Thursday, October 17, 2019

Sanskrit joke

अस्यां सन्ध्याबेलायां किञ्चित्....

पतिः स्वपत्नीं उद्दिश्य अयि शृणोतु! अद्य गोल्ड् इति संस्थायाः धूमवर्तिकां पीत्वा एकस्य मृत्युः अभवत्! 
तत्पश्चात् तस्याः संस्थायाः स्वामी तस्य मृतकस्य परिवाराय कोटिद्वयं रूप्यकाणि दत्तवान्! 

पत्नी - तर्हि भवान् कस्याः संस्थायाः धूमवर्तिकां पिबति? 

पतिः- अहं तु न पिबामि एव! भवती एव मां निषेधितवती आसीत् अतः अहं बहु पूर्वं त्यक्तवान्! 😊

पत्नी- अहो! (शिरसि हस्तं स्थापयित्वा) भवता किं कृतम्!
भवान् पत्न्याः वार्तां शृणोति वा? 😡
भवतः कोटिद्वयं रूप्यकाणि गतानि इदानीम्!🤦‍♀
*-प्रदीपः*

No comments:

Post a Comment