एकः युवकः एकस्यां युवत्यां भृशं प्रीणाति स्म!
युवकः अभियन्ता आसीत् तदर्थं सा तस्मिन् न प्रीणाति स्म!
सा युवती उक्तवती- अहम् अभियन्तारं न प्रीणामि!
तदा सः अपि उक्तवान्- अस्तु अहं तु भवत्याः अधिकां श्रेष्ठां युवतीं विवाहं करिष्यामि इति!
तदनन्तरं तस्य युवकस्य एकया सुन्दर्या युवत्या सह विवाहः अभवत्!
तस्याः युवत्या अपि एकेन वैद्येन सह विवाहः अभवत्!
केभ्यश्चिद् मासेभ्यः पश्चात् सः अभियन्ता पत्न्याः सह द्विचक्रिकायन्त्रेण राष्ट्रीयमार्गे कुत्रचित् गच्छन् आसीत्!
सः शिरस्त्राणं धृत्वा एव आसीत्!
तस्य पुरतः एकं कारयानम् आगतम् आसीत्!
कारयानेन सह तस्य द्विचक्रिकायन्त्रेण च संघर्षम् अभवत्! परन्तु ते सर्वे अपि कथञ्चित् रक्षां प्राप्तवन्तः!
तदा झटिति अभियन्तुः पत्नी तस्मात् द्विचक्रिकायन्त्त्रात् अवतीर्य तं तस्याः पतिं ताडयितुं उद्युक्ता !
तदा कारयानात् अपि सा महिला अवतीर्य तयोः समीपम् आगत्य उक्तवती- किं भोः! भवती किमर्थम् एवम् आचरणं कुर्वती अस्ति इति!
तदा सा महिला उक्तवती! सः मम पतिः, अहं किमपि वा करोमि! सः द्विचक्रिकायन्त्रं चालयितुं न जानाति, अहं तं मारयामि , भवत्याः का अभवत्?
अहम् इदानीं कथञ्चित् रक्षां प्राप्तवती!
तदा सः अभियन्ता तां महिलां दृष्ट्वा ज्ञातवान् यत् सा एव मम प्रेमिका आसीत्! परन्तु सा मां न ज्ञातवती यतोहि अहं शिरस्त्राणं धृत्वा एव अस्मि अन्यथा इतोऽपि मम सम्मानं धुलिसात् अभविष्यत्!
अतः अस्माभिः सर्वैरपि आरक्षकेभ्यः रक्षां प्राप्त्यार्थम् अपि च सम्मानरक्षार्थं शिरस्त्राणं धारणीयम्!
*-प्रदीपः*
No comments:
Post a Comment