Monday, June 24, 2019

6th vibhakti rules - where and when - Simple sentences in Sanskrit

षष्ठी विभक्तिः --(प्रयोगः)
१. षष्ठी शेषे-- तस्य पुत्रः।
२. कर्तृकर्मणोः कृतिः-- बालकस्य गमनम्। धनस्य दानम्।
३. उभयप्राप्तौकर्मणि-- अर्थस्य हरणं चौरेण।
४. क्तस्य च वर्तमाने-- सर्वेषां ज्ञातम्।
५. कृत्यप्रत्यययोगे-- मम (मया वा) कर्तव्यमिदं कार्यम्। तस्य शास्त्रं पाठ्यम्। मम दुग्धं पेयम्। सर्वेषां गुरुः स्तुत्यः।
हेतुपदे-- अन्नस्य हेतोर्वसति। रोदिषि कस्य हेतोः ?
७. अनादरे-- रुदतः शिशोः माता निर्गता।
९. यतश्च निर्धारणम्-- कवीनां कालिदासः श्रेष्ठः।
९. षष्ठ्यतसर्थ प्रत्ययेन-- ग्रामस्य दक्षिणतः। उद्यानस्य पुरस्तात्।
१०. तुल्यार्थे-- अर्जुनस्य तुल्यः वीरः नास्ति।
११. आशीर्वादे--तव कुशलं भूयात्। इति।

No comments:

Post a Comment