Tuesday, December 17, 2019

an Assam tale - Sanskrit story

*असमराज्यस्य इतिहासः!*

आहोमवंशस्य प्रथमः राजा आसीत् चुकाफा। 
जयध्वजसिंहस्य राजत्वकाले यवनानां सेनापतिः मीरजुमला १६६२ ख्रिष्टाब्दे असमराज्यस्योपरि आक्रमणं कृतवान् आसीत्। 

जयध्वजसिंहस्य राजत्वकाले एव १६६७ ख्रिष्टाब्दे आहोमसेनापतिः लाचित-बरफुकनः यवनानाम् अधीनतः गुवाहाटीं च पाण्डुनगरीम् उद्धरितवान्  आसीत्। 

तदनन्तरं पुनः च १६७१ ख्रिष्टाब्दे यवनैः सह लाचित-बरफुकनस्य नेतृत्वे शराइघाट इति नाम्नः एकं महद् युद्धम् अभवत्।

तस्मिन् युद्धे यवनाः पराजिताः अभवन् च ते असमराज्यं त्यक्त्वा गतवन्तः आसन्।
*-प्रदीपः!*

No comments:

Post a Comment