Friday, June 28, 2019

Short story in Sanskrit

एकः ग्रामः आसीत्! 
तस्मिन् ग्रामे एकः धनिकः निवसति स्म!

सः महान् धनिकः, तस्य एकं सुन्दरं भवनम् आसीत्! तस्य पत्नी, पुत्राः, सेवकः च आसन्! 
कृषिभूमिः अपि आसीत्! 

तस्य सर्वमपि आसीत् चेदपि सः रात्रौ निद्रां एव कर्तुं न अशक्नोत्! 

एकदा सः स्वगृहे उपविष्टवान् आसीत्, चिन्तनं कुर्वन् आसीत्! तस्मिन्नपि दिने तस्य निद्रा न आगता! 

किमर्थम् एवं भवति इति तस्य मनसि महती चिन्ता उत्पन्ना!

तस्मिन्नेव समये सः दूरतः एकं गीतं शृणोति स्म! गीतं मधुरम् आसीत्!

कः एवं गायति इति सः न जानाति, तथापि सः पश्यामि इति चिन्तयित्वा गीतस्य ध्वनिं अनुसरन् अग्रे अग्रे गच्छति स्म!

तस्य गृहस्य समीपे एव एकं कुटीरं पश्यति स्म! तस्मिन् कुटीरे कश्चन निर्धनः आसीत्!

सः तत्र शयनं कृत्वा भित्तिम् आलम्ब्य उच्चैः गायन् आसीत्!
सन्तोषेण सः गायति स्म!

तद्दृष्ट्वा धनिकस्य महद् आश्चर्यम् अभवत्! 
अतः स धनिकः निर्धनं पृष्टवान्! भो मित्र! भवान् एतावता आनन्देन गायन्नस्ति , भवतः आनन्दस्य कारणं किम् इति! 

तदा निर्धनः हे महाशय  मम समीपे धनं किमपि नास्ति सत्यम्, एतद् अहं जानामि! किन्तु अहं बहिः पश्यामि, प्रकृतिं पश्यामि, इदानीं प्रकृतिः कथं शोभते! वसन्तकालः अस्ति, सर्वत्र पुष्पाणि विकसन्ति मधुमक्षिकाः, भ्रमराः च सञ्चारं कुर्वन्ति, तदेव अहं पश्यामि इति! 

भवान् किं करोति इति निर्धनः धनिकं पृष्टवान्! 

मम तु सर्वम् अस्ति परन्तु तथापि मम निद्रा न आगता इति धनिकः उत्तरं कथितवान्!

मम समीपे तत् नास्ति, एतत् नास्ति, यद्यपि भवतः समीपे बहु अस्ति तथापि भवान् यत् नास्ति तस्य विषये एव चिन्तनं करोति अतः दुःखम् अनुभवति! अहं तु यद् अस्ति तस्य विषये एव चिन्तनं करोमि, अतः अहं सुखम् अनुभवामि इति निर्धनः वदति स्म!

तस्य निर्धनस्य वचनं श्रुत्वा धनिकस्य ज्ञानोदयः अभवत्!

सत्यमेव खलु!

वयं सर्वदा अपि यद् अस्ति तस्य विषये यदि चिन्तनं कुर्मः चेत् सुखम् अनुभवामः एव इति!!
*-प्रदीपः*

No comments:

Post a Comment