Friday, June 28, 2019

Sanskrit subhashitam

सुभाषितम्!!
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति!
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम्!!

श्लोकस्य अर्थः एवमस्ति...
अस्मिन् सुभाषिते प्रीतिलक्षणं किम् इति वर्णितमस्ति! 
यदि कस्यचित् जनस्य अन्यस्य विषये प्रीतिः भवति तर्हि सः कथं व्यवहरति इत्युक्ते सः ददाति! तस्मै किमपि ददाति! 
प्रतिगृह्णाति इत्युक्ते तस्मात् किमपि स्वीकरोति च! 
एवमेव गुह्यमाख्याति इत्युक्ते स्वरहस्यं यद् अस्ति तद् तं जनं उद्यिश्य कथयति! पृच्छति इत्युक्ते तस्य रहस्यमपि एषः पृच्छति! 
अनन्तरं भुङ्क्ते इत्युक्ते एषः तस्य गृहं गत्वा भोजनं करोति एवञ्च तमपि स्वगृहं प्रीत्या आहूय भोजयते! 
एवं षड्विधं प्रीतिलक्षणम् इति! अस्तु! 
हरिः ॐ तत्सत्!- प्रदीपः!!

No comments:

Post a Comment