*ॐ नमो भगवते वासुदेवाय 🙏🌹🕉*
एकं शास्त्रं देवकीपुत्रगीतमेको
देवो देवकीपुत्र एव॥
एको मन्त्रस्तस्य नामानि यानि
कर्माप्येकं तस्य देवस्य सेवा॥
~~~~><~~~~~<०>~~~~~><~~~~
*एकं शास्त्रं तद् एव अस्ति यद् देवक्याः पुत्रेण गीतम् अस्ति ।एको देवो देवक्याः पुत्र एव॥ तस्य(देवक्याः पुत्रस्य) नामानि यानि सन्ति तानि एको मन्त्रः एव अस्ति। कर्म अपि एकं तस्य देवस्य सेवा॥*
■शब्दामृतम्■
१-एकं
》एकं विशालं नगरम् आसीत् ।
(एक बड़ा नगर था)
२-शास्त्रं
》शास्त्रं पठित्वा ज्ञानी भूयते।
(शास्त्र पढ़कर ज्ञानी हुआ जाता है)
३-देवकीपुत्रगीतम्
》देवकीपुत्रगीतं शास्त्रं पठ्यते मया।
(श्रीकृष्ण के द्वारा गाया शास्त्र मुझसे पढ़ा जाता है)
४-एको देवो(एकः देवः)
》तेन स्वप्ने एकः देवः दृष्टः ।
(उसके द्वारा स्वप्न में एक देव देखा गया)
५-देवकीपुत्र एव
》देवकीपुत्र एव नवनीतचौरः अस्ति ।
(श्रीकृष्ण ही माखनचोर हैं)
६-एको
》एको जनः पादाभ्यां हि क्वचित् गतवान्।
(एक लोग पैदल ही कहीं गये)
७-मन्त्रः
》मन्त्रः देवपूजनकाले पठनीयः भवति।
(मन्त्र देवपूजन के समय पढ़ना होता है)
८-तस्य
》तस्य अम्बा षड्वादने हि स्नातवती।
(उसकी माँ ने छः बजे ही स्नान किया)
९-देवस्य
》देवस्य दर्शनं भक्ताः कुर्वन्ति ।
(देवता का दर्शन भक्त करते हैं)
१०-सेवा
》सेवा आनन्ददा भवति-क्रियतां कार्यतां वा)
(सेवा आनन्द दायिनी होता है-की जाय या करायी जाय😊)
*जयतु संस्कृतम्॥ जयतु भारतम्॥*
No comments:
Post a Comment