हरिहराभेदः
१) भगवान् रामकृष्णः जगति विद्यमानान् मनुष्यान् त्रिधा विभज्यते स्म।
तन्मतेन पुरुषाः द्विविधाः। ज्ञानपरायणाः भक्तिपरायणाश्च। तन्मध्ये ज्ञानमार्गिणः शिवांशेनोत्पन्नाः भक्तिमार्गिणश्च विष्णोः। सर्वाः महिलाः शक्तेः अंशभूताः इति तस्य दृष्टिः।
यत्साङ्ख्यैः प्राप्यते स्थानं तत्सर्वयोगैरपि गम्यते इति भगवतोक्तं गीतायाम्। अतः ज्ञानमार्गिणां ज्ञानस्यान्तिमं पदं भक्तिमार्गिणश्च भक्तेः परा काष्ठा एतदुभयमपि एकस्मिन्नेव फले पर्यवस्यते। तेन हरिहराभेदः एकया रीत्या सिद्धः भवति।
२) पुराणेषु त्रिमूर्तिसिद्धान्ते उत्पत्तिस्थितिलयाः एकस्येव ईश्वरस्य जगच्चालकस्य कार्याणि। तेषां निर्वहणाय एक एव ईश्वरः ब्रह्म-विष्णु-शिवात्मकभेदेन त्रिधा भवति। एतेन द्वितीयप्रकारेण हरिहराभेदः सिध्यते।
३) अद्वैतवेदान्ते जगत् विवर्तरूपमिति प्रसिद्धम्।
तेन यत्किञ्च जगति तत्सर्वमध्यासात्मकम्। यावज्जगतः मनसि प्रतिष्ठा तावदेव जगत्कारणे ब्रह्मणि उत्पत्तिस्थितिलयात्मककार्याणि प्रतीयन्ते। ब्रह्मज्ञाने एतेषां लेशोपि न अवशिष्यते। तेन आब्रह्मज्ञानम् ईश्वरस्य तस्य कर्मणां चास्तित्वमिति सिद्धान्तः। ब्रह्म निर्विशेषं निर्गुणं च। तस्मिन् ईश्वरस्य बहुधा कल्पनं शक्यं न केवलं ब्रह्मविष्णुशिवात्मकं त्रिधा।
अतः
यो यो यां यां तनुं भक्तः (ईश्वरत्वेन) श्रद्धयार्चितुमिच्छति... इति गीतोक्तवचनानुसारेण यावदर्चकानां विशिष्टरूपेषु ब्रह्मेश्वरभावकल्पनं तावत् कुमारः,शक्तिः, सूर्यः गणपतिः एतानि प्रसिद्धरूपाणि अन्यानि च ईश्वरभावेन पूज्यमानानि समानानि एव।
एतेन पञ्चायतन-षडायतन-देवतानां अन्येषामपि यथारुचि कल्पितानाम् अभेदः ब्रह्मभावे। एतेन तृतीयप्रकारेण हरिहराभेदः सिद्धः।
---- अभिजित तोडकर
संस्कृतभारती।

No comments:
Post a Comment