एका महिला वैद्यस्य समीपं गतवती।
वैद्यः तस्याः रोगस्य सर्वाण्यपि परीक्षणानि कृत्वा उक्तवान् भवत्याः शरीरे कोऽपि रोगः नास्ति।
केवलं भवत्या विश्रामं करणीयम् इति।
सा महिला पुनः वैद्यं पृष्टवती महाशय! भवान् मम जिह्वायाः परीक्षणं न कृतवान्?
अस्तु पश्यामि इत्युक्त्वा वैद्यः तस्याः जिह्वां दृष्ट्वा पुनः उक्तवान् भवत्याः जिह्वायाम् अपि रोगः तु न दृश्यते। परन्तु भवत्याः जिह्वायाः विश्रामस्य आवश्यकता अस्ति इति।
*-प्रदीपः!*
No comments:
Post a Comment