ईश्वरपूजनंश्रुतिस्मृतिपुराणपठनंगीतसेवनंभवन्नाम्स्मरणं।
इतिभाग्यचतुष्टयंसदाभवतुमेतैर्विनायतःकालक्षेपणंवृथा॥१॥
भवताममैतत्पात्रंप्रदत्तअस्मिन्पृथिव्यांचित्ररङ्गभूमौ।
इतिनाटयतेयेनसम्यग्विदित्वानविद्यतेतस्यसुखंनदुःखम्॥२॥
निजकर्मवशादेवलभतेसुखदुःखेसुखंकदाचित्दुःखंप्रायशः।
अहंनकर्तासकरोतिसर्वंइतिनिश्चितधियःनसुखंनदुःखम्॥३॥
अभ्यासेननिगृहीतंमनसिवैराग्येणनिष्कास्यतेतृष्णा।
केवलाभ्यासंअसिधाराव्रतंकेवलम्वैराग्यंतुहृदयशोषणम्॥४॥
शरीरमाद्यंखलुधर्मसाधनंदेहारोग्यादधिकतरंभाग्यं।
नास्तिनराणांइतिसत्यमेवैतत्नायंआत्माबलहीनेनलभ्यते॥५॥
ऊर्ध्वमूलंअधश्शाखंसंसाराख्यंमहावृक्षंऊर्ध्वमूलंअधश्शाखंभगवत्कृपातरुरपि।
भगवन्नामसंकीर्तनपराभागवतपक्षिणःभक्तिरूपपर्णेषुलीनाअदन्तिआनन्दफलानि॥६॥
योनशृणोतिभगवत्क्थाःसएवबधिरःयोनपश्यतिभगवद्रूपंसएवअन्धः।
योनकीर्तयतिभगवन्नामसएवमूकःनकोऽपिभवतितथालोकव्यवहारेण॥७॥
स्वार्थमेवसर्वेकुर्वन्तिकार्यंपरार्थंइतियोमन्यतेसमूढः।
येबान्धवाहरन्तिसर्वंतेजन्तवःव्याघ्रादपिक्रूरतरोध्रुवम्॥८॥
गच्छतिकालःक्षीयतेआयुःईषणात्रयहृतंजीवितंजनानां।
अल्पशेषोकालःइतिकुरुमाचिन्तामाधवंभजमाऽस्तुकालस्यविपर्ययः॥९॥
यथामातास्वकर्मसुनिरताऽपिस्वपन्तंशिशुंसदास्मरत्येव।
तथाहृदयस्थितंईश्वरंस्मरन्यःव्यवहरतिसःकर्मभिर्नलिप्यते॥१०॥
शोभनंहृदयंअस्यइतिसुहृद्नप्रतिफलंप्रतीच्छतियः।
कस्मादपिहेतोःमैत्रींयःकुरुतेसनसुहृद्केवलंमित्रएव॥११॥
वेदवेद्यःएवपरमवैद्यःइतराभिषजःनिमित्तमात्रं।
चिकित्सांसफलंकरोतिईस्वरःपरन्तुभिषगेवसम्मान्यते॥१२॥
विद्यप्रियम्चदानेनवर्धतेस्वयंनतुधनं।
धनंदीयतांयथाशक्तिविद्यांप्रियम्तुसर्वदा॥१३॥
श्रवणमेवकार्यंसततंजनानांयद्यच्छृणोतिभवतितद्बीजं।
सत्संगपर्जन्यपोषितःयच्चकालक्रमेणभवतिमहावृक्षम्॥१४॥
योमूकवच्चरतिसदाजगतितस्यवाक्कलहोनभवतिकश्चित्।
प्रतिभाषणमेवअनर्थकारणंअतोतूष्णींभववादरतेषुमध्ये॥१५॥
कथयतिकिंचित्तेनबध्यतेनरःरसरुचिलोभात्तस्यपीड्यतेउदरं।
वचाहिम्सतिपरान्विप्रक्र्त्याअतजिह्वाएवशत्रुःप्रथमंनराणाम्॥१६॥
सर्वेषांमहिमासत्संगत्याएवनस्वतःशंकरस्यकण्ठाभरणःगरुडमपिनबिभ्यति।
प्रायेणबहिर्न्यस्ताउपानदपिधार्यतेभगवत्पादस्पर्शात्भक्तैःउपरिशिरसाम्॥१७॥
उपकारिणंप्रतिउदासीनेकुप्यतिभगवान्विशेषतः।
यःसज्जनंकरोतिदुःखितंतस्मैनसम्भवतिकल्याणपरंपरा॥१८॥
आधुनिकःआचारःएकएवयुवांस्वच्छन्दवृत्तिःसमयाचारोल्लङ्घनं।
सामाजिकतिरस्करणंसर्वथाचतैःपित्रोःउपदेशादेशावग्रहणंइति॥१९॥
ऐश्वर्यंचधनप्राप्तिःपूर्वजन्मकृतेनहियदितद्भाग्यंउतशापंतत्प्रयोगेनैवज्ञायते॥२०॥
दारिद्र्यंनतुतत्पापजातंयस्यतृत्प्तोचेत्यदिभगव्त्स्मृत्यैव।
लोभोपहतचेताःयदिस्यात्धनिकोऽपिसन्दरिद्रएवसः॥२१॥
मातृभावस्यनलिङ्गापेक्षायतःपिताऽपिदर्शयेत्तुल्यवात्सल्यं।
कुमातुःअत्यन्ताभावोनास्तिहृदयंहितन्निरूपणंनलिङम्॥२२॥
घतीयन्त्रेणउद्धृतम्सलिलंपात्रंहिअधोभागरहितं।
रज्जुरपिजीर्णंउद्दह्र्तावृद्धःयत्किंचिज्जलंप्राप्तंतददृष्टवशात्॥२३॥
यड्रुच्छयोपपन्नंदृश्यतेयत्समुद्भवंनतत्तथाकिंतुसर्वंईश्वरेच्छया।
मनुष्यःअल्पबुद्ध्यावदतिअहंकर्तेतिकार्यंयदिनसिद्ध्यतिक्षिपतिकर्तृत्वम्ईश्वरे॥२४॥
रेचातकमायाचस्वशरद्घनंकिंनजानासिनीरदाभं ?
पर्जन्येनकदाशाम्यतितृष्णाइतिघनश्यामएवजानाति॥२५॥
नाहंइच्छामिवेदितुंभव्यदिनवृत्तियल्लभ्यतेकर्मवशात्तदनुल्लङ्घनीयं।
एतत्प्रार्थ्यंतवचरणाविस्मृतिर्भवतुमेपदेपदेप्रदिशमार्गंप्रतिक्षणंभगवन्॥२६॥
कोधर्मःकोअधर्मःइतिकोजानातिधर्मश्चाधर्मश्चउभौअपिवेदमूलकं।
वेदवेद्येपरेपुंसिविहरतिपुरुषरूपेणसएवजानातिधर्मंचअधर्मंच॥२७॥
प्रार्थनाकदाऽपिननिष्फलंभवतिमुह्यन्तिअभिलाषाविष्कृतमतयः।
मनोरथमलभमानाःपूर्नविश्वासहीनाःअजानन्तःयच्छ्रेयःतदेवदास्यतिइति॥२८॥
सौलभ्यसौशील्यगुणवन्तःसन्तःमेरुरिवउन्नताऽपिमैत्र्याकरुणयाच।
सलिलमिवनिम्नगाःपुनन्तिभुवनंअहोभाग्यवन्तःखलुतदाश्रयप्राप्ताः॥२९॥
यद्यद्क्रियतेलिख्यतेस्मर्यतेमयातत्सर्वंत्वदर्पणंइत्येवमन्येऽहं।
तत्फलमपित्वत्संकल्पादेवइत्यतःनृसिम्हतवैवचरणौशरणंप्रपद्ये॥३०॥
No comments:
Post a Comment