Monday, July 1, 2019

Using only ukaaraas and writing a sanskrit sloka

।।श्रीमते रामानुजाय नमः।।

उरुगुं द्युगुरुं युत्सु चुकुशुस्तुष्टुवुः पुरु ।
लुलुभुः पुपुषुर्मुत्सु मुमुहुर्नु मुहुर्मुहुः ॥

      –सरस्वतीकण्ठाभरणम्

वैशिष्ट्यम् –

अयं श्लोकः उइत्येकमेव स्वरम् उपयुज्य रचितः अस्ति ।

इस पूरे श्लोक में केवल एक स्वर "उ" का ही प्रयोग हुआ है।

युद्धाय गताः देवाः बृहस्पतिं शरणं गताः यः वागधिपतिः, स्वर्गे देवानाम् आचार्यश्च । सः सन्तुष्टः बलिष्ठश्च तिष्ठतु, पौनःपुन्येन प्रज्ञाशून्यः मा भवतु इति धिया ते तम् प्रार्थयन् ।

स्वरचित्रेष्वेकादिक्रमेणोपन्यासो ग्रन्थवैचित्र्यार्थः । उरुगुं विस्तीर्णवाचम् । द्युगुरुं स्वर्वासिनामाचार्यम् । युत्सु युद्धार्थम् । 'निमित्तात्कर्मयोगे' इति सप्तमी । गीर्वाणभटाश्रुक्रुशुरार्ताः शरणं ययाचिरे । अत एव पुरु बहुधा तुष्टुवुः । युद्धप्रयोजनम्।

"The gods took refuge in Brihaspati, lord of speech, the preceptor of the gods in heaven, when they went for the battle. They prayed so that he would remain happy and strong, and not withdraw into unconsciousness, again and again."

       –रमेशप्रसाद शुक्ल

       –जय श्रीमन्नारायण।

No comments:

Post a Comment