Wednesday, May 22, 2019

Exemplary friendship - Sanskrit story

मैत्र्याः आदर्शः 

एकस्मिन् राज्ये द्वे घनिष्ठमित्रे असवसताम् । तस्य राज्यस्य शासकः अत्याचारपरः क्रूरश्च आसीत् । प्रजायाः कष्टानि असहमानौ तौ सुहृदौ नृपस्य विरोधं कर्तुं प्रवृत्तौ । प्रजायां विद्रोहभावनाया जागरणप्रयासे तयोः एकः राजपुरुषैः धृतः । राज्ञा तस्मै मृत्युदण्डः श्रावितः ।
मृत्युदण्डः श्रुत्वा स राज्ञे न्यवेदयत् यदहं मरणात् पूर्वं निजे ग्रामे परिवारं द्रष्टुम् इच्छामि । राजा गमनाय नान्वमन्यत तदा तत्रोपस्थितः तस्य सुहृद् अवदत्—अयं मम सखा गृहे प्रेष्यताम् तत्स्थाने अहं शूलम् आरोपणीयः , यदि एषः निश्चिते अवधौ न आगच्छति ।
नृपतिः तस्य प्रार्थनां स्वीचकार किन्तु षड्होरामिते काले तेन आगन्तव्यम्, इति पणोSपि श्रावितः, अन्यथा तस्य सुहृद् प्राणदण्डं लप्स्यते ।
अश्वम् आरुह्य दण्डनीयः पुरुषः जवेन गृहं प्राप्तः । परिवारेण सह संभाष्य तं च रुदन्तं विहाय स पुनः शीघ्रं तत्र प्राप्तुम् ऐच्छत् । किन्तु मार्गे अश्वः अपतत् अम्रियत च ।
अन्यवाहनेन यदा सः तत्र प्राप्तः षड्होराः व्यतीताः आसन् । तस्य सुहृद् वधस्थानं प्रति नीयते स्म , किन्तु सः प्रसन्नः आसीत् यदहं मित्रस्य प्राणरक्षणे सहायः भवामि ।
विलम्बात् प्राप्तः तस्य सुहृद् नृपाय न्यवेदयत्, यदहं प्राप्तोSस्मि । अहम् एव अपराधी, अतः अहम् एव शूले आरोपणीयः । मम सुहृद् मुच्यताम्, किन्तु स्तस्य मित्रस्य तर्कः आसीत्, षड्होराः व्यतीताः, अतः नियमानुसारं मृत्यदण्डभाक् अहम् अस्मि ।
तयोः मित्रयोः ईदृशं भावं वीक्ष्य भूपतिः करुणार्द्रः अजायत । स उभौ सुहृदौ अमुञ्चत् । तदाप्रभृतिः स प्रजाजनेषु अत्याचारपरं व्यवहारं परित्यज्य प्रजारञ्जने प्रवृत्तः जातः ।

No comments:

Post a Comment