Thursday, August 8, 2019

I wish to become wife - Sanskrit joke

अध्यापिका:- हे छात्रा:, भवन्त: भविष्यत् काले कथं भवितुमिच्छन्ति इति  एकैक: अपि वदन्तु । प्रथमं मनोज: वदतु, तदनन्तरं रॆणुका। एवम् एवम् बालक:, बालिका इति पर्याय रीत्या।
मनोज् :- अहं एकस्या: बृहदुद्योगसंस्थाया: स्वामीभूत्वा, विभिन्नेषु नगरेशु  सौधान् निर्मीय, आज्ञानुवर्तीन् कर्मकर्तॄन् नियोज्य, कुटुम्बजनेभ्य: अमूल्य वस्त्राभरणानि क्रीत्वा,    स्वकीयं उत्तमानि कार्यानानि तथा विमानमेकं क्रीत्वा, प्रतिमासमपि विदेशराज्येषु उल्लसयात्रां कृत्वा....
अध्यापिका:- पर्याप्तम्। एवं दीर्घविवरणं सर्वं न आवश्यकम्। लघुना वदन्तु। अग्रे रेणुका वदतु।
रेणुका:_ अहं मनोजस्य पत्नी भवितुमिच्छामि।

No comments:

Post a Comment