Friday, September 13, 2019

Magic mirror which shows who remembers you most - Sanskrit story

महाभारतस्य एका कथा!

अर्जुनस्य पुत्रः अभिमन्युः! तस्य पत्नी उत्तरा!

एकदा तयोः गृहम् एकः महर्षिः आगतवान् आसीत्!

उत्तरा अतिथिसेवायाम् अत्यन्तं दक्षा निपुणा च!

सा महर्षेः यथाशक्यं सत्कारं कृतवती, अन्ते तस्मै भोजनम् अपि दत्तवती!

भोजनान्ते गमनसमये सः महर्षिः तस्यै उत्तरायै एकं दर्पणम् उपहाररूपेण दत्तवान्!

अयं दर्पणः साधारणदर्पणः न अपि तु विशिष्ट दर्पणः आसीत्!

अस्य दर्पणस्य वैशिष्ट्यम् अपि महर्षिः उत्तरां उक्तवान् पुत्रि! अस्मिन् दर्पणे तस्य मुखं दृश्यते यः भवतीम् अधिकं स्मरति, अपि च भवत्याः विषये चिन्तनं करोति!

महर्षेः वचनं श्रुत्वा अत्यन्तं संतुष्टा सा कुतूहलेन दर्पणस्य परिशीलनं कृतवती!

अहो आश्चर्यम्! तस्मिन् दर्पणे अभिमन्योः मुखं दृश्यते! इत्युक्ते अभिमन्युः एव उत्तरां स्मरति!
तस्याः आनन्दस्य सीमा नासीत्!

तावता एव भगवान् श्रीकृष्णः अपि तस्याः गृहं प्रविष्टवान्!

तदा उत्तरा भगवन्तं प्रणम्य दर्पणस्य वैशिष्ट्यम् उक्तवती!

तावता एव बहिर्गताः पाण्डवाः अपि उत्तराश्रीकृष्णयोः वार्तां श्रुत्वा उत्तरायाः गृहं ते सर्वे प्रविष्टवन्तः!

No comments:

Post a Comment