Thursday, May 23, 2019

Krishnakant sandhi-Sanskrit article

Courtesy:Sri.Narad Upadhyay,Assam
व्यक्तित्व-सरणिः--७
          🔯 असम-मनिषी 🔯

         🚩 कृष्णकान्तसन्धिकै--
      महान् संस्कृत-पण्डितः, भाषातत्ववित्, असमस्य पुरोधानाम् अन्यतमः, यस्य च नाम  कृष्णकान्तसन्धिकै इति आसीत्। क्रि. २० जुलाइ, १८९८ दिनाङ्के जोरहाटनगरे तस्य जन्म अभवत्। यथाकाले तत्रैव अध्ययनं कुर्वन् प्रवेशिका-परीक्षायां साफल्यं प्राप्य   तदनन्तरं संस्कृतविषयम् अधीत्य  स्नातकोत्तरोपाधिमपि आसादितवानासीत्। तत्पश्चात्  अक्सफोर्ड-विश्वविद्यालयतोsपि  इतिहासविषये स्नातकोत्तरोपाधिं लब्धवान्। क्रि. १९२३-२७ वर्षावधौ फ्रान्स जर्मनी इत्यादिदेशेषु अटित्वा सः विभिन्नभाषासम्पर्कीयं ज्ञानम् अर्जितवान्। सः महाजनः गुवाहाटी-विश्वविद्यालयस्य प्रथमः उपाचार्यः आसीत्। आजीवनं ज्ञानसाधकस्य तस्य एकः वैयक्तिकः महान् पुस्तकालयोsपि  आसीत्। तत्र संस्कृतम्, आङ्ग्ला, पालि, प्राकृत, फ्रान्स, लेटिन, ग्रीक इत्यादिविविधभाषाणां दशसहस्त्राधिकानि पुस्तकानि आसन्। तस्य जीवनस्य अन्तिमपर्याये बहुभाषाज्ञात्रा तेन तस्मै  विश्वविद्यालयाय तत्सर्वाणि पुस्तकानि दानं कृतमासीत्। सः क्रि. ७ जुन १९८२ दिनाङ्के इतः वैकुण्ठम् आश्रितवान्।
      तस्य प्रकाशिताः ग्रन्थाः -श्रीहर्षस्य नैषधचरितग्रन्थस्य आङ्ग्लानुवादः, एवमेव सोमदेवस्य यशस्तिलक एण्ड इण्डियान् कालचार, मराठीलेखक-प्रवरसेनस्य प्राकृतग्रन्थः सेतुबन्धः इत्यादयः। तदुपरि तस्य बहुप्रबन्धादिकं सञ्चिकावार्तादिषु प्रकाश्यमानम् आसीत् तदा।
        सम्मानः - सर्वभारतीयसम्मेलनादिषु सभापतित्वेन सहकृतवता तेन पद्मश्री (१९५५), पद्मभूषणम् (१९७८), असम-साहित्य-सभातः महीयानसदस्यसम्मानः (१९७८) इत्याद्युपरि क्रि.१९५१ तमवर्षे अखिलभारतीय-प्राच्यविद्या-सम्मेलने सभापत्यासनम् अलङ्कृतवता तेन च क्रि. १९३७ तमवर्षे असम-साहित्य-सभायाः सभापतिदायित्वमपि निर्वोढमिति।
               -- नारदः, ५/५/१९.

No comments:

Post a Comment