Thursday, October 24, 2019

Wife & husband conversationin sanskrit

पत्नीपत्योः संवादः!

एकस्मिन् प्रातःकाले!
सार्धषड्वादनम् अभवत्, गृहस्वामी स्वप्रकोष्ठे शयने एव आसीत्!

पत्नी- किं भोः, इदानीम् अपि निद्रां करोति, कति वादनम् अभवत् जानाति??

पतिः- हे भाग्यवति! किमर्थं कोलाहलं करोति, अद्य तु कार्यालयस्य विरामः अस्ति, अतः किञ्चित् अधिकं विश्रामं कुर्वन्नस्मि!

पत्नी- अहं प्रातःकाले पञ्चवादने उत्थाय कियत् कार्यं कृतवती, भवान् जानाति वा? किञ्चित् मां साहाय्यं कर्तुं तु पारयति!

पतिः- अस्तु चिन्ता न कार्या, अहं श्वः आरभ्य शीघ्रं शयनात् उत्थाय भवत्याः कार्ये साहाय्यं करिष्यामि!

अनन्तरे दिने सः पतिः प्रातःकाले चतुर्वादने उत्थाय हस्ते मुद्गरं गृहीत्वा टङ् टङ् शब्दं कर्तुम् आरब्धवान्! तत् श्रुत्वा तस्याः पत्नी कुपिता अभवत् शयनात् च उत्थाय आगत्य स्वपतिं वदति, किं भोः एतावत् शीघ्रं उत्थाय किं कार्यं करोति? पूर्वजन्मनि किं भवान् कुक्कुटः आसीत् खलु??

पतिः- हे भगवन्, किं करोम्यहम् अस्याः कृते??

No comments:

Post a Comment