःतत्अखिल-ब्रह्माण्ड-सदृशमस्ति।एतद्देशस्यवैविध्यविषयेऽपिएतादृशमेवास्ति यत् यावन्तं वयं जानीयाम तत् अल्पमेव ।अस्माकंजैव-विविधतापिसमग्र-मानवतायाःकृतेअद्भुतकोशमिवास्ति, यो हि अस्माभिःसंकलनीयःसंरक्षणीयःअन्वेषणीयःच।

ममप्रियाणियुवमित्राणि! अद्यत्वेअस्माकंदेशस्यबालेषु, युवजनेषुचविज्ञानंप्रविधिंचप्रतिरुचिःसततंवर्धमानास्ति।अन्तरिक्षेउपग्रहाणांसकीर्तिमानंप्रक्षेपणं, नूतनाश्चकार्यक्रमाः प्रत्येकंभारतीयंगर्वेणपूरयन्ति।चन्द्रयान-द्वितीयस्यप्रक्षेपणकाले यदाऽहंबैगलूरु-नगरेआसम्,तदामयादृष्टंयत्तत्रउपस्थितानांबालानांउत्साहःदर्शनीयःआसीत्।तेनिद्रालवःनाऽसन्, पूर्णायामपि रात्रौजागृताःअवर्तन्त।तेषुविज्ञानं, प्रविधिं, नवाचारंचप्रतियादृशीउत्सुकतासीत्,सा तुअविस्मरणीया एव ।बालानां, यूनांचएनमुत्साहंअभिवर्धयितुं,तेषुवैज्ञानिकवृत्तिंचसम्वर्धयितुंएकाअन्याव्यवस्थाआरब्धास्ति।साम्प्रतं भवन्तःश्रीहरिकोटातःसञ्जायमानं रॉकेट्-प्रक्षेपणंपुरतः एवद्रष्टुंशक्नुवन्ति।सद्यःएवेदं सौविध्यं सर्वेषांकृतेउपपादितम् ।एकादर्शक-दीर्घा निर्मिताऽस्ति यस्यांजनानांदशसहस्रम् उपवेष्टुमर्हति।'इसरो'-इत्यस्य अन्तर्जालोपरिसंकेतितस्य सम्पर्कसूत्रस्यानुसारम् ऑन्-लाइन्-बुकिंग् -इति सद्यस्कम् आरक्षणमपि कर्तुं शक्यते ।अहंसूचितोऽस्मियत्केचनविद्यालयाःस्वीय-विद्यार्थिनः रॉकेट्-इति प्रक्षेप्य-यानस्य प्रक्षेपणंप्रदर्शयितुं तांश्चोत्प्रेरयितुं अत्रत्यं पर्यटनमपिआयोजयन्ति।अहंसर्वेषांविद्यालयानांप्रधानाचार्यान्शिक्षकांश्चनिवेदयामियत्तेआगामिनि क्रमे एतस्य सौविध्यस्य लाभंनूनं गृह्णन्तु।

सखायः! अहंभवद्भ्यः अपरमेकं रोमाञ्चकं वृत्तंसूचयितुमिच्छामि।अहं'नमो'-एप्[Namo App]इत्यत्र झारखण्डस्यधनबादवासिनःपारस-नाम्नः टिप्पणींपठितवान्।पारसःइच्छतियन्मया'इसरो'-संघटनस्य'युविका'कार्यक्रमस्यविषयेयुवजनाःसूचनीयाः ।युवजनान्विज्ञानेनसाकंयोजयितुं'युविका'इसरो-संघटनस्यबहुप्रशंसनीयः प्रयासः।एकोनविंशत्युत्तर-द्विसहस्रतमेवर्षेएषःकार्यक्रमःविद्यालयस्तरीय-विद्यार्थिनांकृतेआरब्धः।'युविका' अर्थात् 'युव-विज्ञानि-कार्यक्रमः'।एषःकार्यक्रमःअस्माकं'जयतु युवा, जयतु कृषकः, जयतुविज्ञानम्, जयतु अनुसन्धानम् -इत्यस्यअनुरूपोsस्ति।अस्मिन्कार्यक्रमेविद्यार्थिनःपरीक्षाऽनन्तरंअवकाश-कालेइसरो-संघटनस्यविभिन्न-केन्द्राणिगत्वाअन्तरिक्ष-प्रविधिं, अन्तरिक्ष-विज्ञानं, अन्तरिक्ष-प्रयुक्तिं च अवगच्छन्ति ।भवन्तःयदिज्ञातुमिच्छन्तियदेतत्प्रशिक्षणंकीदृशमस्ति, कियत्प्रकारकमस्ति, कियत् रोमाञ्चकं वास्ति?तर्हिएतस्यपूर्व-सहभागिनांअनुभवान्भवन्तः अवश्यमेवपठन्तु ।यदिभवन्तःस्वयमेवभागग्रहणेउत्सुकाःतर्हिइसरो-इत्यस्ययुविका-जालदेशोपरिस्वीयंपञ्जीकरणंकर्तुं शक्नुवन्ति ।ममयुव-सखायः! भवत्कृतेऽहंजालसंकेतंसूचयामि।लिखन्तु;  अद्यैवचअवश्यम् अन्वेषयन्तु। www.yuvika.isro.gov.in इति।अपिलिखितंवा?

 ममप्रियाःदेशवासिनः! अस्मिन्वर्षेजान्युआरि-मासे एकत्रिंशत्तमे दिनांकेलद्दाखस्यदर्शनीयाः उपत्यकाःएकस्याःऐतिहासिक-घटनायाःसाक्षिण्यः अभूवन् ।लेहस्यकुशोक-बाकुला-रिम्पोची-विमानपत्तनात्भारतीय-वायुसेनायाः'ए.एन्.द्वात्रिंशत्-विमानंयदाउड्डीतं तदा अभिनवः इतिहासः विरचितो जातः।अस्मिन्उड्डयने प्रतिशतंदशमितस्यभारतीयस्य जैवजेट्-इन्धनस्य मिश्रणं कृतमासीत् ।एषःहिप्रथमावसरःआसीद् यदाविमानस्यद्वयोःएवयन्त्रयोः एतद्-मिश्रणम् उपयुक्तम् । केवलमेतदेव नैव, लेहस्ययस्मात्विमानपत्तनात्एतेनविमानेनउड्डयनंविहितंतन्नकेवलंभारतस्य,अपितु विश्वस्यापिउच्चतमेषुविमानपत्तनेषुअन्यतममस्ति।अत्र वैशिष्ट्यमिदमेव यत् एतस्मिन्अभियानेप्रयुक्तंजैवजेट्-इन्धनं खाद्येतर-पादपानांतैलैःनिर्मितंयद्धि भारतस्यविविधैःआदिवासिक्षेत्रैःक्रीयते।एतादृशैःप्रयासैः नकेवलंकार्बन्-इति प्राङ्गारस्य उत्सर्जनंन्यूनतरंभविष्यति,अपि तुअपरिष्कृत-तैलस्यआयाते भारतस्यनिर्भरताअपिअल्पतरा भवितुमर्हति ।अमुना महता प्रयोगेणसम्बद्धान्सर्वान् अहं वर्धापयामि ।विशेषरूपेण'सी.एस्.आई.आर्.'-इत्यस्य देहरादूनस्य भारतीय-पैट्रोलियम्-संस्थानस्य च वैज्ञानिकाःप्रशंसार्हाःसन्तियैःजैव-इन्धनेनप्रविधिःसम्भावितः ।तेषांएषःप्रयासः'मेक् इन्इण्डिया' – इति कार्यक्रममपिसबलं समर्थञ्च करोति।

ममप्रिया: देशवासिन:, अस्माकंनवभारतम्इदानींपुरातनेनअभिगमेन चलितुंनास्तिसिद्धम्।विशेषरूपेणनवभारतस्यअस्माकंभगिन्य: मातरश्चअग्रेसृत्य समाह्वानानिस्वीकुर्वन्त्य: सन्तियेनसम्पूर्णेसमाजेसकारात्मक-परिवर्तनानिदृश्यन्ते।बिहारस्यपूर्णिया-जनपदस्यकथादेशवासिभ्य: प्रेरणाप्रदात्रीअस्ति‌।एतद्धितच्छेत्रंयत्दशकेभ्य: जलाप्लावस्थितिंसम्मुखीकरोति।एतस्यांस्थित्यां, अस्मिन्क्षेत्रेकृषे: अन्यार्जनसाधनानांवाएकत्रीकरणंकठिनंभवति‌।परम्एतादृशीषुस्थितिषुपूर्णियाजनपदस्यकतिपय-महिलाभि: पृथग्एक: मार्ग: चित:।सखायः! पूर्वम्अस्यक्षेत्रस्य महिलाःशहतूतवामलबरी- इत्यनयो: वृक्षयो: प्राप्त-कौशेय-कीटेभ्य: कोकून-इतिपदार्थंनिर्मान्तिस्मयस्यअत्यल्पंधनंता: प्राप्नुवन्तिस्म।यद्यपितस्यक्रेतार: कोकून-इतिपदार्थत: कौशेयसूत्रंनिर्मायप्रभूतम्अर्जयन्तिस्म।परमद्यपूर्णिया-जनपदस्यमहिलाभि: नूतनप्रकल्प: समारब्ध:।अथसमग्र-सङ्कल्पना-चित्रमेवपरिवर्तितम्।एताभि: महिलाभि: प्रशासनसहयोगेनमलबरी-इत्यस्योत्पादन-समूहा: विरचिता:।तदनन्तरंकोकूनत: कौशेयसूत्रनिर्माणंततश्चस्वयमेवकौशेय-सूत्रेभ्य: शाटिकानिर्माणंसमारब्धम्।एतत्ज्ञात्वाभवन्त: आश्चर्यचकिता: भविष्यन्तियत्पूर्वंयंकोकून-इतिपदार्थंविक्रीयता: अल्पंधनंप्राप्नुवन्तिस्म, सम्प्रतिताभि: निर्मिता: शाटिका: सहस्रश: रुप्यकेषुविक्रीयन्ते। "आदर्शजीविका-महिला-मलबर्युत्पादनसमूहस्य" भगिनीभि: य: उद्यम: कृत: तस्यपरिणामा: सम्प्रतिग्रामेष्वपिदृश्यन्ते।पूर्णिया-जनपदस्य बहूनांग्रामाणांकृषिका: इदानींनकेवलंशाटिका: सज्जीकारयन्तिअपितुबृहृन्मेलकेषुस्वीयापणानि प्रतिष्ठाप्य विक्रयणमपिकुर्वन्ति‌।एतत्एकम्उदाहरणंयत्अद्यतनानवमहिलाशक्ति: नवचिन्तनेनसहकथंनूतनलक्ष्याणिप्राप्नोति ।

  ममप्रिया: देशवासिन: ! अस्माकंदेशवासिनीनांमहिलानांकन्यानाञ्चउद्यमशीलता,तासांसाहसिकता च ननुगौरवाय एव ।आत्मानंपरित: नैकानिएतादृशानिउदाहरणानिभवन्तियै: ज्ञानंभवतियत्कथंकन्या: प्राचीनावरोधान्अतिक्रम्यनवशिखराणिप्राप्नुवन्ति।अहंभवद्भि: सहद्वादशवर्षीयाया: पुत्र्या:काम्या-कार्तिकेयन्-नामधेयाया: उपलब्धे: अवश्यंचर्चांकर्तुम्इच्छामि।काम्ययाकेवलंद्वादश्यांवयसिएवmount aconcagua इतिपर्वतशृङ्खलासमारूढा।एतत् दक्षिणामेरिकायांANDES -इतिपर्वतस्यसर्वोन्नतं शिखरम् अस्तियद्धि प्राय: सप्तसहस्र-मीटरपरिमितं उच्छ्रितं वर्तते ।प्रत्येकंभारतीयस्यमन:स्पर्शिनीइयंवार्ता, यदाअस्यमासस्यप्रारम्भेकाम्ययापर्वतशिखरमारुह्यसर्वप्रथमंतत्रस्माकीन: 'तिरङ्गा'-इतित्रिवार्णिकध्वज: उत्तोलित:।अहंसूचित: यत्देशायगौरवप्रदात्रीकाम्याएकस्मिन्नूतनेसङ्कल्पेअस्तियस्यनामास्ति "Mission-साहस" इति।अस्यान्तर्गतंसासर्वमहाद्वीपानांसर्वोन्नतशिखराणिआरोढुंप्रयतिष्यते।अस्मिन्अभियानेसाउत्तरदक्षिणध्रुवयो: ski-इतिहिमक्रीडामपिकर्तुम्इच्छति।अहंकाम्यायै "मिशन-साहस"-इत्यस्यकृतेशुभकामना: प्रकटयामि।

वस्तुत: काम्याया: उपलब्धि: सर्वान्सुस्वस्थान् स्थातुंप्रेरयति।अस्मिन्लघुवयसिकाम्यायानिशिखराणिप्राप्तवतीतत्रfitness इतिशारीरिकसौष्ठवस्यवर्ततेमहतीभूमिका।A nation that is fit will be a nation that is hit. अर्थात्य: देश: सर्वथासुस्थ: भवतिस: सर्वदाकीर्तिमान्‌भविष्यति।आगामि-मासा: तुसाहसिकक्रीडाभ्य: अपिउपयुक्ता: सन्ति।भारतस्यभौगोलिकताएवंप्रकारिकाअस्तियाअस्माकंदेशेसाहसिकक्रीडार्थंअस्मभ्यंनैकान्अवसरान्प्रददाति।एकत: यत्रउन्नताःपर्वता: सन्ति, तर्हि अपरत: सुदूरंयावत्विस्तृतामरुभूमि:।एकत: यत्रसघन-वनक्षेत्राणितर्हिअपरत: समुद्रस्यअसीमविस्तर:।अत: ममएतत्विशिष्टंनिवेदनमस्तियत्भवन्त: अपिस्वरुच्यनुसारंक्रियाकलापंचिन्वन्तु,स्वजीवनेसाहसिकतांचयोजयन्तु।जीवनेसाहसिकंतुकिमपिभवेद्एव!

 सखायः! द्वादश-वर्षीयाया: काम्याया: सफलतानन्तरंयदाभवन्त: पञ्चाधिकैकशतंवर्षीयाया: भागीरथी-अम्बाया: कथांश्रोष्यन्तितदाइतोsपि समधिकाः आश्चर्यचकिता: भविष्यन्ति।मित्राणि! यदिवयंजीवनेप्रगतिम्इच्छाम:, विकासम्इच्छाम: तर्हिआद्य: समय: भवतियत्अस्माकम्अन्तर्विद्यमान: विद्यार्थीकदापिनिर्जीव: नभवेत्।अस्माकंपञ्चाधिकैकशतंवर्षीयाभागीरथी-अम्बाअस्मभ्यम्एतदेवप्रेरयति।इदानींभवन्त: चिन्त्यमाना: स्यु: काएषाभागीरथी-अम्बा? भागीरथीअम्बाकेरलान्तर्गतेकोल्लम्-स्थानेनिवसति।शैशवावस्थायामेवतस्या: मातादिवङ्गतासीत्।अल्पीयसिवयसिविवाह: जात:, ततश्चपति: अपिदिवङ्गत:।परंभागीरथ्यम्बयास्वात्मविश्वास: नत्यक्त:, कर्मठतानपरित्यक्ता।दशवर्षीयाया: अवस्थाया: पूर्वमेवअनिच्छयाविद्यालय: त्यक्त:।पुन: पञ्चाधिकैकशतंवयसिविद्यालयीयम्अध्ययनंसमारब्धम्।अस्मिन्प्रौढवयसिभागीरथ्याअम्बयाचतुर्थस्तरीयापरीक्षाविलिखिता, साकाङ्क्षंपरिणामायअपिप्रतीक्षांकृतवती।सापरीक्षायांप्रतिशतं पञ्चसप्ततिमितान्अङ्कान्प्राप्तवती।अग्रेऽपिसापरीक्षा: लेखितुम्इच्छति।स्पष्टमेवभागीरथी-अम्बा-सदृशा: जना: अस्यदेशस्यशक्तित्वेनविराजन्ते, प्रेरणाया: स्रोतांसिविद्यन्ते।अहमद्यविशेषरूपेणभागीरथीम्अम्बांप्रणमामि।

मित्राणि! जीवनस्यविपरीतसमयेअस्माकंआत्मविश्वास: अस्माकम्इच्छाशक्तिश्चकामपिपरिस्थितिंपरिवर्तयितुंशक्नोति।सम्प्रतिएवमयासञ्चारमाध्यमेषुएकंवृत्तंपठितम्यदहंभवद्भि: सहचर्चयितुम्इच्छामि।एषाकथास्तिमुरादाबादस्यहमीरपुर- वास्तव्यस्यसलमानस्य।सलमान: जन्मनाएवदिव्याङ्ग: अस्ति।तस्यपादौअसहयोगिनौ।परमस्यांकठिनावस्थायाम्अपिपराजयंनैवस्व्यकरोत्।स्वकीयंकार्यम्आरब्धुंसङ्कल्पितवान्।सहैवएतदपिनिर्णीतवान्यत्अन्यदिव्याङ्गानाम्अपिसहायतांकरिष्यामीति ।तत: किम्? सलमानेनस्वीयेग्रामेएवपादत्राण-निर्माणंdetergent-इतिफेनकचूर्ण-निर्माणंच समारब्धम्।क्रमश: त्रिंशत्दिव्याङ्गा: कर्मणियोजिता: अभवन्।भवन्त: एवमपिविचारयन्तुयत्य: स्वयंचलितुम्अक्षम:,स: अन्येषांचलनेसौख्यप्रदात्रींपादरक्षांनिर्मातुंनिर्णीतवान्।विशिष्टमेतदपियत्सलमान: सहकर्मिणांप्रशिक्षणंस्वयमेवकृतवान्।इदानीम्एतेसर्वेमिलित्वानिर्माणम्अपिकुर्वन्तिनिर्मितानांचप्रचारात्मिकांविक्रयणव्यवस्थाम्अपिकल्पयन्ति।स्वीयपरिश्रमेणनकेवलंवृत्तय: सृष्टा: अपितुसमवाय: अपिलाभान्वित: कृत:।इदानीम्एतेसर्वेमिलित्वादिवसेपञ्चाशदधिकैकशतंयुगलपादरक्षा: निर्मान्ति।नएतेनअलं, सलमानेनअस्मिन्वर्षेइतोsपिशतंदिव्याङ्गेभ्य: वृत्तिं प्रदातुंसङ्कल्पितम्।अहम्एतेषांदृढेच्छाशक्तिंउद्यमशीलतांचनौमि।

एतादृशीएवसङ्कल्पशक्ति:, गुजरातस्यकच्छप्रदेशस्यअज़रक-ग्रामवासिभि: अपिप्रदर्शिता।एकाधिक-द्विसहस्रतमेवर्षेयदाविनाशकारि-भूकम्पानन्तरंसर्वेग्रामंत्यक्त्वागच्छन्त: आसन्तदाइस्माइल-खत्री-नामधेयेनग्रामेस्थित्वा "अज़रक-प्रिण्ट" इतिपारम्परिक-कला-संरक्षणायसङ्कल्पितम्।तदनन्तरंदर्शंदर्शंप्रकृतिवर्णनिर्मिताकलाएषा ‌सर्वेषांमनांसिआकृष्टवती,फलत: एष: सम्पूर्ण: ग्राम: हस्तशिल्पकला-सम्बद्धयापारम्परिक-विधयासहसंयुक्तोऽभवत्।ग्रामवासिभि: नकेवलंसहस्रवर्षप्राचीनाकलासंरक्षिताअपितु,अद्यतनया वस्त्राधानपद्धत्यापिसंयुक्तीकृता।इदानींप्रसिद्धा: वस्त्रनिर्मातार: परिधानकलाकारा:चापिअज़रकमुद्रणंप्रयोक्तुंप्रभवा:।ग्रामस्यश्रमयुतानांजनानांकारणेन'अज़रकप्रिण्ट'-इतिअद्यत्वेप्रसिद्धनामसञ्जातम्।विश्वस्यप्रमुखवस्त्रक्रेतार: अस्मैमुद्रणायरुचिमन्त: दृश्यन्ते।

मम प्रियाः देशवासिनः, नातिचिरं सम्पूर्णेsपि देशे महा-शिवरात्रि-पर्वआमानितम् | भगवतः शिवस्य मातुःपार्वत्याः चाशीर्वादः देशस्य चेतनां सततं जागृतां सन्धारयन् अस्ति | महाशिवरात्रि-पर्वणि भोले-बाबा-भगवतः आशीर्वादः भवत्सु सततं स्यात्, भवतां भवतीनाञ्च प्रत्येकमपि मनोकामनांपरेशः शिवः प्रपूरयेत्, भवन्तः ऊर्जावन्तः भवन्तु, स्वस्थाः स्युः, सुखिनो भवन्तु तथा च, देशस्य कृते स्वीयानि कर्तव्यानि परिपालयन्तो भवन्तु |

खायः, महाशिवरात्रि-पर्वणा साकमेव वसन्तर्तोःआभापि अनुदिनम् इतः परम् समधिकम् एधिता | आगामिषु दिनेषु होलिकोत्सवः अपि वर्तते, तदनुपदमेव गुड़ी-पड़वा अपि आगन्ता | नवरात्रि-पर्व अपि अमुना संयुक्तमेव भवति | रामनवमी-पर्व अपि आगन्ता | र्वाणि उत्सवाः च, अस्मदीये देशे सामाजिक-जीवनस्य अभिन्नाङ्गत्वेन प्रवर्तमानाः सन्ति | प्रत्येकमपि पर्वणः पृष्ठभूमौ कश्चन एतादृशः सामाजिक-न्देशः अन्तर्निहितोsस्ति यो न केवलं समाजं, कृत्स्नमपि देशम्, एकता-सूत्रेण बद्ध्वा, सन्धारयति|

होलिकोत्सवानन्तरं चैत्र-मासेशुक्ल-पक्षे प्रथमा-तिथितः भारतीयं नूतनं विक्रम-वर्षमपि आरभते | तदर्थमपि, भारतीय-नव-वर्षस्य कृतेsपि, अहं भवद्भ्यः अग्रिमाः शुभकामनाः व्याहरामि|

      मम प्रियाः देशवासिनः, आगामि-'मनोगतम्'- यावत्तु, मां प्रतिभाति, कदाचित् विद्यार्थिनःपरीक्षासु व्यापृताः भवितारः | येषां यासाञ्च परीक्षापूर्णा, ते आनन्द-मग्नाः भवेयुः | ये व्यापृताः सन्ति, ये आनन्दमग्नाः च वर्तन्ते, तेभ्योsपि ताभ्योsपि च, अनेकानेकाःशुभकामनाः व्याहरन्, गच्छन्तु,  आगामि-'मनोगतम्'-प्रसारणस्य कृते असंख्य-वृत्तानि आदाय पुनः मेलिष्यामः |

भूरिशः धन्यवादः| नमस्कारः!

ooo oooooo ooo

- [भाषान्तरंर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-गवीश-द्विवेदिभ्यां सम्भूयबलदेवानन्द-सागर-द्वारा]

अणुप्रैषः  - baldevanand.sagar@gmail.com 

दूरभाषः -   ९८१०५६२२७७

 

 

 

 

 


No comments:

Post a Comment