हरिणः एकेन कूर्दनेन त्रयोदश-फुटपर्यन्तम् अग्रे गन्तुं शक्नोति।
तथैव व्याघ्रः एकेन कूर्दनेन द्वादश-फुटपर्यन्तम् अग्रे गन्तुं शक्नोति।
तौ युगपत् धावनं कुरुतः चेद् व्याघ्रः कदापि हरिणं ग्रहीतुं न शक्नोति।
परन्तु हरिणस्य एकः दोषः वर्तते यत् तस्य पृष्ठतः व्याघ्रः कियद् दूरम् अस्ति इति द्रष्टुं चेष्टां करोति।
अतः हरिणः इव दोषः अस्माभिः कदापि न करणीयः।
जीवने बहुधा दोषाः स्मृतयश्च भवन्ति एव सर्वेषाम्, परन्तु तत् पुनः स्मृत्वा चिन्तनं व्यर्थं भवति।
पुनः पुनः स्वदोषान् अस्मृत्वा अग्रिमेषु दिनेषु सम्यक् कार्यं करिष्यामि इति यः चिन्तयति सः एव बुद्धिमान्। एवं करोति चेत् सफलतामपि निश्चयेन प्राप्स्यति।
*-प्रदीपः!*
No comments:
Post a Comment