Tuesday, October 29, 2019

Jeevato vaakya karanaat - Sanskrit sloka

'जीवतो वाक्यकरणात् क्षयाहे भूरिभोजनात्।
गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रता।।'
(देवीभागवत६/४/१५,अन्त्यकर्मश्राद्धप्रकाश,पृ०१७)              
🌟🌟🌟🌟🌟🌟🌟🌟🌟🌟
संस्कृतम्
मातुः पितुः च जीवनकाले हि तयोः आज्ञापालनं
मृत्युतिथौ प्रचुरं भोजनं कारणीयं गयायां च पिण्ड-
दानम् एतैः त्रिकार्यैः पुत्रस्य पुत्रता सफलीभवति ।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
हिन्दी
माता-पिता के जीवित रहते हुए उनकी आज्ञा मानना ,क्षयाह(मृत्युतिथि)पर पर्याप्त भोजन कराना तथा गया में पिण्डदान करना -इन तीन कार्यों से पुत्र की पुत्रता(पुत्र होना)सफल होती है।
🕉🕉🕉🕉🕉🕉🕉🕉🕉🕉
अभ्यासः
🌹सुतः पितरौ सर्वदा सेवेत ।
🌹पित्राभ्यम् उक्तं प्रत्येकं कथनं पालनीयं पुत्रेण ।
🌹कदापि तयोः अपमानं न कुर्यात् पुत्रः ।
🌹पित्रोः जीवनकालः सुखमयः कर्तव्यः ।
🌹प्रथमं पितृसुखं तदनन्तरं स्वसुखं चिन्तयतु पुत्रः ।

🌹पुत्रेण पित्रोः मृत्युतिथौ भोजायोजनं करणीयम् ।
🌹गयां गत्वा पिण्डदानमपि कर्तव्यम् ।
🌹एवं यः पुत्रः पितृसेवां करोति वस्तुतः सः पुत्रः हि
     पुत्रः अस्ति । नोचेत् कुपुत्रः हि ज्ञायते ।

No comments:

Post a Comment