Friday, August 9, 2019

Listen dear son Narendra Modi - Sanskrit

श्रृणु वत्स नरेन्द्र दामोदर त्वं
कुरु सुष्ठु स्वपाठ्यक्रमं प्रथमः।
भव भारतभाग्यविरञ्चि सुत
अवशेषक्रिया तव हस्तगता ॥
त्वरितं न भवेद्यदि तर्हि सुत
तव जन्मनिरर्थक राष्ट्रकृते।
रघुनाथगृहं न भविष्यति चेत्
सुजनस्य महाविपदा परितः ॥
कुरु संतजनस्य हितं सततं
स्मर वैदिकधर्ममहो तनय! ।
यदि सत्यसनातनधर्मप्रति
रुचिरा रुचि स्यात्तव बुद्धिगते ॥
गरिमा भव हिन्दुजनस्य सदा
हरिशम्भुविरञ्चिकृपा शिरसि
तव भाग्यतले निवसेच्छुचिता
कविता अजितस्य भवेद्फलिता ॥
वचनं मम रक्ष सुत त्वमहो
जननी विनिवेदयति त्वधुना।
भव सिंहसमो रिपुणामुपरि
तरणी कलिकालयुगे भव त्वम् ॥
श्रृणु वत्स! भारतीयसंस्कृत्यायाः संरक्षणार्थं सर्वप्रथम शिक्षापद्धतेः समीचीनां व्यवस्थां कुर्वेति मम बलवती इच्छा।
किन्त्वं करिष्यसि न वा?

No comments:

Post a Comment