Tuesday, June 11, 2019

3 language formula

Courtesy: Sri.Narad Upadhyay  
कश्चन पृष्टवान् - महोदय, बिन्दुशः समासेन वदतु यत् कार्यकर्तार: किं निवेदनं कुर्युः। इति|
उत्तरम् एवं दत्तम् - कार्यकर्तारः किं निवेदनं कुर्युः इति एकः विषयः| कार्यकर्तृभिः मूलसमस्या अवगन्तव्या इति अपरः विषयः| द्वयमपि भवेत्| समस्या अवगता चेत् पुनः किं लेखनीयम् इति समस्या अपि न भवेत्|
 copy & paste द्वारा लाभः न भवति| Draft NEP  तथा च प्रेषिता आंग्लटिप्पणी इति द्वयमपि दृष्टं चेदेव अवगम्येत| तथापि अधोलिखितः सारांशः पठ्यताम्|
 राष्ट्रियशिक्षानीतिः - त्रिभाषासूत्रम् - संस्कृतभाषा - इति विषये सारांशः ---- १)त्रिभाषासूत्रान्तर्गतत्वेन तिसृणां भाषाणां चयनस्य स्वातन्त्र्यं छात्राय देयम्, भारतसंघस्य राजभाषाद्वये अथवा अष्टमसूच्याः २२भाषासु याः काः अपि तिस्रः भाषाः व्यवस्थानुगुणं चेतुं शक्याः इति नीतिः भवेत्| २) प्रकृतम् आंग्लभाषा एका एव देशे अनिवार्यभाषा अस्ति, तस्याः अनिवार्यता समापनीया| ३) भाषायाः आधारेण देशस्य विभजनं न करणीयम्| ४)  CBSE मध्ये त्रिभाषासूत्रस्य क्रियान्वयनं दशमकक्ष्यापर्यन्तं भवेत्| ५) CBSE मध्ये ११-१२कक्ष्ययोः भाषाद्वयं भवेत्, तयोः भाषयोः चयनस्वातन्त्र्यं छात्राणां भवेत्| ६) संस्कृतं मुख्यधारातः पृथक् कृत्वा तस्याः संस्कृतपाठशाला-संस्कृतविश्वविद्यालयेभ्यः प्रेषणापेक्षया मुख्यधाराशिक्षणे आनेतव्या| ७) ११-१२कक्ष्ययोः स्नातकादिकक्ष्यासु च 'योगाय संस्कृतम्' 'आयुर्वेदाय संस्कृतम्' इत्यादिरूपेण विशिष्टोद्देशपाठ्यक्रमः ऐच्छिकरूपेण कल्पनीयः| ८)११-१२कक्ष्ययोः विज्ञानवाणिज्यविषयाभ्यां सह अपि संस्कृतपठनावसरः कल्पनीयः| ९)का अपि भाषा बलेन न बोधनीया| अतः कस्याः अपि भाषायाः अनिवार्यता न भवेत्| प्रत्युत  सा भाषा पाठनविधिवैशिष्ट्यैः आकर्षिका कुतूहलोत्पादिका च करणीया| १०)भाषा वैषम्यं न, अपि तु सामरस्यम् उत्पादयेत्|

No comments:

Post a Comment