Monday, August 26, 2019

MANN KI BHAT IN SANSKRIT 25.08.2019

मान्याः!
नमोनमः | 'मनोगतम्-२.०३' [मन की बात] इत्यस्य पठन-प्रकाशन-प्रचारार्थं सञ्चिका-चतुष्टयं [संस्कृतम्-words+pdf+श्रव्य+हिन्दी(words)] अत्रभवतां सौविध्यार्थं सम्प्रेष्यते | सादरम् ... बलदेवानन्द-सागरः
 ...+91-9810562277

   'मनोगतम्.०३ [तृतीयः भागः]     

   'मनकीबात' (२.o)               प्रसारण-तिथि: - २५-०८-२०१९

  - भाषान्तर-कर्ता- बलदेवानन्द-सागरः

 

ममप्रियाः देशवासिनः, नमस्कारः| अस्माकं देशः, एतेषु दिनेषु, एकतः वर्षायाः आनन्दमनुभवति, अपरतश्च, हिंदुस्थानस्य प्रत्येकमपि कोणे केनचिदपि प्रकारेण, उत्सवाः मेलाश्च आयोज्यन्ते, दीपावलीं यावत्, र्वमिदम् एवमेवप्रलिष्यति, तथा च कदाचिदस्माकं पूर्वजाः,ऋतुचक्रम्, अर्थचक्रं समाजजीवनस्य च व्यवस्थाम्, कुशलतया एवंप्रकारेण प्रावर्तयन् यत् कस्यामपि परिस्थितौ,समाजःदाचिदपि नीरसतांनैवानुभवेत् | विगतेषु दिनेषु वयं अनेकान् उत्सवान् आयोजितवन्तः| गतदिने,सम्पूर्णेsपि हिन्दुस्थाने श्रीकृष्णजन्म-महोत्सवः परिकीर्तितः| कश्चन अपि कल्पयितुं किमु शक्नोति वा यत् कीदृशं व्यक्तित्वम् आसीदिति, सहस्राधिकेभ्यः वर्षेभ्योsपि, प्रत्येकमपि उत्सवः, वीनतामादाय समायाति, नूतनां प्रेरणामादाय आयाति, अभिवाम् ऊर्जामादाय प्राप्नोति, तथा च, सहस्राधिकेभ्यः वर्षेभ्योsपि प्राचीनं जीवनमेतादृशं, यत् तद् अद्यापि समस्यानां समाधानार्थम्, उदाहरणानि दातुं शक्नुयात्, प्रेरणां प्रदातुमर्हेत्, प्रत्येकमपि जनः, श्रीकृष्णस्य जीवनात्, वर्तमानस्य समस्यानां समाधानमन्वेष्टुं शक्नोति | सत्यपि एतावति सामर्थ्ये कदाचिदसौ महारासं रममाणः, कदाचित्गवां मध्ये अटन्, कदाचिच्च गोपबालकैः संक्रीडन्, कदाचिच्च वंशीं वादयन् विराजते स्म, न जाने कतिभिः विविधताभिः सम्भरितमासीत् तस्य व्यक्तित्वम्, अप्रतिम-सामर्थ्य-युतः सन्नपि, समाज-शक्तिं लोक-शक्तिञ्च प्रति सः समर्पितः, लोक-सङ्ग्राहकरूपेण, वीनानां कीर्तिमानानां प्रतिष्ठापकं तस्य व्यक्तित्वम्| मित्रता कीदृशी स्यात्, एवं जिज्ञासिते सति सुदाम्नः घटनां को नाम विस्मर्तुम् अर्हेत्, तथा च, युद्धभूमौ, सत्यपि एतावति महिम्नि, असौ सारथित्वं स्वीकृतवान्| दाचित् पर्वत-शिलोत्तोलनम्,  कदाचित्, भोजनस्य उच्छिष्ठ-पात्रकाणाम् उत्त्थापन-कार्यम्, अर्थात् प्रत्येकमपि वस्तुनि किमपि अभिनवत्वम् अनुभूयते, अत एव,  यदाहं,भवद्भिः सम्भाषमाणोsस्मि, तदा, ममावधानं मोहन-द्वयं प्रति याति | एकस्तु सुदर्शन-चक्रधारी मोहनः, अपरश्च चरखाधारी मोहनः| सुदर्शन-चक्रधारी मोहनः यमुना-तटं विहाय, गुर्जर-प्रदेशे समुद्रतटं प्रयातः, तत्र च द्वारिका-नगर्यां स्थितः, तथा च, समुद्रतटे समुत्पन्नः मोहनः, यमुना-टम् आगत्य, दिल्ल्यां, जीवनस्य अन्तिमं श्वसनम् अकरोत् | सुदर्शन-चक्रधारी मोहनः तदानीन्तनासु स्थितिष्वपि,सहस्राधिकेभ्यःवर्षेभ्योsपि प्राक्, युद्ध-परिहारार्थं, संघर्ष-निरसनार्थं च,निज- बुद्धेः, स्वीय-कर्तव्यस्य,निज-सामर्थ्यस्य, स्वीय-चिन्तस्य च पूर्णोपयोगम् अकरोत्, तथा च चरखाधारी मोहनः अपि स्वतन्त्रतावाप्तये अनन्यतमं तादृशं पन्थानम् चितवान्, मानवीय-मूल्यानां संरक्षणार्थं, व्यक्तित्वस्य मूलतत्वानि सामर्थ्ययुतानि स्युः – इत्येतदर्थं स्वतन्त्रता-संघर्षम् एतादृशं स्वरूपमदात्, तादृशमावर्तनम् अकरोत् यद्धि विश्वस्मिन्नपि विश्वे अनुपमं वर्तते, साम्प्रतमपि अनुपममेव | भवेन्नाम निःस्वार्थ-सेवायाः महत्वम्, आहोस्वित् ज्ञानस्य महत्वम्, उताहो जीवनस्य सर्वास्वपि उच्चावच-स्थितिषु सस्मितम् अग्रेसरणस्यवामहत्वं भवेत्, एतत्-सर्वं वयं, भगवतः श्रीकृष्णस्य सन्देशेभ्यः शिक्षितुं शक्नुमः, अतएवश्रीकृष्णस्तुजगद्-गुरुरूपेणापि सुख्यातः – "कृष्णं वन्दे जगद्गुरुम्" |

अद्य वयं यदाउत्सवानांर्चां कुर्मः, तदाभारतम् अपरस्य बृहत्तरस्य उत्सवस्य सन्नद्धतायां संलग्नम्, न केवलं भारते,  अशेष-जगति अपि विषयोsयं परिर्च्यते |

मम प्रियाः देशवासिनः, अहमत्र महात्मगान्धिनः सार्धशत-जयन्तीं सन्दर्भयामि | ऊनविंश-शताब्दे ऊनसप्तति-तमे वर्षे ओक्टोबरमासे द्वितीय-दिने पोरबन्दरे, समुद्रतट-समीपं स्थितं, यत् वयं साम्प्रतं कीर्ति-न्दिमिति वदामः, तत्र एकस्मिन् लघुगृहे नैकस्यजनस्य, अपितुएकस्य युगस्य जन्म अजायत, यद्धि, मानवेतिहासं नूतनावर्तनेन अलङ्कृतवत्, वीनानि कीर्तिमानानि स्थापितवत्| महात्म-गान्धिना साकं वृत्तमेकं सर्वदा संयुक्तमवर्तत, अन्यतमप्रकारेण तस्य जीवनस्य अभिन्नाङ्गत्वेन अवर्तत, तदासीत् - सेवा, सेवा-भावः, सेवां प्रति कर्तव्य-परायणता | तस्य पूर्णं जीवनं पश्येम चेत्,दक्षिणाफ्रीका-देशे तेषां समुदायानां जनान् असेवत ये हि जातीय-भेदभावं म्मुखीकुर्वन्ति स्म | तस्मिन् युगेतु नैतत् लघु वृत्तमासीत् | सः तान् कृषकान् असेवत यैः साकं चम्पारणे भेदेन व्यवह्रियते स्म, सः तान् निर्माणी-श्रमिकान् सेवितवान् येभ्यः नोचितं पारिश्रमिकं प्रदीयते स्म, सः निर्धनान्, निराश्रितान्, दुर्बलान्, क्षुधितान् चासेवत, एतादृशीं सेवाञ्च, स्वीय-जीवनस्य परमं कर्तव्यम् अमन्यत | कुष्ठ-रोग-विषयिण्यः कियत्यः भ्रान्तयोsवर्तन्त, तासां भ्रान्तीनाम् अपाकरणार्थम् असौस्वयं कुष्ठ-रोगिणः सेवते स्म, स्वजीवने, सेवामाध्यमेन, उदाहरणानि प्रस्तौति स्म | सेवा नाम न तेन ब्दैः विहिता – जीवनेsपि चरितार्थीकृता | त्येन साकं, गान्धिनः यावान् अभिन्नः सम्बन्धः आसीत्, सेवया सार्धमपि गान्धिनः तावानेव अनन्यः अभिन्नः च सम्बन्धःआसीत्| यस्य कस्यापि कृते, यदापि यत्रापि च, आवश्यकता अनुभूयते स्म, महात्मगान्धी सेवार्थं सर्वदैव उपस्थितः अवर्तत|सः न केवलं सेवा-विषयं सबलं ख्यापितवान्, अपि तु, अनया साकं सम्बद्धम् आत्म-सुखमपि सविशेषं निरदिशत् | सेवाशब्दस्य सार्थकता तु अस्मिन्नेव र्थे समाहितास्ति यत् सा सानन्दं अनुष्ठीयेत 'सेवा परमो धर्मः'| किन्तु, युगपदेव उत्कृष्टः आनन्दः, 'स्वान्त:सुखाय'- इत्यस्मिन् भावस्य अनुभूतिरपिसेवायामेव, अन्तर्निहितास्ति | एतत्तु वयं, बापू-चरणस्य जीवनात् सम्यक्तया अवगन्तुं शक्नुमः | महात्मगान्धी,  अगणित-भारतीयानां वाणी-रूपः तु अजायत एव, परन्तु,मानवमूल्यस्यमानव-गरिम्णश्च कृते,  अन्यतम-प्रकारेण, असौ, विश्ववाणी अवर्तत| महात्मगान्धिनः कृते, व्यक्तिः समाजश्च, मानवः मानवता चेत्येव एतत्सर्वमासीत्,| भवतु नाम, तत् अफ्रीका-देशे Phoenix-क्षेत्रं वा Tolstoy-क्षेत्रं, साबरमत्याश्रमः वा वर्धाश्रमः,  सर्वेष्वपि स्थानेषु, निज-मौलिक-रीत्या, समाजसम्वर्धनं तेन सर्वदा सबलं ख्यापितम्| ममेदं परमं सौभाग्यमासीत्, यदहं पूज्यमहात्मगान्धिना सम्बद्धानि बहूनि महत्वपूर्णानि स्थलानि गत्वा नमनावसरम् अलभे | वक्तुं शक्नोमि यत् गान्धि-बापूः, सेवा-भावेनङ्घटन-भावमपि सविशेषम् आमिनोति स्म | समाज-सेवा समाज-सम्वर्धनञ्च- तादृशी एषा भावनास्ति या अस्माभिः निजव्यावहारिक-जीवने स्वीकर्तव्या |यथार्थत्वेन, महात्मगान्धिनः कृते समर्प्यमाणोsयं समुचितः श्रद्धाञ्जलिः, यथार्थः कार्याञ्जलिः च वर्तते | एतादृशाः बहवोsवसराः आयान्ति, वयं सम्मिलामोsपि, परन्तु किं गान्धिनः सार्ध-शती एवमेव आगत्य व्यतीयात्, एतत् स्वीकुर्याम किमु?  न कथमपि, देशवासिनः! वयं सर्वे, आत्मानं पृच्छेम, चिन्तयेम, न्थनं कुर्याम, सामूहिकरूपेण च सम्वदेम|  वयं समाजस्य इतर-जनैः सम्भूय, सर्व-वर्गीयैः सम्मिल्य, सर्वायुष्मद्भिः मिलित्वा च भवतु नाम सः ग्रामः तन्नगरं वा, स्याद्वा  पुरुषः महिलावा,  सर्वैः सम्भूय, समाजस्य च कृते किं कुर्याम अन्यतम-नागरिकत्वेन,केन प्रकारेणाहं तेषु प्रयासेषु किं संयोजयेयम्| मम पक्षतः value addition-इति मूल्य-संयोजनं किं स्यात्?  तथा च, सामूहिकतायाः काचित् स्वीया एव शक्तिः भवति|  अस्याः समग्रायाः गान्धि-सार्ध-शती-जयन्त्याः कार्यक्रमेषु, सामूहिकतापि स्यात्, सेवापि च भवेत् | कथं न वयं मिलित्वा समग्रायाः वसतेः, निर्गच्छेम | यदि अस्माकं पादकन्दुक-क्रीडकानां वृन्दमस्ति, तर्हि वयं पाद-कन्दुक-क्रीडां तु खेलिष्यामः एव, युगपदेव गान्धिनः आदर्शानुरूपम् एकं द्वेवा सेवाकार्येsपि करिष्यामः | अस्मदीया महिला-गोष्ठी अस्ति |आधुनिकयुगस्यमहिला-गोष्ठ्याः यानि कार्याणि तानि कुर्वन्तः स्थास्यामः,  साकमेव,महिला-गोष्ठ्याःसर्वाः सख्यः मिलित्वा किमपि किमपि सेवाकार्यमपि सम्भूय करिष्यामः | बहु किमपि कर्तुं शक्नुमः |पुरातन-पुस्तकानि एकत्रीकुर्याम, निर्धनेभ्यः वितरेम, ज्ञानं च प्रसारयेम | दृढमहं मन्ये - कदाचित् त्रिंशदुत्तर-शत-कोटि-देशवासिनः, त्रिंशदुत्तर-शत-कोटि-कल्पनाः धारयन्ति, त्रिंशदुत्तर-शत-कोटि-मिताः उपक्रमाः भवितुमर्हन्ति | न काचिदपि सीमास्ति यत्किमपि मनसि समुद्भवेत् केवलं दिच्छा स्यात्, द्धेतुः भवेत्, द्भावः स्यात्, पूर्णसमर्पण-भावस्य च सेवा स्यात्, सापि –स्वान्तः सुखाय– एकस्यै अनन्यानन्दस्य अनुभूतये भवेत् |

मम प्रियाः देशवासिनः, तिपयेभ्यो मासेभ्यः प्रागहं,गुजरातस्य दांडी-स्थलम्  अगच्छम् | स्वाधीनतान्दोलने 'नमक-सत्याग्रहः'-दांडी- इति अतितरां महत्वपूर्णो हि आवर्तन-बिन्दुः | दांडी-स्थले,महात्मगान्धिने समर्पितम्त्याधुनिकं सङ्ग्रहालयमेकम् उदघाटयम् | भवतां कृते ममायम् दृढाग्रहः यत् भवन्तः अपि भविष्यति काले महात्मगान्धिना सम्बद्धस्य कस्यचन अन्यतम-स्थलस्य यात्राहेतोः अवश्यं प्रयान्तु | इदं हि किञ्चिदपि स्थानं भवितुमर्हति यथा पोरबन्दम्, वा साबरमत्याश्रमः, आहोस्वित् म्पारणम् वा वर्धाश्रमः, उताहो दिल्ल्यां महात्मगान्धिना सम्बद्धं स्थलं भवेत्, भवन्तो यदा एतादृंशि स्थलानि प्रयान्ति, यदा स्वीय-चित्राणि आदाय सामाजिक-सञ्चारमाध्यमेषु अवश्यं सम्विभाजयेयुः, येन इतरेsपि जनाः तेभ्यः प्रेरिताः भवेयुः, अपि च तैः चित्रैः साकं स्वीय-भावनाभिव्यक्तिकरं वाक्यद्वयं वा वाक्यचतुष्टयम् अपि लिखन्तु | भवतां मनसि समुत्त्थिताः भावाः, कस्याश्चन महत्याः साहित्यरचनायाः अपेक्षया, अधिकतराः शक्तिमन्तो भवितारः, तथा चैवमपि सम्भाव्यते यत् साम्प्रतिके काले, भवतां दृशौ, भवल्लेखनी-निरूपितं गान्धिनः रूपम्, कदाचिद् अधिकतरं प्रासङ्गिकमपि प्रतीयेत| आगम्यमाने काले बहूनां कार्यक्रमाणां, प्रतियोगितानां, स्पर्धानां, प्रदर्शनीनां चापि योजना विनिर्मितास्ति |  परन्तु सन्दर्भेsस्मिन् अन्यतरम् अतितरां रोचकं वृत्तं वर्तते यद्धि मया भवद्भिः सम्विभाजयितुं अभिलष्यते |Venice Biennale- इति अत्यन्तं प्रसिद्धः कलाकार्यक्रमः, यत्र अशेष-जगतः कलाकाराः समायान्ति | साम्प्रतिके क्रमे Venice Biennale-इत्यस्य भारतीय-मण्डपे गान्धि-महात्मनः स्मृति-सम्बद्धा अतितरां रुचिरा प्रदर्शनी आयोजिता |अस्यां हरिपुरा-समीक्षकाः विशेषेण रुचिपूर्णाः आसन् | भवन्तः स्मरन्तो भवेयुः यत् गुजरातस्य रिपुरा-नगरे कांग्रेस्-अधिवेशनम् अभवत् यत्र सुभाषचन्द्रबोस्-वर्यस्य अध्यक्ष-निर्वाचनस्य घटना इतिहासाभिलेख्या जाता | एतेषां कला-समीक्षकाणाम् अतितरां रम्यम् अतीतं वर्तते | कांग्रेस्-हरिपुराधिवेशनात् प्राक्, ऊनविंश-शतोत्तर-सप्तचत्वारिंशत्-अष्टचत्वारिंशत्तम-वर्षे महात्मगान्धी शांति-निकेतन-कलाभवनस्य तत्कालीनं प्राचार्यं नन्दलाल-बोस-महोदयम् आमन्त्रितवान् | गान्धिचरणः समीहते स्म यत् सः भारतवासिनां जीवनशैलीं कलामाध्यमेन प्रदर्शयेत्, तथा च, तद्विरचितानां कलाकृतीनां प्रदर्शनम् अधिवेशनावसरे भवेत् | अयं सः एव नन्दलाल-बोसः यस्य कलाकृतयः अस्माकं संविधानस्य शोभां संवर्धयन्ति | संविधानाय नूतनम् अभिज्ञानं प्रयच्छन्ति | तस्येयं कलासाधना संविधानेन साकमेव नन्दलालबोसमपि अमरताम् अनयत् | नन्दलाल- बोसः हरिपुरा-स्थलं परिवर्त्तिनां ग्रामाणां निरीक्षणं व्यदधात्, अन्ते च, ग्रामीणभारतस्य जीवन-प्रदर्शकाः कलापटाः तेन विरचिताः | आसाम् उत्कृष्ट-कलाकृतीनां चर्चा Venice-इत्यत्र प्रबला अजायत | पुनरेकवारं गान्धिनःसार्ध-शती-जयन्त्यवसरे शुभकामनाभिः साकं, प्रत्येकमपि हिन्दुस्थानीतः कञ्चनापि संकल्पम् दृढम् अपेक्षे| देशार्थं, समाजार्थं, कस्मैचन अपरस्मै वा किञ्चिदपि नूनं करणीयम् | अयमेव बापू-चरणस्य कृते सम्यक्, यथार्थः,प्रामाणिकश्च कार्याञ्जलिः भविता |

मातुः भारत्याः सुपुत्राः! भवन्तः स्मरन्तः स्युः यत् विगतेभ्यः कतिचन-वर्षेभ्यः वयं ओक्टोबर-मासस्य द्वितीय-दिनाङ्कात् प्राक् प्रायेण द्विसप्ताहं यावत् सम्पूर्णेsपि  देशे'स्वच्छता एव सेवा'-इत्यभियानं प्रचायामः | साम्प्रतिके क्रमे इदं सेप्टेम्बर-मासे एकादश-दिनाङ्कात् आरब्धा | अस्मिन्नवधौ वयं स्व-स्व-गृहेभ्यो निर्गत्य श्रमदान-माध्यमेन महात्मगान्धिने कार्याञ्जलिं प्रदास्यामः |गृहाणि स्युः वा वीथ्यः, मार्ग-चत्वराः भवन्तु वा प्रणालिकाः,  विद्यालय-महाविद्यालयेभ्यः आरभ्य र्वेष्वपि सार्वजनिक-स्थलेषु स्वच्छतायाः महाभियानं प्रचालनीयम् | साम्प्रतिकेक्रमे, प्लास्टिक-इति अभिघट्य-विषये विशेषावधानं प्रदेयम् | ओगस्ट-मासे पञ्चदश-दिनाङ्के रक्तदुर्गस्य प्राचीरात् मया उक्तं यत् येन उत्साहेन यया चोर्जया पाद-शतकोटि-देशवासिनः स्वच्छताभियानं प्रचालितवन्तः | अनावृते शौचकरणात् मुक्तिहेतोः कार्यमनुष्ठितम् | तथैव अस्माभिः सम्भूय Single use plastic- इत्येकलोपयु- ज्याभिघट्यस्य प्रयोगो निराकरणीयः |अस्याभियानस्य विषये समाजस्य र्वेष्वपि र्गेषु उत्साहोsस्ति |मम बहवो व्यापारिणः भ्रातरो भगिन्यश्च आपणेषु पट्टमेकं, प्रदर्श्य-पत्रमेकञ्च स्थापितवन्तः, यस्मिन् लिखितम् –ग्राहकः स्वीयं स्यूतं सहैव आदाय आगच्छेत् | एवं हि धनमपि रक्षिष्यते पर्यावरणरक्षायै च नैजं योगदानमपि कर्तुं शक्ष्यते | साम्प्रतिकेक्रमे ओक्टोबर-मासस्यद्वितीय-दिनाङ्के यदागान्धिचरणस्य सार्ध-शती-जयन्तीम् आयोजयिष्यामः, एतस्मिन्नवसरे वयं न केवलंतस्मै अनावृते शौचकरणात् मुक्तं भारतम्अर्पयिष्यामः, अपितु देशे अभिघट्य-विरुद्धं एकस्य  नवीनस्य जनान्दोलनस्य आधार-शिलां स्थापयिष्यामः |समाजस्य र्वान् अपि र्ग्यान्,  प्रत्येकमपि ग्रामोपनगर-पुरवासिनो निवेदयामि, करबद्धं च प्रार्थयामि यत् र्षेsस्मिन् गान्धिचरणस्य सार्ध-शती-जयन्तीम्,  अन्यतम-प्रकारेण अस्मदीयायाः भारत-मातुः कृते अभिघट्यावकरात् मुक्तिरूपेण आयोजयेम | ओक्टोबर-द्वितीय-दिनाङ्कं विशेषदिवस-रूपेण मन्यामहि | महात्मगान्धिजयन्ती-दिनम् विशेष-श्रमदानोत्सवः भवेत् | देशस्य र्वाः अपि नगरपालिकाः, नगरनिगमाः,जनपद-प्रशासनानि, ग्राम-पंचायतानि, र्वकारीयाः र्वकारेतरीयाः च व्यवस्थाः, प्रत्येकमपिनागरिकः,र्वाणि च सङ्घटनानिमया सानुरोधं विनिवेद्यन्ते यत् अभिघट्यावकराणां समाहरण-संग्रहयोः कृते समुचिता व्यवस्था स्यात् | नैगम-क्षेत्राणि अपि प्रार्थये यत् सर्वमपि अभिघट्यावकर-जातं यदा एकत्रीकृतं भवेत्, तदनु अस्योचित-निस्तारण-हेतोः तानिप्रयतेरन्, निस्तारणञ्च व्यवस्थापयेयुः | प्रयुक्त-वस्तु पुनःप्रयोगार्हं विधातुं शक्यते | एतद्-न्धनरूपेणापि निर्मातुं शक्यते | एवंप्रकारेण ऐषमः दीपावली-पर्व-पर्यन्तं वयम् अभिघट्यावकराणां सुरक्षितं निस्तारण-कार्यमपि पूर्णतां नेतुं शक्नुमः | केवलं संकल्पः अपेक्ष्यते | प्रेरणार्थम् तस्ततः अवलोकनस्य आवश्यकता नास्ति, गान्धि-चरणतः महत्तरा प्रेरणा का वा भवितुमर्हति?

मम प्रियाः देशवासिनः, अस्मदीयानि संस्कृत-सुभाषितानि अन्यतमप्रकारेण ज्ञान-त्नानि सन्ति |जीवने यत्किमपि वयम् अभिलषामः तत् तेभ्यः प्राप्तुं शक्यते | एतेषु दिनेषु मम म्पर्कः न्यूनीभूतः, किन्तु पूर्वं ममसम्पर्कः सुबहु आसीत् | अद्याहम् एकस्मात् संस्कृतसुभाषितात् बहुशः महत्वपूर्ण-वृत्तं स्प्रष्टुं वाञ्छामि, एतानि च शताब्देभ्यः पूर्वं लिखितानि वृत्तानि सन्ति, परञ्च साम्प्रतमपि,  एतेषां कियत् महत्वमस्ति? एकम् उत्तमं सुभाषितम् |सुभाषितेsस्मिन् च प्रोक्तम्

"पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् |मूढैः पाषाणखण्डेषु रत्नसंज्ञा प्रदीयते||"

अर्थात् पृथिव्यांजलम्, अन्नंसुभाषितं चेति त्रीणिरत्नानिसन्ति | मूर्खाः जनाः पाषणं रत्नेति वदन्ति | अस्मदीयायां संस्कृतौअन्नस्य महान्महिमा प्रवर्तते,एतावत्-पर्यन्तं यत् वयं अन्नस्य ज्ञानं विज्ञाने परिवर्तितवन्तः | अस्माकं सर्वेषां कृते न्तोलितं पोषकञ्च भोजनम् आवश्यकम् | विशेषतया च महिलानां नवजातशिशूनां कृते, यतो हि एताः एते चैव अस्मदीय-समाजस्य भविष्यतः आधारशिलात्वेन वर्तन्ते | 'पोषणाभियान' –स्यान्तर्गतं कृत्स्नेsपि देशे आधुनिकाभिः वैज्ञानिक-पद्धतिभिः पोषणं नान्दोलनं विधीयते | जनाः नवीनानां रुचिकराणां च युक्तीनां माध्यमेन कुपोषणं विरुध्य युध्यन्ति | दाचित् ममावधाने वृत्तमिदम् आनीतमासीत् | नाशिके 'मुट्ठीभर-धान्य'-इति मुष्टिकापूर्णं धान्यमिति बृहदेकम् आन्दोलनम् अभवत् | एतदन्तर्गतं शस्य-लवनावसरे आंगनवाड़ी-सेविकाः जनेभ्यः मुष्टिकापूर्णंधान्यम् एकत्रीकुर्वन्ति | अस्यान्नस्य उपयोगः, बालानां महिलानाञ्च कृते उष्ण-भोजन-निर्माणार्थं क्रियते | अस्मिन् अन्नप्रदाता एकतः जागरू-नागरिकत्वेन समाज-सेवको भवति |एतदनु सः अस्य ध्येयस्य कृते स्वयमपि समर्पितो भवति | अस्य आन्दोलनस्यासौ अन्यतम-रक्षकः भवति | वयं सर्वेsपि कुटुम्बेषु हिंदुस्थानस्य प्रत्येकमपि कोणेषु अन्नप्राशन-संस्कार-विषये श्रुतवन्तः |संस्कारोsयं तदानुष्ठीयते यदा प्रप्रथमं शिशवे घनः आहारः प्रारभ्यते|प्रवाहि-खाद्यं नैव, घन-खाद्यम् | गुजरात-राज्ये दशाधिक-द्विसहस्रतमे वर्षे चिन्तितं यत् कथन्न 'अन्नप्राशन-संस्कार'स्यावसरे बालेभ्यः उपहार-खाद्यं प्रदीयेत येन विषयेsस्मिन् जनान् जागरूकान् विधातुं शक्येत | प्रशस्तोsयं प्राथमिकोपायः यो हि यत्र कुत्रापि अङ्गीकर्तुं शक्यते | केषुचित् राज्येषु जनाः तिथिभोजनाभियानं प्रवर्तयन्ति | यदि कुटुम्बे जन्मदिनं भवेद् वा श्चन शुभदिवसोsस्ति, श्चन वा स्मृति-दिवसः स्यात्, तर्हि कौटुम्बिकाः, पौष्टिक-भोजनं, स्वादिष्ट-भोजनं च निर्मीय आंगनवाड़ी-केन्द्राणि प्रयान्ति, विद्यालयान् च गच्छन्ति, तथा च, परिवार-जनाः एव स्वयं बालेभ्यः परिवेषयन्ति, भोजयन्ति च | स्वीयानन्दमपि वितरन्ति, आनन्दश्च विवर्धते | सेवाभावस्य आनन्दभावस्य चाद्भुतमेलन-दृश्यं सञ्जायते | खायः, एतादृंशि बहूनि लघु-लघूनि वस्तूनि सन्ति, येषां माध्यमेन अस्मदीयोsयं देशः कुपोषणं विरुद्ध्य प्रभावितया योद्धुं शक्नोति| अद्य, जागरूकतायाः अभावेन, कुपोषणात् निर्धनोsपि, समृद्धोsपि- इतिद्विविधान्यपि कुटुम्बानि प्रभावितानि भवन्ति| सम्पूर्णेsपि देशे सेप्टेम्बर-मासः 'पोषणाभियान'-रूपेण आमन्स्यते | भवन्तः नूनम् अमुना आत्मानं संयोजयन्तु, सूचनाः आददतु, किञ्चित् नवीनं संयोजयन्तु | भवन्तोsपि योगदानं कुर्वन्तु |यदि भवान् एकमपि जनं कुपोषणात् मोचयति चेत् वयं देशं कुपोषणात् मोचयामः|

"अभिनन्दनं महोदय, मम नाम सृष्टिविद्या, अहं द्वितीय-वर्षस्य छात्रा | महोदय! मासेsस्मिन् द्वादशे दिनाङ्के अहं Bear Grylls-इत्यनेन साकं भवतः कथाभागम् अवलोकितवती, यस्मिन् भवान् अपि अवर्तत | महोदय! तं कथाभागम् अवलोक्य सुतरां सुखम् अन्वभवम् |सर्वप्रथमं तु इदं श्रुत्वा मह्यम् अरोचत यत् प्रकृतिं, वन्यजीवनं, पर्यावरणञ्च अवलम्ब्य,भवान् कियान् सुबहु कृतावधानः, तथा च, महोदय ! इदं मह्यम् अतितरां अरोचत यत् भवन्तं नूतन-रूपेण, साहसिक-भूमिकायां वयं दृष्टवन्तः | तर्हि महोदय, ज्ञातुमिच्छामि यत् भवान् अस्य कथाभागस्य अवसरे कीदृशम् अनुभूतवान्? तथा च, महोदय! अन्ते, अपरमेकं वृत्तं संयोजयितुं वाञ्छामि यत् भवतः आरोग्यस्तरम्, शारीरिक-योग्यताञ्च अवलोक्य मादृशाः युव-जनाः अतितरां प्रभाविताः, अत्यन्तञ्च प्रोत्साहिताः अभूवन्|"

सृष्टि-महोदये! भवत्याः दूरभाषाकारणायैधन्यवादः| भवतीमिव हरियाणा-राज्यस्य सोहना-तः श्रीके.के.पाण्डेयः, सूरतस्य ऐश्वर्या-शर्म-महोदया, अपरे चानेके जनाः Discovery Channel-इत्यत्र प्रदर्शितस्य 'Man vs. Wild'-इति कथाभाग-विषये जिज्ञासित- वन्तः | साम्प्रतिके क्रमे यदाहं 'मन की बात'-प्रसारणार्थं चिन्तयन्नासम्, तदा दृढतया विश्वस्तः आसं यत् एतद्विषयकाः बहवः प्रश्नाः भवितारः, तथाचैवमेव सम्वृत्तम्, अपि च, विगतेषु कतिपयेषु सप्ताहेषु यत्रापि अहं प्रयातः जनान् च मिलितः, तत्र 'Man vs. Wild'-इति कथाभागस्य चर्चा भूयते स्म |अमुना एकेनैव कथाभागेनाहं केवलं हिंदुस्थानस्य नैव, अशेष-जगतः युवभिः सम्पृक्तो जातः |  न मया कदाचित् विचारितं यत् युव-हृदयेषु ममैवंप्रकारेण एतावत् स्थानं भवितेति| न मया कदाचित् चिन्तितं यत् अस्माकं देशस्य जगतश्च युव-जनाः कियतीभिः विविधताभिः सम्भरितानि वस्तूनि प्रति अवदधति | नाहं कदाचिदपि कल्पितवान् यत् अशेष-जगतः युव-हृदयानि स्प्रष्टुं कदाचित् मम जीवनेsपि अवसरः सम्भविता| अन्यत् किं जायते? नातिचिरं विगते सप्ताहे भूटानं गतवान् | अहम् अवलोकितवान् यत् प्रधानमन्त्रिरूपेण यदाप्रभृति यत्रापि गमनावसरो लब्धः, न्ताराष्ट्रिययोगदिवस-कारणात् स्थितिःतादृशी संवृत्ता यत् जगति यस्य कस्यापि पार्श्वे प्रयामि, उपविशामि वा, तदा यः कश्चन अपि पञ्च-सप्त-मिनट्-पर्यन्तं योग-विषयिणीं प्रश्नोत्तरीं निश्चयेन मया साकं करोत्येव| कदाचिदेव जगतः कश्चन वरिष्ठः नेता भवेत् यो हि मया साकं योगविषयिणीं र्चां नैवाकरोत्, अयं च सम्पूर्णेsपि जगति मयानुभूतोsनुभवोsस्ति | परन्तु एतेषु दिनेषु नूतनः कश्चित् अनुभवः जायते |  यः कश्चन अपि मिलति, यत्रापि सम्भाषणस्य अवसरो लभ्यते, ते अरण्य-जीवनविषयिणींर्चां कुर्वन्ति,पर्यावरण-विषये च पृच्छन्ति |व्याघ्र-सिंह-जीव-सृष्टिप्रभृतयः, अहञ्च आश्चर्यमनुभवामि यत् जनानां रुचि-वैचित्र्यं कियत् महद् भवति |Discovery-दृश्यवाहिनीकार्यक्रममेनं पञ्चषष्ट्यधिक-शतं देशेषु तत्तद्-भाषासु प्रसारयितुं योजनां व्यदधात् | अद्य यदा पर्यावरणम्,Global Warming-इति जागतोष्णता, ऋतुपरिवर्तनञ्चेति विषयाः वैश्विकमन्थनस्य केन्द्रीभूताः सन्ति, आशासे यत् एवंविधे काले कार्यक्रमोsयं भारतस्य सन्देशं, भारतीयपरम्पराः,भारतस्य संस्कार- यात्रायां च प्रकृतिं प्रति सम्वेदनशीलता,एतेषु सर्वेषु वृत्तेषु विश्वं अवगमयितुं Discovery-दृश्यवाहिन्याः अयं कथाभागः भूयसीं सहायतां विधास्यति- इत्यस्ति मम दृढीयान् विश्वासः, तथा च, अस्मदीये भारते ऋतु-न्यायं स्वच्छ-पर्यावरणञ्च अभिलक्ष्य तद्-दिशि विहितोपायान् अवगन्तुं जनाः समीहन्ते | किन्तु एकमपरं रुचिकरं वृत्तमस्ति –केचन जनाः ससंकोचं माम् अवश्यं पृच्छन्ति यत् मोदि-महोदय! भवान् तु हिन्दीं भाषते स्म,Bear Grylls-वर्यस्तुहिन्दीं नैव जानाति, तर्हि एतावता वेगेन भवतोः मध्ये सम्वादः केन प्रकारेण जायते स्म? किमिदम् अनन्तरं सम्पादितम्? किं पौनःपुनिकं ध्वनि-दृश्याङ्कनं जातम्? किं सम्वृत्तमिति जनाः महत्या जिज्ञासया परिपृच्छन्ति | पश्यन्तु, नात्र किमपि रहस्यजातं वर्तते | अनेकेषां जनानां मनस्सु इमे प्रश्नाः सन्ति, तर्हि रहस्यमिदम् उद्घाटयामि एव |वस्तुतस्तु नैतत् किमपि रहस्यम् | यथार्थतस्तु Bear Grylls-वर्येण साकं सञ्जात-सम्भाषणे प्रविधेः महीयान् उपयोगो विहितः | यदाहं किमपि वदन्नासं, तदा सत्वरम् आङ्ग्ल-भाषायां युगपदेव अनुवादो जायते स्म | युगपदेव विश्लेषणं भवति स्म, तथा च Bear Grylls-वर्येणर्णे कं लघु वितन्तू- पकरणं धारितमासीत् | एवं हि अहन्तु हिन्दीभाषया वदन्नासं, परन्तु सः आङ्ग्लभाषां शृणोति स्म, एतस्मात् कारणात् म्वादः सुतरां सरलो जायते स्म, अयमेवास्ति – प्रविधेः चमत्कारः | अस्य प्रसारणस्य अनन्तरं जनानाम् अधिसंख्यं जिम्-कॉर्बेट्-राष्ट्रियोद्यान-विषये चर्चानिरतं दृष्टम् | भवन्तोsपि प्रकृत्या वन्य-जीवैश्च सम्बद्धानि स्थलानि अवलोकयितुं नूनं प्रयान्तु | मया पूर्वमपि प्रोक्तं, पुनश्च भवतो दृढतया कथयामि | निज-जीवनावधौ उत्तर-पूर्वम् अवश्यं गच्छन्तु | कियती अद्भुता प्रकृतिरस्ति तत्रत्या | भवन्तः पश्यन्तः एव स्थास्यन्ति | भवताम् आभ्यन्तरस्य विस्तरो भविता | ऑगस्ट-मासे पञ्चदशे दिनाङ्के रक्तदुर्गस्य प्राचीरात् अहं भवतः सर्वान् साग्रहं न्यवेदयम् यत् आगामिषु त्रिषु वर्षेषु, न्यूनातिन्यूनं पञ्चदश-स्थानानि, भारताभ्यन्तरं पञ्चदश-स्थानानि, तथा च, पूर्णरूपेण प्रतिशतं शतमिताय पर्यटनाय एव एतादृंशि पञ्चदश-स्थलानि नूनं गच्छन्तु, अवलोकयन्तु,  तेषाम् अध्ययनं कुर्वन्तु,  कुटुम्बं सहैव नीत्वा यान्तु,किञ्चित्-कालं तत्र यापयन्तु | विविधताभिः सम्भरितोsयं देशः, एताः विविधताः शिक्षकरूपेण, भवतामपि आभ्यन्तरं विविधताभिः सम्भरिष्यति | भवतां नैज-जीवनं विस्तृतिम् आपत्स्यते | भवतां चिन्तनं विस्तरिष्यति | मयि विश्वसन्तु – हिन्दुस्थानस्य आभ्यन्तरमेव एतादृंशिस्थानानि सन्ति, यतो भवन्तः नवीनां स्फूर्तिम्, नूतनोत्साहम्, अभिनवं मनोरथम्, नूत्नाञ्च प्रेरणामादाय प्रत्यागमिष्यन्ति,इदमपि सम्भाव्यते यत् केषुचित् स्थानेषु तु पौनःपुनिकं गमनस्य समीहा भवतामपि भविता, भवतां कौटुम्बिकाः अपि एवं समीहेरन् |

 मम प्रियाः देशवासिनः,भारते पर्यावरणस्य चिन्ता संरक्षण-विषयश्च स्वाभाविकतया निरीक्ष्येते | विगते मासे देशस्य व्याघ्र-गणना-विषयिणीं सूचनां प्रसारयितुं सौभाग्यम् अवाप्तवान् | किं भवन्तः जानन्ति यत् भारते कति व्याघ्राः सन्ति? भारते व्याघ्राणां संख्या सप्त-षष्ट्युत्तर-ऊनत्रिंशत्-शतमितास्ति | कतिपयेभ्यो वर्षेभ्यः प्राक् अस्याः अर्धमपि काठिन्येन अवर्तत | दशोत्तर-द्विसहस्रतमे वर्षे रशिया-देशेsaint Petersburg-स्थले व्याघ्राणां विषये Tiger summit-इति शिखर-सम्मेलनम् आयोजितम् | अस्मिन् व्याघ्राणां अपचीयमानां संख्यामभिलक्ष्य चिन्ता-प्रकटन-पुरस्सरं संकल्पितमासीत् | संकल्पोsयमासीत् यत् द्वाविंशोत्तर-द्विसहस्रतमवर्ष-पर्यन्तम् अशेष-जगति व्याघ्राणां संख्या द्विगुणी-कर्तव्येति | किन्तु एतदस्ति – अभिनवं भारतम्, वयं शीघ्रातिशीघ्रं लक्ष्य-पूर्तिं कुर्मः | ऊनविंशोत्तर-द्विसहस्रतमे वर्षे एव वयं व्याघ्राणाम्  अत्रत्यां संख्यां द्विगुणितां कृतवन्तः| भारते केवलं व्याघ्राणां संख्या एव नैव समेधिता, अपि तु,  संरक्षित-क्षेत्राणां सामुदायिक-परिहाराणां च संख्यापि एधिता | यदाहं व्याघ्राणां दत्तान्शं विमोचयन्नासं तदाहं गुजरातस्य गीर-सिंहानामपि स्मृतिमन्वभवम्| यदाहं गुजरातस्य मुख्यमन्त्रिणः दायित्वमावहम् तदा गीर-कानने सिंहानां वसतिः संकीर्णा जायते स्म | तेषां संख्या अल्पीभवति स्म |वयं गीर-कानने उत्तरोत्तरं बहुविधान् समुपायान् अनुष्ठितवन्तः | सप्तोत्तर-द्विसहस्रतमे वर्षे तत्र महिला-रक्षिकाः नियोजयितुं निर्णीतम् | पर्यटनं विवर्धयितुम् आधारिक-संरचना परिष्कृता | यदापि वयं प्रकृतेः वन्य-जीवानां च विषये ब्रूमः तदा केवलं संरक्षणस्य विषये एव विचारयामः | किन्तु साम्प्रतम् अस्माभिः संरक्षणात् अग्रेसृत्वा करुणा-विषयः परिशीलनीयः | अस्माकं शास्त्रेषु एतद्-विषयकं सुबहु समीचीनं मार्गदर्शनं विहितम् | शताब्देभ्यः प्राक् अस्माकं शास्त्राणि अस्मान् प्रावोचन् -

निर्वनो ध्यते व्याघ्रो,निर्व्याघ्रं छिद्यते वनम्|तस्माद् व्याघ्रो वनं रक्षेत्, वनं व्याघ्रं न पालयेत्||

अर्थात्, यदि वनंनैव भवति चेत् व्याघ्राः मनुष्य-वसतौ गन्तुं विवशीभवन्ति, यत्र ते व्यापाद्यन्ते | एवञ्च, यदि वने व्याघ्राः नैव भवन्ति चेत् मानवाः वनानि उत्पाट्य तानि प्रणाशयन्ति | अतः वस्तुतस्तु व्याघ्रः नं रक्षति, नं व्याघ्रम् कियता उत्तम-प्रकारेण विषयोsयं अस्माकं पूर्वजैः अवगमितः | अत एव अस्माभिः न केवलं स्वीयानां नानां, वनस्पतीनां, वन्यजीवानाञ्च केवलं संरक्षणमेव करणीयमवशिष्यते अपि तु, एतादृशः परिवेशोsपि परिकल्पनीयः येन ते समुचितरीत्या आत्मानं पोषयितुं संरक्षितुञ्च शक्नुयुः |

मम प्रियाः देशवासिनः, त्रिनवत्यधिकाष्टादश-शत-तमे वर्षे सेप्टेम्बर-मासे एकादश-दिनाङ्के स्वामिना विवेकानन्देन व्याहृतम् ऐतिहासिकाभिभाषणं को नाम विस्मर्तुम् अर्हति |  अशेष-विश्वस्य मानव-जातिं प्रेङ्खयितुं समर्थोsयं भारतस्य युवा संन्यासी,जगति भारतस्य तेजस्वि-अभिज्ञानं प्रदाय प्रत्यागतः | यदा दासीकृतं भारतं प्रति संसारः अतितरां विकृतभावेन अवलोकयति स्म, त्रिनवत्यधिकाष्टादश-शत-तमेवर्षेसेप्टेम्बर-मासेएकादश-दिनाङ्के तदा समुद्घोषिताः,स्वामिनाविवेकानन्देनसदृशानां महापुरुषाणां ब्दाःतंसंसारं भारतं प्रति अवलोकनस्य मन्तव्य-परिवर्तनार्थं विवशीकृतवन्तः | गच्छन्तु,स्वामी विवेकानन्दः यस्य भारतस्य रूपमवलोकि- तवान्, यच्च सामर्थ्यमवगतवान्, तच्च जीवितुं वयं प्रयतेम|अस्माकं आभ्यन्तरं वर्तते, सर्वम् अस्ति | आत्मविश्वासेन साकं प्रचलेम |मम प्रियाः देशवासिनः,  भवन्तः सर्वे स्मरन्तः स्युः यत्गस्टमासे ऊनत्रिंश-  त्तमं दिनं 'राष्ट्रखेलदिवस'-रूपेण आमान्यते | अवसरेsस्मिन् वयं अशेषदेशे 'FIT INDIA MOVEMENT' – इति सुस्वस्थ-भारताभियानं प्रवर्तयिष्यामः | स्वयमपि युक्ततया स्थेयम् | देशोsपि युक्तो विधेयः | प्रत्येकमपि आबाल-युव-वृद्ध-महिला-सहितेभ्यः अभियानमिदम् अतितरां रोचकं भविता, अपि चैतत् अस्मदीयं नैजं भविता |किन्तु अस्य सूक्ष्मता-विषयः न मयाद्य वर्णयिष्यते| गस्टमासस्य ऊनत्रिंशत्तमं दिनं प्रतीक्ष्यन्ताम् | स्वयमहं तद्दिने विस्तरेण विषयमेनं व्याख्यास्यामि, तथा च, भवतां संयोजनं विना न मनागपि स्थास्यामि | यतो हि अहं भवतः सुस्वस्थान् द्रष्टुं वाञ्छामि | सुस्वास्थ्य-हेतोः भवतः जागरूकान् कर्तुं समीहे, तथा च सुस्वस्थ-भारताभियानस्य कृते देशस्य च कृते वयं सम्भूय कानिचन क्ष्याणि अपि निर्धारतानि कुर्याम|

मम प्रियाः देशवासिनः, अहं भवतः प्रतीक्षे एतन्मासे ऊनत्रिंश-दिने fit India-इति सुस्वस्थं भारतमित्यत्र, सेप्टेम्बर-मासे च 'पोषणाभियाने'| विशेषेण आगामिनि मासे एकादशतः ओक्टोबरस्य द्वितीय-दिनं यावत् 'स्वच्छताभियाने'| ओक्टोबरस्य द्वितीय-दिने समग्रतया समर्पिताय अभिघट्यार्थम् |अभिघट्यात् मुक्तिमवाप्तुं वयं सर्वे गृहात्, गृहाच्च बहिः र्वत्र सम्पूर्ण-शक्त्या प्रयतिष्यामहे, अपि चावगच्छामि – एतानि सर्वाणि अभियानानि सामाजिक-सञ्चार-माध्यमेषु सावेगम् उपस्थापितानि भवितारः | गच्छन्तु, वीनोत्साहेन, नूतनेन संकल्पेन,अभिनव-क्त्या च सार्धमेव प्रचलेम |

मम प्रियाः देशवासिनः, अद्यतने 'मन की बात'-प्रसारणे एतावदेव | पुनः मेलिष्यामः |  अहं भवतां वृत्तानि परामर्शान् च प्रतीक्षे| गच्छन्तु, वयं सर्वे सम्भूय स्वाधीनतायाः कृते सर्वात्मना समर्पितानां स्वप्नान्वितं भारतं विरचयितुं, गान्धिनः स्वप्नानि साकारीकर्तुं प्रचलेम– 'स्वान्त:सुखाय' | आभ्यन्तरीणं आनन्दं सेवाभावेन प्रकटयन्तः प्रचलेम |

भूयान्सो धन्यवादाः|नमस्कारः|

*****

---     भाषान्तर-कर्ता -   डॉ.बलदेवानन्द-सागरः

दूरभाषः -   ९८१०५६२२७७

अणुप्रैषः  - baldevanand.sagar@gmail.com 

No comments:

Post a Comment